नाट्यशास्त्र: भाग २ (भरत मुनि - प्रदीप हिन्दी व्याख्या सहित: संगीत, वाद्य, ताल एवं रस-विधान)
Natyashastra Part 2 of Bharata Muni with Pradipa Commentary
महर्षि भरत मुनि (टीकाकार: पं. बाबूलाल शुक्ल शास्त्री) द्वारा
पृष्ठ 280, कुल 668 में से
संदर्भ में पढ़ेंत्रयोदशोऽध्यायः १६९
तपस्विनी स्त्री गति—
व्रतस्थानां तपःस्थानां लिङ्गस्थानां तथा¹ पुनः ।
खस्थानाञ्चैव² नारीणां समपादम्प्रयोजयेत् ॥ १९४ ॥
जो स्त्रियां व्रत, तप, दीक्षा लिए हुए संन्यासिनी तथा आकाशगामिनी
दिव्य हों तो उनकी गति में 'समपाद' चारी की योजना की जाए ॥१९४॥
उद्धता येऽङ्गहाराः स्युर्याश्चार्यो मण्डलानि वा ।
तानि नाट्यप्रयोगज्ञैर्न कर्तव्यानि योषिताम्³ ॥ १९५ ॥
जो अङ्गहार, चारी और मण्डल उद्धत प्रकार के हों उनकी स्त्री पात्रों
में चतुर नाट्यनिर्देशक योजना न करे ॥ १९५ ॥
(स्त्री तथा पुरुष पात्रों का) आसन विधान—
अथासन⁴विधिः कार्यः स्त्रीणां नृणामथापि च ।
नानाभावसमायुक्तस्तथैव⁵ शयनाश्रयः ॥ १९६ ॥
पुरुष तथा स्त्रियों के बैठने की विधि (आसन-विधि) उनके विभिन्न
भावों से युक्त एवं प्रसंगानुसार रखना चाहिए और इसी प्रकार इनकी
शयन विधि भी होती है ॥ १९६ ॥
स्वस्थ दशा में उपवेशन-विधि—
विष्कम्भिताञ्चितौ⁷ पादौ त्रिकं⁸ किञ्चित्समुन्नतम् ।
हस्तौ⁹ कट्यूरुविन्यस्तौ स्वस्थे¹⁰ स्यादुपवेशने¹¹ ॥ १९७ ॥
१. तथैव च—ख०; ग० घ० । २. स्वस्थानाञ्चैव—ख०; ग० घ० ।
३. योषिता—ख०; ग० । ४. तथासन—ख० ।
५. स्तथा च—क०, ग० ।
६. अनयोर्मध्ये श्लोकद्वयं क (म०) मातृकायाम् पठ्यते । तद्यथा—
स्वस्थं मन्दालसं क्लान्तं स्रस्तालसमथापि च ।
विष्कम्भितमुत्कटिकं मुक्तजानु तथासनम् ॥
जानुगतं विमुक्तञ्च स्थानकान्युपवेशने ।
लक्षणं पुनरेतेषां विनियोगञ्च वक्ष्यते ॥
७. विष्कम्भेना—ख०; ग० घ० । ८. वक्षः—क० ।
९. हस्ताः कट्यूरुष्विन्यस्ताः—ग० । १०. बाहुशोषाश्रितं शिरः—ख० ।
११ अस्मादनन्तरं—
स्वभावभिनये चैव तथा स्वस्थोपवेशने ।
आविष्कृतेषु सर्वेषु भावेष्वेतत् प्रयोजयेत् ॥ इति अधिकं पद्यम् क० पु० ।