नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
१२ नलचम्पूः ।
म्मनिर्भरः, सततभकुलीनं कुलीनाः, प्राप्तविमानमप्राप्तविमानभंगाः,
कतिपयवसुविराजितमनेकवसवः, समुपहसन्ति स्वर्गवासिनं जनं
जनाः ॥ क ॥
कथं चौसौ स्वर्गान्न विशिष्यते ॥ ख ॥
यत्र गृहे गृहे गौर्यः स्त्रियः, महेश्वरो लोकः, सश्रीका हरयः, पदे
पदे धनदाः सन्ति लोकपालाः । केवलं न सुराधिपो राजा । नैच
विनायकः कश्चित् ॥ ग ॥
यत्र चलतासंवन्धः कलिकोपक्रमश्च पादपेषु दृश्यते न पुरुषेषु ॥ घ॥
यत्र चमरकवार्ता परमहिमोपघातश्च तुहिनाचलस्थलीषु श्रूयते न
प्रजासु ॥ ङ ॥
यश्च नीतिमत्पुरुषाधिष्ठितोऽप्यनीतिः, सवटोऽप्यटसंकुलः, कारू-
पयुतोऽप्यगतरूपशोभः ॥ च ॥
नता तिरस्कारः । वसु धनम् । पक्षे कुः पृथ्वी तस्यां लीनाः । विमानं देवयानम् ।
वसवोऽष्टौ ध्रुवादयः । देवन्यक्कारस्तुल्यार्थे व्याख्येयः ॥ क ॥
कथं चायं स्वर्गान्नाधिकः ॥ ख ॥
यत्रेति ॥ गौर्यो गौराङ्गयः शुद्धोभयान्वया वा स्त्रियः । महानीश्वरोऽतिसमृद्धः।
सहश्रिया शोभया सश्रीकाः । हरयोऽश्वाः । धनप्रदा नृपाः । स्वर्गे त्वेकस्मिन्नेव
गृहे गौरी उमा । एक एव महेश्वरः शिवः । सलक्ष्मीको विष्णुरेव एव । न बहवः ।
धनदः कुबेर एकस्मिन्नेव स्थान एक एव । केवलं परम् । अधिपिवतीत्यधिपः ।
सुराया मद्यस्याधिपः सुराधिपो न राजा । नच कोऽपि विरुद्धनायकः । सुरामधि-
पिवतीति वाक्ये लक्ष्यदूषणमप्रसङ्गात् । सुराप्रपावत् । स्वर्गे तु सुराणामधिप
इन्द्रः । विनायको गणेशः ॥ ग ॥
यत्रेति ॥ लतासंबन्धो वल्लीयोगः । कलिकाया उपक्रमः । पक्षे 'चलतासं-
बन्धः' इति समुदितं पदम् । चलता लौल्यम् । कलिः कलहः । कोपः क्रुधू ।
तयोः क्रमः ॥ घ ॥
यत्रेति ॥ चमरका गोविशेषाः । परममुत्कृष्टं हिमं तुहिनम् । पक्षे मरको
मरणबाहुल्यम् । परस्य महिमा माहात्म्यम् । तस्योपघातः ॥ ङ ॥
यश्चेति ॥ न विद्यत ईतिरूपद्रवोऽस्मिन्नित्यनीतिः । वटा न्यग्रोधाः । अवटाः
कूपादिगर्ताः । कारवः शिल्पिनः । तथा न गता न भ्रष्टा रूपशोभा यस्य । अगै-
र्नेगैस्तरुभिश्चोपशोभा यस्येति वा । अपिर्विरोधे । स च तुल्यार्थेनाव्याख्या ।
कुत्सितमीषद्वारूपं कारूपम् ॥ च ॥
१ 'सङ्गाः'. २ 'राजित'. ३ 'स स्वर्गलोकान्न'. ४ 'सर्वत्र महेश्वरः'. ५ 'न
विनायकः'. ६ 'कारूप्यम्'.
