निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 295, कुल 1282 में से
संदर्भ में पढ़ें१३० । २ अ० ७ पा० ४ ख० ।
“इन्द्र ऽअस्मान्-अरदद्-वज्र॒बाहुः”। ‘रदतिः’
खनतिकर्मा । “अपा॒हन्-वृ॒त्रं-परि॒धिं” “न॒दीनाम्”
इति व्याख्यातम् । “देवोऽनयत् सविता सुपाणिः’ ।
कल्याणपाणिः । ‘पाणिः’ पणायतेः पूजाकर्मणः ।
प्रगृह्य पाणी देवान् पूजयन्ति । “तस्य वयं प्रसवे
याम उर्वीः”। ‘उर्वीः’ ऊर्णोतेः । वृणोतेः-इति
और्णवाभः । प्रत्याख्याय अनन्ततः आश्रुश्रुवुः ॥४॥
अर्थ ।
[खण्ड विषय-] नदियोंका प्रतिवचन, कि हम तुम्हारी प्रार्थना
के स्वीकारमें स्वतन्त्र नहीं। पाणि, उर्वी शब्दोंका निर्वचन।
सूक्तके अन्तमें ऋषिके वाञ्छितको पूरा करनेकी प्रतिज्ञाका उल्लेख।
हे विश्वामित्र ! “वज्रबाहुः इन्द्रः अस्मान्
अरदत्” अखनत् । “नदीनां परिधिं” निरोधकं
“वृत्रं” मेघम् “अपाहन्” अपावधीत् । स एव
“सविता” वर्षद्वारेण सर्वार्थ-प्रसविता “सुपाणिः”
‘कल्याणपाणिः’ समुद्रम् “अनयत्” “तस्य” इन्द्रस्य
“प्रसवे” आदेशे वर्त्तमानाः ‘“उर्वीः” ऊर्णुवत्यः
वयं “यामः” गच्छामः इत्यर्थः ।
हे विश्वामित्र ! वज्रको हाथमें रखनेवाले इन्द्रने हमें खोदा
है। [क्योंकि-] नदियोंके रोकनेवाले मेघको उसने मारा, [जिसके
हत होनेसे पानी पृथ्वी पर गिरे, और वे पृथ्वीको खोदते हुए नीचे