निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 102, कुल 1282 में से
संदर्भ में पढ़ें१०२ अ० १ पा० ३ ख० ४ ।
( २ ) ऋक् = अर्चनी ।
( ३ ) गायत्री = गायत्रं-गायतेः-स्तुतिकर्मणः ।
( ४ ) शक्वर्यः = ऋचः शक्नोतेः-तद् यदाभिर्वृत्रमशकद्धन्तुं
तच्छक्करीणां शकरोत्वमिति
विज्ञायते ।
( ५ ) जातविद्याम् = जाते जाते विद्याम् ।
( ६ ) ब्रह्मा = ( १ ) सर्वविद्यः,
( २ ) सर्वं वेदितुमर्हति,
• ( ३ ) परिवृढः ( परिवृलढः ) श्रुततः ।
( ७ ) ब्रह्म = परिवृढ सर्वतः ।
( वेदःपरब्रह्म च )
( ८ ) अध्वर्युः = ( १ ) अध्वरयुः
( यु प्रत्यय ) ( २ ) अध्वरं युनक्ति,
( ३ ) अध्वरस्य नेता ( प्रापयिता )
( ४ ) अध्वरं कामयते कर्त्तुम् ।
( ५ ) अध्वरमधीते यः स अध्वर्युः ।
( ९ ) अध्वरः = यज्ञः ।
( १० ) ध्वरः = ध्वरति हिनस्तीति ध्वरः ।
ध्वरति, धूर्वति इति हिंसार्थेषु पठितौ,
तत्प्रतिषेधः अध्वरः अहिंस्र इत्यर्थः ।
( ४र्थः खण्डः )
( ११ ) अक्षण्वन्तः = अक्षिमन्तः ।
( १२ ) अक्षि = ( १ ) चष्टेः ( चक्षिङ् व्यक्तायां वाचि )
( २ ) अनक्तेः इति आग्रायणः,
“तस्माद् एते व्यक्ततरे इव भवत इतिह
विज्ञायते ।”