प्रथम उच्छ्वासः । १३
यत्र च गुरुव्यतिक्रमं नक्षत्रराशयः, मात्राकलहं लेखशालिकाः,
मित्रोदयद्वेषमुलूकाः, अपत्यत्यागं कोकिलाः, बन्धुजीवविर्घातं ग्रीष्म-
दिवसाः, कुर्वन्ति न जैनाः ॥ क ॥
किं बहुना ।
देशः पुण्यतमोदेशः कस्यासौ न प्रियो भवेत् ।
युक्तोऽनुक्रोशसंपन्नैर्ये जनैरिव योजनैः ॥ २८ ॥
तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः ।
तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ २९ ॥
जननीतिमुदितमनसा सततं सुखामिना कृतानन्दा ।
सा नगरी नगतनया गौरीव मनोहरा भाति ॥ ३० ॥
यस्यामभ्रंलिहेन्द्रनीलशालशिखरसहस्रनिँभृतांशुजालवालशाद्वला-
ङ्कुराग्रग्रौसलालसाः सर्व्वलन्तः खे खेदयन्ति मध्यैदिनं सादिनं रविर-
थतुंरंगमाः ॥ ख ॥
यस्यां च स्फटिकमणिशिलानिबद्धभवनप्राङ्गणगँतासु संचरद्गृहिणी-
चरणालक्तकपङ्क्तिषु पतँन्ति निर्मलसलिलाभ्यन्तरतरत्तरुणरुणक-
नलकाङ्क्षया मुग्धमधुपपटलानि ॥ ग ॥
यत्र चेति ॥ इदमेते कुर्वन्ति न जनाः । गुरुर्वृहस्पतिः । मात्रा वर्णावयवः ।
मित्रः सूर्यः । बन्धुजीवं बन्धूकम् । पक्षे सुगमम् । मात्रा जनन्या सह ॥ क ॥
देश इति ॥ अनुक्रोशेन कृपया संपन्नैर्जनैर्युक्तोऽसौ देशः सर्वस्यापि प्रियः ।
पक्षेऽनुक्रोशे संपन्नान्यन्नजलतृणादिभिः समृद्धानि । अथवाऽनुगताः परस्परसंबद्धाः
क्रोशा अनुक्रोशास्तैः संपन्नानि ॥ २८ ॥
तस्येति ॥ पुरुषोत्तमो विष्णुः पुंश्रेयाश्च ॥ २९ ॥
जनेति ॥ जनस्य नीत्या हृष्टमनसा सुप्रभुणा कृतहर्षा । तथा न अष्टनया
अपि तु सन्नीतिमती । सा पुरी रम्या भाति । यत एवानष्टनया अतएव जनो
नीतिमान् । गौरी तु नगस्य हिमाद्रेस्तनया । तथा जननी मातेति हेतोर्हृष्टमनसा ।
अतएव शोभनेन हर्षोचिताकृतिसुन्दरेण स्वामिना स्कन्देन कृतानन्दा । तथा मनसि
हरो यस्याः ॥ ३० ॥
यस्यामिति ॥ शालः प्राकारः । इन्द्रनीलमणिकिरणान्नीलतृणतु·द्याँल्लिलिक्षवः
सप्तसप्तयः स्खलन्ति ॥ ख ॥
यस्यां चेति ॥ स्फटिकस्य सलिलं पदपङ्क्तेश्च कमलमुपमानम्॥ ग ॥
१ 'घातम्'. २ 'प्रजाः'. ३ 'नासौ'. ४ 'निःसृतांशु'. ५ 'ग्रासग्रहणलालसाः'.
६ 'स्खलन्तः खेदयन्ति'. ७ 'मध्यंदिने'. ८ 'तुरंगाः'. ९ 'संगतासु'. १० 'निपतन्ति'.
