निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 290, कुल 1282 में से
संदर्भ में पढ़ें१२४ २ अ० ९ पा० २ खं० ।
उदकनामानि उत्तराणि एकशतम् ( १०१ ) ।
'उदकं' कस्मात् ? 'उनत्ति-इति' सतः ।
नदी-नामानि उत्तराणि सप्तत्रिंशत् ( ३७ ) ।
नद्यः कस्मात् ? नदना भवन्ति, शब्दवत्यः । बहुल-
मासां नैघण्टुकं वृत्तम् । आश्चर्यमिव प्रधान्येन ।
तत्र-इतिहासमाचक्षते ।—
विश्वामित्र ऋषिः सुदासः पैजवनस्य पुरोहितो
बभूव । 'विश्वामित्रः' सर्वमित्रः । 'सर्वम्' संसृ-
तम् । 'सुदाः' कल्याणदानः । 'पैजवनः' पिज-
वनस्य पुत्रः । 'पिजवनः' पुनः स्पर्द्धनीयजवो वा ।
मिश्रीभावगति र्वा । स वित्तं गृहीत्वा विपाट्
शुतुद्र्योः सम्भेदम्-आययौ । अनुययुः-इतरे । स
विश्वामित्रो नदीस्तुष्टाव ।—'गाधा भवत'-इति ।
अपिद्विवत्, अपि बहुवत् । तद्-यद्-द्विवद्-उपरि-
ष्टात् तद् व्याख्यास्यामः । अथ एतद्-बहुवत्-॥ २ ॥
अर्थ ।
( खण्ड विषय-) 'सरस्वती' शब्दके नदी वाचकतामें उदाहरण
मन्त्र । मन्त्रगत-शुष्म, बिस, सानु, पारावतघ्नो, ( व्याख्या प्रसक्त-)
पार, अवार शब्दोंका निर्वचन । उदक-नामोंकी संख्या । 'उदक'
शब्दका निर्वचन । नदी नामोंकी संख्या । 'नदी' शब्दका निर्व-