नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)
Natyashastra Part 2 of Bharata Muni with Pradipa Commentary
महर्षि भरत मुनि (टीकाकार: पं. बाबूलाल शुक्ल शास्त्री) द्वारा
पृष्ठ 365, कुल 668 में से
संदर्भ में पढ़ें२५४ नाट्यशास्त्रम्
– – – – ˘ – – ˘ ˘ ˘ ˘ ˘ ˘ – – ˘ – – ˘ – –
यथा—चूताशोकारविन्दैः कुरवकतिलकैः कर्णिकारैः शिरीषैः
पुन्नागैः पारिजातैर्बकुलकुवलयैः किंशुकैः सातिमुक्तैः।
एतैर्नानाप्रकारैः कुसुमसुरभिभिर्विप्रकीर्णैश्च तैस्तै-
र्वासन्तः पुष्पवृन्दैर्नरवर वसुधा स्रग्धरेवाद्य१ भाति ॥१०३॥
हे राजन्, इन वसन्त ऋतु में अनेक पुष्पों की मीठी तथा मोहक सुगन्ध
से—जो आम्र, अशोक, अरविन्द, कुरवक, तिलक, कर्णिकार, शिरीष, पुन्नाग,
पारिजात, वकुल, कुवलय, किंशुक तथा अतिमुक्त पुष्पों की है। यह पृथ्वी
ऐसी दिखाई देती है जैसे किसी अङ्गना ने पुष्पों की अनेक मालाएं पहिन
रखी हों ॥ १०३ ॥
चतुर्थमाद्यं षष्ठञ्च दशमं द्वादशन्तथा ।
षोडशाष्टादशे चैव नैधनञ्च गुरुण्यथ ॥ १०४ ॥
द्वाविंशत्यक्षरे पादे शेषाणि च लघून्यथ ।
भवन्ति यत्र तज्ज्ञेयं मद्रकं नामतो यथा२ ॥ १०५ ॥
मद्रक—यदि बाईस अक्षरों के पाद में पहिला, चौथा, छठा, दसवां,
बारहवां, सोलहवां, अठारहवां तथा अन्तिम वर्ण गुरू हो ( और बाकी लघु
वर्ण हों ) तो 'मद्रक'-वृत्त कहलाता है ॥ १०४-१०५ ॥
– ˘ ˘ – ˘ – ˘ ˘ ˘ – ˘ – ˘ ˘ ˘ – ˘ – ˘ ˘ ˘ –
यथा—उत्प्लुतमेकहस्तचरणं३ द्वितीयकररचितं४ सुविनतं
वंशमृदङ्गवाद्यमधुरं विचित्रकरणानुगं५ बहुविधम्।
१. रेवावभाति—क० । २. मद्रकवृत्तस्य लक्षणान्तरमेवं क-पुस्तके—
.. ओ चरणे यदा विनियतौ त्रिकौ क्रमवशादथाकृतिविधौ
त्रौ च ततःपरञ्च रुचिरावनन्तरकृतौ नगावपि पुनः।
तच्च दशाष्टवर्णरचिता चतुष्वंपि तथा यतिश्च सततं
मद्रकवृत्तमेव खलु नाटययोगकुशलैर्बुधैर्निगदितम् ॥ तथा
काशी पुस्तकेऽस्य लक्षणस्य पाठस्त्वेवम्—
श्रौ चरणे यदा विनियतौ त्रिकौ क्रमवशादथाकृतिविधौ
नौ च ततः परश्च नियतौ तथा तदनु चार्पिता नरनगाः ।
स्याच्च दशाष्टवर्णरचिता यतिः पुनरिह प्रिया च विदुषां
श्रुतिसुखसमर्थसुभगं मद्रकवृत्तमेतदुदितं खलु ॥
३. उन्नतमेक—ख०, उद्यतमेक—ग० ।
४. कररेचकं सललितं—ख०; ग० । ५. करणान्वितं—ख०; गं० ।