१४ नलचम्पूः ।
यस्यां च विविधमणिनिर्मितवासभवनभव्यभित्तिषु स्वच्छासु स्वां
छायामवलोकयन्त्यः कृतापरस्त्रीशङ्काः कथमपि प्रत्यानीयन्ते प्रियैः
प्रियतमाः ॥
यस्यां च दिव्यदेवकुलालंकृताः स्वर्गाः इव मार्गाः, सततमपांसुव-
सनाः सागरा इव नागराः, समत्तवारणानि वनानीव भवनानि, सुर-
सेनान्विताः स्वर्गभूपा इव कूपार, अधिकंधररोहेशमुद्भासयन्तो हारा
इव विहाराः ॥ क ॥
यस्यां च बहुलक्षणाः सुधावन्तो दृश्यन्तेऽन्तः प्रचुराः प्रासादा
बहिश्च वारणेन्द्राः । सुशोभितरङ्गाः समालोक्यन्तेऽन्तः संगीतशाला
बहिश्च क्रीडाकमलदीर्घिकाः । बहुधान्यनिरुद्धाः कथमप्यभिगम्यन्ते-
ऽन्तः पण्यस्त्रियो बहिश्च क्षेत्रभूमयः । नानांशुकविभूषणाः शोभन्तेऽन्तः
सभा बहिश्च सहकारवनराजयः । ससौगन्धिकप्रँसारा विराँजन्ते-
ऽन्तर्विपणयो बहिश्च सलिलाशयाः ॥ ख ॥
किं बहुना ।
भूमयो बहिरन्तश्च नानारामोपशोभिताः ।
कुर्वन्ति सर्वदा यत्र विचित्रवयसां मुदम् ॥ ३१ ॥
यस्यां चेति ॥ दिवि भवैरिब दिव्यै रम्यैर्देवकुलैर्देवगृहैः । पक्षे दिव्यैः
स्वर्गोद्भवैः कल्पद्रुमादिभिर्देवानां कुलैरन्वयैर्वालंकृताः । अपांसु रेणुरहितं वसनं
वस्त्रं येषाम् । पक्षे सुष्ठु वसन्त्येच्छ्विति सुवसनाः । 'अपाम्' इति कर्तरि षष्ठी ।
जलाधारा इत्यर्थः । मत्तवारणोऽपाश्रयो मत्तेभश्च । सुरसेन सुजलेन । स्वर्गभूपास्तु
सुरसेनया त्रिदशसैन्येनान्विताः । अधिकमिति क्रियाविशेषणम् । धरोद्देशः पृथ्वी-
प्रदेशः । विहाराश्चैत्यानि । पक्षे कंधरोद्देश इत्यधिकंधरोद्देशम् । विभक्त्यर्थेऽव्ययी-
भावः ॥ क ॥
यस्यां चेति ॥ क्षणो भूमिका । सुधा लेपविशेषः । पक्षे बहूनि लक्षणानि
येषाम् । तथा सुष्ठु धावन्तः । रङ्गो नर्तनस्थानम् । पक्षे सुशोभिनस्तरङ्गा येषु ।
बहुधेति भिन्नं पदम् । अन्यैर्विटैर्निरुद्धाः । पक्षे बहुभिर्धान्यैर्निरुद्धाः । आशुकविः
शीघ्रकविः । पक्षे शुकाः पक्षिणः । सुगन्धीनि द्रव्याणि पण्यमेषां ते सौगन्धिका
वणिजः कहलाराणि वा । प्रसारो लध्वापणो विस्तरश्च ॥ ख ॥
भूमय इति ॥ बाह्ये आरामैर्मध्ये रामाभिरुपशोभिताः । यस्यां रम्यवयसां
यूनां विविधपक्षिणां च मुदं कुर्वन्ति । वपुष्मतां कालकृतावस्था पक्षी च वयः ॥३१॥
१ 'विनिर्मिता' २ 'स्वर्भूपः' ३ 'संगीतकुशला' ४ 'प्रसरा' ५ 'राजन्ते'
प्रथम उच्छ्वासः । १५
यस्यां च भक्तभाजो देवतायतनेषु देवताः संनिधाना दृश्यन्ते हट्टेषु
