नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)
Natyashastra Part 2 of Bharata Muni with Pradipa Commentary
महर्षि भरत मुनि (टीकाकार: पं. बाबूलाल शुक्ल शास्त्री) द्वारा
पृष्ठ 298, कुल 668 में से
संदर्भ में पढ़ेंचतुर्दशोऽध्यायः १८७
हैं—( १ ) आवन्ती, ( २ ) दाक्षिणात्या, ( ३ ) पांचाली तथा ( ४ )
मागधी ॥ ३६ ॥
अत्राह—प्रवृत्तिरिति कस्मात् ? उच्यते¹—पृथिव्यां नानादेश-
वेषभाषाचारा³ वार्ताः ख्यापयतीति प्रवृत्तिः। प्रवृत्तिश्च निवेदने⁴।⁵ अत्राह—
यथा पृथिव्यां नाना⁶देशाः सन्ति । कथं⁷मासां चतुर्विधत्वमुपपन्नं
समानलक्षणाश्चासां प्रयोगः ? उच्यते—तत्तु⁸ सत्यम्, आसां समान-
लक्षणप्रयोगः, किन्तु नानादेशवेषभाषाचारो लोक इति कृत्वा
लोकानुमतेन वृत्तिसंश्रितस्य⁹ नाट्यस्य मया चतुर्विधत्वमभिहितम्—
भारती¹⁰, आरभटी, सात्वती कैशिकी चेति ।
वृत्तिसंश्रितैश्च प्रयोगैरभिहिता¹¹ देशाः, यतः¹² प्रवृत्तिचतुष्टय-
मभिनिर्वृत्तं¹³ प्रयोगश्चोत्पादितः¹⁴ ।
( गद्य भाग )—प्रश्न—इसे प्रवृत्ति क्यों कहा गया ? उत्तर—विश्व के
विभिन्न प्रदेशों के स्थानीय वेश, आचार, भाषा तथा कार्य व्यवहार को
सूचित करने के कारण ये 'प्रवृत्ति' कहलाती हैं। 'वृत्ति' या 'प्रवृत्ति' का
अर्थ है प्रदर्शित, सूचित या अवगत करवाना । इस विश्व में अनेक देश
( तथा प्रदेश ) हैं।
१. अत्रोच्यते—क० । २. यथा पृथिव्यां—क० ।
३. भाषाचारवार्ताः—ख; ग० । ४. प्रवृत्तिः वृत्तिश्च निवेदने—ग० ।
५. निवेदनं—क; निवेदनैः—ख० । ६. बहवो देशाः—ग० ।
७. तदा कथ—क० । ८. एवमेतत्—क; सत्यमेतत्—ग० ।
९. लोकानुमतेऽनुवृत्तिसंश्रितस्य—ख; ग० ।
१०. भारती सात्वती कैशिक्यारभटी—क० ।
११. प्रयोगोचिता—क०; प्रयोगेष्वभिरता—ख०; ग० ।
१२. यतो वृत्ति—क० । १३. अभिनिवृत्तं—ख; ग० ।
१४. अस्मादनन्तरं—
आ नर्मदाया आसिन्धोरापूर्वावर्तिनस्तथा ।
आपश्चिमात् समुद्राच्च तथा सौवीरराष्ट्रतः ॥
आहिमाद्रेस्तथा देशा विदेशैश्चान्तरेण ये ।
सात्वती कैशिकीयुक्ता तेषामावन्तकी स्मृता ॥
इत्यधिकं—क० पुस्तकपादटिप्पण्याम् ।