निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1016, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६० ) ६ अ० ३पा० ५ खं०
स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे
वितस्तयार्जीकीये शृणुह्या सुषोमया ॥” (ऋ०सं०
८, ३, ६, ५ ) ॥
इमंमे गङ्गे! यमुने! सरस्वति! शुतुद्रि! परुष्णि! स्तोमम्,
आसेवध्वम्, असिक्न्या चसह, मरुद्वृधे! वितस्तयाच,
आर्जीकीये! आशृणुहि सुषोमया च, इतिसमस्तार्थः॥
अथ- एकपदनिरुक्तम्-
'गंगा' गमनात् ।
'यमुना' प्रयुवती गच्छति- इति वा । प्रवियुतं
गच्छति- इति वा ।
'सरस्वती' 'सरः' इति उदकनाम। सर्त्तेः। तद्वती ।
'शुतुद्री' शुद्राविणी = क्षिप्राविणी । आशुतुन्ना-
इव द्रवति इति वा ।
'इरावती ' = 'परुष्णी'- इत्याहुः । पर्ववती ।
भास्वती । कुटिलगामिनी ।
'असिक्नी' अशुक्ला = असिता । 'सितम्'-इति
वर्णनाम । तत्प्रतिषेधः असितम् ।
'मरुद्वृधाः' सर्वा नद्यः । मरुतःएनाः वर्द्धयन्ति ।
'वितस्ता' अविदग्धा । विवृद्धा । महाकूला ।
'आर्जीकीयां' = 'विपाट्'- इत्याहुः । ऋजीक-