वणिग्जनाः । अक्षरसावधानाः कविगोष्ठीषु कवयो विलोक्यन्ते द्यूत-
स्थानेषु द्यूतकाराः । कान्तारागप्रियाः करिणो राजद्वारेषु संचरन्ति
वेश्याङ्गनेषु भुजङ्गाः ॥ क ॥
यस्यां च चतुरुदधिवेलाविराजितसकलधराचक्रचूडामणौ मणि-
कर्मनिर्मितरैम्यहर्म्यतया सुरपतिपुरीपराभवकारिण्याम् । ॲव्ययभा-
वो व्याकरणोपसर्गेषु न धनिनां धनेषु । दानविच्छित्तिरुन्माद्यत्करि-
कपोलमण्डलेषु न त्यागिगृहेषु । भोगभङ्गो भुजङ्गेषु न विलासिलो-
केषु । स्नेहक्षयो रजनिविरामविरमत्प्रदीपपात्रेषु न प्रतिपन्नजनहृद-
येषु । कूटप्रयोगो गीततानविशेषेषु न व्यवहारेषु । वृत्तिकलहो
वैयाकरणच्छात्रेषु न स्वामिभृत्येषु । स्थानकभेदश्चित्रकेषु न सत्पुरु-
षेषु ॥ ख ॥
किं बहुना ।
त्रिदिवपुरसमृद्धिस्पर्धया भान्ति यस्यां
सुरसदनशिखाग्रेष्वाग्रहग्रन्थिनद्धाः ।
यस्यां चेति ॥ भक्तो भक्तिमान् । भक्तं चान्नम् । संनिधानं नैकट्यम् ।
सम्यङ्निधिश्च । अक्षरं वर्णः । पक्षे अक्षः पाशकः । अक्षरेसे स्थितमवधानं येषाम् ।
कान्तारे वने अगः सल्लक्यादिवृक्षस्तत्प्रियाः । पक्षे कान्ता वधूः ॥ क ॥
यस्यां चेति ॥ अव्ययभावोऽव्ययत्वम् । पक्षे व्ययो दानादिनोपयोगस्तद-
भावः । दानविच्छित्तिमंदशोभा त्यागविच्छेदश्च । भोगः सर्पवपुर्विलासश्च । भङ्ग
आमर्दनम् । कुण्डलीकरणमिति यावत् । व्याघातश्च । स्नेहस्तैलादिः प्रेमा वा ।
प्रतिपन्नानि परस्परप्रतीतानि च तानि जनहृदयानि च गीतस्य ताना द्वये ।
एके कूटाख्याः पञ्चत्रिंशत् । अन्ये च शुद्धाख्याश्चतुर्दश । एकमेकोनपञ्चाशत् ।
तेषां विशेषेषु कूटशब्दप्रयोगः । पक्षे कूटं कपटं प्रयोगो व्यापारः । वृत्तिः
शास्त्रविवरणम् । आजीवंन च । स्थानकभेदः संमुखं पराङ्मुखं संपूर्णायवरूपं
पार्श्वागतम् । ततो भागद्वयेनैकतः पततान्यत्र च घटता क्रमेण ऋजु ऋजुत्वा-
गतबर्धार्धार्धऋजुसंज्ञानि चेति स्थितस्थानकानि पञ्च । गमनामालीढं लरितं
त्रिभङ्गमित्याख्यानि च चत्वारि गच्छत्स्थानकानीति । एवं च नवानां स्थान-
कानां भेदश्चित्रेषु । पक्षे स्थानकस्य रक्षणीयनगरादेर्भेद उपजापो न सत्पुरुषेषु
सत्त्वात् ॥ ख ॥
त्रिदिवेति ॥ सुराणां सदनानि प्रासादा विमानानि च । आगृह्णन्त एभि-
रित्याग्रहा अङ्कुटकास्तेषु ये ग्रन्थयस्तैर्नद्धाः । वेल्लत्पल्लवैश्चलदञ्चलैः । उल्लसन्ती
१ 'भक्तिभाजो'. २ 'हर्म्यरम्यतया'. ३ 'अव्ययीभावो'. ४ 'चित्रेषु'.
