निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1178, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ४१५ ) ११ अ० २ पा० ६ खं०
(खंड ६)
निरु०-“ उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः
पि॒तरः॑ सो॒म्यास॑: । असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञा-
स्तेनो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥” (ऋ० सं० ७, ३,
१७, १) (य० वाज० सं० १९, ४९) ॥८
उदीरताम् अवरे, उदीरतां परे, उदीरतां म-
ध्यमाः पितरः सोम्याः सोमसम्पादिनः ते, असुं
ये प्राणम् अन्वीयुः अवृकाः अनमित्राः सत्यज्ञा
वा, यज्ञज्ञा वा, ते नः आगच्छन्तु पितरोह्वा-
नेषु ॥
माध्यमिको यमः, तस्माद् माध्यमिकान् पितॄन्
मन्यन्ते ।
'अङ्गिरसो व्याख्याताः, पितरो व्याख्याताः,
भृगवो व्याख्याताः, 'अथर्वाणः' अथनवन्तः।
'थर्वतिः' चरतिकर्मा, तत्प्रतिषेधः।
तेषाम्- एषा साधारणा भवति- ॥ ६ (१८) ॥
अर्थः-“उदीरतामवरे०” इस ऋचाका शङ्ख ऋषि
और पितृमेधमें विनियोग है। (ये) जो 'पितरः' पितर 'अवरे'
(पृथिवीम् आश्रिताः) पृथिवी पर रहते हैं, (ते) वे (तावत्)
पहिले 'उदीरताम्' (ऊर्ध्वं गच्छन्तु) ऊपरको जावें-ऊपर
के लोक में जावें। 'परासः' (परे) (द्युलोकम् आश्रिताः) और