निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 289, कुल 1282 में से
संदर्भ में पढ़ेंनभन्यः (१५) । वध्वः (१६) । हिरण्यवर्णाः (१७) ।
रोहितः (१८) । सस्रुतः (१९) । अर्णाः (२०) ।
सिन्धवः (२१) । कुल्या (२२) । वर्य्यः (२३) ।
उर्व्यः (२४) । इरावत्यः (२५) । पार्वत्यः (२६) ।
स्रवन्त्यः (२७) । अर्जस्वत्यः (२८) । पयस्वत्यः
(२९) । सरस्वत्यः (३०) । तरस्वत्यः (३१) ।
हरस्वत्यः (३२) । रोधस्वत्यः (३३) । भास्वत्यः
(३४) । अजिराः (३५) । मातरः (३६) । नद्यः
(३७) । इति सप्तत्रिंशत् नदीनामानि ॥ १३ ॥
(खण्ड २)
[ निरु० ] “इ॒यं शुष्मे॑भि र्बिस॒खा इ॑वा रुज॒-
त्सानु॑ गि॒रीणां त॑वि॒षेभि॑ रू॒र्मिभिः॑ । पा॒रा॒वत॒घ्नी मव॑से
सु॒वृ॒क्तिभिः सर॑स्वती॒ मा वि॑वासेमधी॒तिभिः॑ ॥
“इयं” शुष्मैः शोषकैः । 'शुष्मम्'-[ऋ० स०
४, ८, ३०, २]
इति बलनाम, शोषयति इति सतः । 'बिसम्'
विस्यतेर्भेदनकर्मणः । वृद्धिकर्मणो वा । “सानु” समु-
च्छ्रितं भवति । समुन्नद्धम्-इति वा । महद्भिः “ऊ-
र्मिभिः” “पारावतघ्नीम्” पारावारघातिनीम् । 'पारं'
परं भवति । 'अवारम्' अवरम् । अवनाय सुप्रवृ-
त्ताभिः स्तुतिभिः “सरस्वतीम्” कर्मभिः परिचरेम ॥