१६ नलचम्पूः ।
नभसि पवनवेल्लत्पल्लवैरुलसद्भिः
परममिह वहन्त्यो वैभवं वैजयन्त्यः ॥ ३२ ॥
अपि च ।
चार्वी सदा सदाचारसज्जसज्जनसेविता ।
नगरी न गरीयस्या संपदा सा विवर्जिता ॥ ३३ ॥
तस्यामासीन्निजभुजयुगलबलविदलितसकलवैरिवृन्दसुन्दरीनेत्रनी-
लोत्पलगलद्बहलबाष्पपूरप्लवमानप्रतापराजहंसः, सकलजलनिधिवेला-
वननिखातकीर्तिस्तम्भभूषितभुवनवलयः, विश्रंभराभोग इव बहुधारण-
क्षमः, प्रासाद इव नवसुधाहारी, रविरिवानेकधामाश्रयः । दनुजलोक
इव सदानवः स्त्रीजनस्य, वसिष्ठ इव विश्वामित्रत्रासजननः, जनमे-
जय इव परीक्षितनयः, परशुराम इव परशुभासितः, राघव इवाल-
घुकोदण्डभङ्गरञ्जितजनकः, सुमेरुरिव जातरूपसंपत्तिः, तुहिनाचल
इव पुण्यभागीरथीसहितः, चिन्तामणिः प्रणयिनाम्, अग्रणीः साङ्गा-
मिकाणाम्, उपाध्यायोऽध्ययनविदाम्, आदर्शो दर्शनीयानाम्,
आचार्यः शौर्यशालिनाम्, उपदेशकः शंखशाखस्य, परिवृढो दृढप्र-
हारिणाम्, अग्रगण्यः पुण्यकारिणाम्, अपश्चिमो विपश्चिताम्,
राजद्भिः। वैभवं माहात्म्यम्। सर्वोऽपि विजिगीषुर्वद्धपरिकरः पताकां दर्शय-
तीति भावः ॥ ३२ ॥
चार्वीति ॥ चार्वी मनोज्ञा । सततं साध्वाचारप्रह्वसाधुश्रिता सा नगरी पुरी
गरीयस्या श्रिया न त्यक्ता ॥ ३३ ॥
तस्यामिति ॥ शत्रुकान्ताश्रुपुरे तरन्प्रताप एव राजहंसो यस्य । तथा
जयस्तम्भैर्भूषितभूमण्डलः । तथा स्तम्भोपमोद्दर्ण्डे न्यस्ता शालभञ्जिकेव जयल-
क्ष्मीर्यस्य । स वीरसेनतूनुर्नल इति प्रसिद्धो नृप आसीत् । बहुधानेकशो रणे
क्षमः । पक्षे बहूनां धारणे क्षमः । आभोगः पूर्णता । वसुधां देवद्विजसंवृद्धां
हरत्येवंशीलो न । पक्षे नवया सुधया लेपविशेषेण हारी रम्यः । अनेकधा
सप्ताङ्गलाङ्गेषुधा माया लक्ष्म्या आश्रयः । पक्षेऽनेकस्य प्रचुरस्य धाम्न आश्रयः ।
सदा नित्यं नवो रम्यतयापूर्व एव । पक्षे दानवैः सह । विश्वेषाममित्राणां त्रास-
कृत् । पक्षे विश्वामित्रो मुनिः । परीक्षितो नयः षाड्गुण्यं येन । पक्षे परीक्षर-
भिमन्युसुतस्य सुतः । परस्मिञ्छुभे आसितः । पक्षे परशुः कुठारः । अलघुको
गौरवार्हः । तथा दण्डस्य वधपरिक्लेशार्थहरणलक्षणस्य भङ्गेन मुक्त्या रञ्जितलोकः ।
पक्षे वृद्धधनुर्भङ्गाहर्षितजनकाख्यनृपः । जाता रूपसंपत्तिर्यस्य । पक्षे जातरूपं
१ 'प्लवप्लवमानः'. २ 'जलधि. ३ 'वसुंधरा'. ४ 'दनुलोक'. ५ 'शखशाखेषु'.
६ 'अग्रगण्यैः'.
प्रथम उच्छ्वासः । १७
अपाश्चात्यस्त्यागवताम्, अचरमश्चातुर्याचार्याणाम्, अपर्यन्तभूभारा-
धारस्तम्भभूतभुजकाण्डकीलितशालभञ्जिकायमानविजयश्रीः, श्रीवी-
रसेनस्नुः, समस्तजगत्प्रासादशिरःशेखरीभूतकान्तकीर्तिध्वजो, राजा,
राज्यलक्ष्मीकरेणुकाचापलसंयमनशृङ्खलः, खलवृन्दकन्दलदावानलो
नलो नाम ॥ क ॥
यस्येन्दुकुन्दमुकुदकान्तयः सकललोककर्णप्रियातिथयो गुणाः सत-
तमेकब्रह्माण्डसंपुटसंकीर्णनिवासव्यसनविषादिनः पुनरनेकब्रह्माण्ड-
कोटिघटनामभ्यर्थयमाना इव भगवतो विश्वसृजः कमलसंभवस्य कर्ण-
लग्नाः स्वर्गलोकमधिवसन्ति स्म ॥ ख ॥
यस्मिंश्च राजनि जनितजनानन्दे नन्दयति मेदिनीम्, गीतेषु जाति-
संकराः, तालेषु नानालयभङ्गाः, नृत्येषु विषमकरणप्रयोगाः, वाद्येषु
दण्डकरप्रहाराः, पुण्यकर्मारम्भेषु प्रबन्धाः, सौरिद्यूतेषु पाशप्रयोगाः,
पुष्पितकेतकीषु हस्तच्छेदाः, न्यग्रोधेषु पादकल्पनाः, कञ्चुकमण्डनेषु
नेत्रविकर्तनानि, आसन् । न प्रजासु ॥ ग ॥
सुवर्णं संपत्तिर्यस्य ॥ पुण्यभजनशीलः । रथवान् । हितैः सह । पक्षे पुण्यगङ्गा-
न्वितः । प्रणयिनामर्थिनां चिन्तितप्रदो मणिरिव । जगतः प्रासादः कीर्तेश्च ध्वज
उपमानम् ॥ क ॥
यस्येति ॥ यस्य नलस्य प्राचुर्यादेकस्मिन्ब्रह्माण्डेऽस्मान्तोऽनेकब्रह्माण्डनिर्माणं
कारयिष्यन्त इव स्वर्गिभिर्नित्यमेव श्लाघ्यमानलात्कर्णलग्नाः श्रुतौ विज्ञापनाथं
निकटीभूताः ॥ ख ॥
यस्मिंश्चेति ॥ गीतादिष्वेव जातिसंकरादीनि न प्रजास्विति परिसंख्यायाव-
धारणम् । गीतेषु नन्दयन्तीप्रभृतयो जातयोऽष्टादश । तासु संकरो मिश्रप्रतीतिः ।
पक्षे जातयो विप्राद्याः । संकरोऽनुचितसंबन्धेन विप्लवः । तालश्चञ्चत्पुटादिः ।
लया द्रुतमध्यविलम्बितलक्षणाः । पक्षे आलयो गृहम् । करणानि तलपुष्पपटा-
दीन्यष्टोत्तरशतसंख्यानि । पक्षे विषमात्सार्थे कः । रणो युद्धम् । दण्डः कोणः ।
करः पाणिः । पक्षे दण्डो वधादिः । करो राज्ञे देयोंऽशः । प्रहारो घातनम् ।
प्रबन्धाः सातत्यानि प्रकृष्टबन्धाश्च । पाशो बन्धो बन्धनरज्जुश्च । सारयो हि
दायैर्वच्यन्ते । अक्षार्थस्तु पाशक एव प्रतीतः । हस्तः केतकीगर्भः पाणिञ्च ।
पादस्य मूलस्य रचना । न्यग्रोधपादपः पादान्रचयति कल्पयति । पक्षे
पादस्याङ्गेः कल्पना कर्तनम् । नेत्रं वस्त्रविशेषो नयनं च । विशेषेणाङ्गप्रमाणेन
कर्तनं विकर्तनं विखण्डनं च ॥ ग ॥
१ 'कर्णलग्नाः'. २ 'स्वर्लोकं'. ३ 'सारच्यूतेषु'. ४ 'न्यग्रोधपादपेषु'. ५ 'कर्तनानि'.
६ 'न प्रजानामासन्'.
१८ नलचम्पूः ।
यश्च कोऽप्यन्यादृश एव लोकपालः । तथाहि । अपूर्वो विबुधपतिः,
अदण्डकरो धर्मराजः, अजघन्यः प्रचेताः, अनुत्तरो धनदः ॥ क ॥
येन प्रचण्डदोर्दण्डमण्डपमण्डलीविश्रान्तविजयश्रिया श्रवणोत्पलद्-
लायमानमानिनीमानलुण्टाकलोचनेन पृथ्वी प्रिया च कामरूपधारिणी
सा तेन भुक्ता ॥ ख ॥
यस्याः सकलजनमनोहारिविशेषकम्, पृथुल्ललाटमण्डलम्, अ-
भिलषणीयकान्तयः कुन्तलाः, श्लाघनीयो नासिक्यभागः, बहुलव-
लीकः सरोमालिकांलकारश्च मध्यदेशः, प्रकटितकामकोटिविलासः
काञ्चीप्रदेशः ॥ ग ॥
किं बहुना ।
यस्याः कृष्णागुरुचन्दनामोदबहुलकुचाभोगभूषणा नृत्यतीवाङ्गरङ्गे
यश्चेति ॥ कोऽपि विस्मयहेतुः । लोकं जगत्पालयन्ति ये तेभ्योऽन्यादृशो
विसदृश एव लोकं प्रजां पालयतीति कृत्वा लोकपालः । खोक्तमेव द्रढयति—
तथाहीत्यादिना । यतो विबुधानां सुराणां पतिः सपूर्वः पूर्वदिग्युक्तत्वात् । नल-
स्त्वपूर्वो उत्कृष्टो विबुधानां विदुषां पतिः । दण्डपाणिर्यमः । नलस्तु न
दण्डो वधादिः, करो राज्ञे देयोंऽशो यस्मादित्यदण्डकरः । तथा धर्मप्रधानो
राजा धर्मराजः । धर्मविजयत्वात् । प्रचेता वरुणः सह जघन्यया पश्चिमया
वर्तते । नलस्त्वजघन्योऽकुत्सितः प्रकृष्टचेताश्च । यदुक्तम्— 'जघन्यं चरमे
शिश्ने जघन्यं गर्हितेऽन्यवत्' । धनदः कुबेरः सहोत्तरया दिशा वर्तते । नलस्तु
न विद्यत उत्तर उत्कृष्टोऽस्मादित्यनुत्तरः । तथा धनं ददातीति धनदः ॥ क ॥
येनेति ॥ विजयता सुनेत्रेण येन भूः कान्ता च सातेन सुखेन निर्विष्टा भुक्ता ।
सातं सुखम् । यदमरसिंहः—'शर्मसातसुखानि च' इति । कामरूपो देशविशेषः ।
प्रिया तु काम्यत इति काममभिलषणीयं रूपम्, काममतिशयेन रूपं वा धरती-
त्येवंशीला ॥ ख ॥
यस्या इति ॥ यस्या भुवः विशेषक-लाट-कुन्तल-नासिक्य-मध्यदेश-काञ्ची-
इत्येवंरूपा देशाः । लवली लताविशेषः । सरसां मालिका श्रेणिः । कामकोटि-
नाम्नी देवी । प्रियापक्षे विशेषकं तिलकम् । ललाटमलकम् । कुन्तलाः केशाः ।
नासिकायां भवो नासिक्यः । मध्यदेश उदरम् । बहुला बह्व्यो वल्य उदररेखा
यत्र । तथा सह रोमपङ्क्तिमण्डनेन । प्रकटितानङ्गोत्कर्षविलासः काञ्चीप्रदेशः
श्रोणी ॥ ग ॥
यस्या इति । अङ्गेऽङ्गाख्यदेश एव रङ्गे नर्तनस्थाने निरुपमवायौ सति
वनश्रीर्नृत्यतीव । वाततरलनमेव नर्तनम् । कृष्णा पिप्पली । अगरुचन्दनौ वृक्ष-
१ 'येन च'. २ 'कृष्णागरु'.
प्रथम उच्छ्वासः । १९
रमणीयतया निरुपमा नवा यौवनश्रीः ॥ क ॥
किं चान्यत् ।
अन्य एव नवावतारः स कोऽपि पुरुषोत्तमो यो न मीनरूपदूषितः,
नाङ्गीकृतविश्वविश्रंभराभारोऽपि कूर्मीकृतात्मा, न वराहवपुषा क्लेशेन
पृथ्वीं बभार, नच नरसिंहः सँमुत्सन्नहिरण्यकशिपुः, न बलिराज-
बन्धनविधौ वामनो दैन्यमकरोत्; नापि रामो लङ्केश्वरश्रियमपाहरत्,
नापि बुद्धः कल्किकुलावतारी ॥ ख ॥
किं³ बहुना ।
धन्यास्ते दिवसाः स येषु समभूद्भूपालचूडामणि-
र्लोकालोकगिरीन्द्रमुद्रितमहीविश्रान्तकीर्तिर्नलः ।
विशेषौ । तेषामामोदः । बहूनां लकुचानामाभोगो विस्तारः । तौ भूषणं यस्याः ।
पक्षे चर्चावशात्कालागुरुचन्दनयोरामोदेन व्याप्तस्तनविस्तारमण्डना । नवेति यौवन-
श्रीरिति च भिन्नम् ॥ क ॥
किं चेति ॥ कोऽप्यपरिच्छेद्यमहिमा । तथा नवः पूर्वविलक्षणोऽवतारो जन्म
यस्य स तथाभूतः । यदि वा 'णु स्तुतौ' इत्यस्य नवाः स्तुतयोऽवतार्यन्ते यस्मि-
न्निति स्तवास्पदम् । सर्वोर्वीपतिभ्योऽन्योऽसाधारण एव स नलो राजा । पुरुषे-
षूत्तमः । तथा अमो रोगोऽस्यास्तीत्यमी । नामी अनमी नीरोगः । यदि वा
नमयति शत्रूनवश्यमिति कृत्वा नमी । प्रतापाक्रान्तारिचक्र इत्यर्थः । तथा न रूपे
दूषितः । तथा स्वीकृतधराधुरोऽपि न कूर्मिर्भङ्गुरः । कुत्सितोर्मिः पीडा यस्य स
कूर्मिः । अङ्गीकृतभारो हि पीडावान्भवति । यदुक्तम्—'ऊर्मिः पीडाजवोत्कण्ठा-
भङ्गप्राकाश्यवीचिषु' । तथा वरमाहवं पुष्णता क्लेशेन न धरामपि तु सुखेनेत्यर्थः ।
नरेषु सिंहः शौर्यात् । नच समुत्सन्नं हिरण्यं धनं कशिपु भोजनाच्छादनादि यस्मात् ।
तथा वलिनां राज्ञां बन्धने विधाने वा मनोदैन्यं न चाकरोत् । रामः सुन्दरः ।
अलमत्यर्थं कस्य ब्रह्मण ईश्वरस्य शंभोश्च श्रियं नापि नच हृतवान् देवस्वापहारी
नेत्यर्थः । ब्रह्मेशौ देवानामुपलक्षणम् । बुद्धो विद्वान्न पापिकुलोत्पन्नः । अन्य
एव पुराणपुरुषाद्दशावताराद्विसदृश एव नवावतारो नवसंख्यावतारः । कोऽप्ययं
पुरुषोत्तमो विष्णुरित्युक्तिलेशः । तत्पक्षे मीनकूर्मवराहनरसिंहवामनरामबुद्धक-
ल्किनोऽवताराः । हिरण्यकशिपुबलिलङ्केश्वरास्तत्प्रतिपक्षाः । रामः परशुरामो-
ऽपि । तदा । अलमिति भित्त्वा कु ईषद्वीश्वरः केशवः सहस्रार्जुनो जमदग्निहो-
मार्जुनीमात्रहरणात् । रामः कृष्णः । तथा केन वायुनेष्टे समर्थो भवति पवना-
शनत्वात् । यद्वा कस्य पानीयस्य यमुनाह्रदलक्षणस्येश्वरः स्वामी केशवः कालीय-
सर्पस्य श्रियमपजहार ॥ ख ॥
१ 'नाङ्गीकृतविश्रंभरा', २ 'समुच्छिन्न', ३ 'किंच'.
२० नलचम्पूः ।
लोकास्तेऽपि चिरंतनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे
यैर्विस्फारितनेत्रपत्रपुटकैर्लावण्यमास्वादितम् ॥ ३४ ॥
अपि च ।
ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता
यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः ।
यैर्यक्तं हृदि कल्पितैरपि वयं हर्षेण रोमाञ्चिता-
स्तेषां पार्थिवपुंगवः स महतामेको गुणानां निधिः ॥ ३५ ॥
यस्य च युधिष्ठिरस्येव न क्वचिदपार्थो वचनक्रमः, मरुमण्डलमि-
वापामं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव सत्को-
टिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव
भ्रमरहितं सर्वदा हृदयम् ॥ क ॥
यश्च परमहलाभिरतोऽप्यपारदारिकः । शान्तनुतनयोऽपि न कुरू-
पयुक्तः ॥ ख ॥
किं बहुना ।
सदाहंसाकुलं विभ्रन्मानसं प्रचलज्जलम् ।
भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमाचलः ॥ ३६ ॥
यस्य चेति ॥ अर्थादपेतोऽपार्थः । अन्यत्र पृथाया अपत्यत्वात् । अपापं
निष्पापम् । पक्षेऽपेता आपो यस्मात् । सुष्ठु उपकारेण सारम् । पक्षे सूपकारैः
सूदैः सारम् । सत्पात्रप्रतिपादनाद्दानं सच्छोभनम् । कोटिः संख्या । पक्षे कोटि-
रटनिः । गुणो ज्या । वृषो धर्मः । पर्व पौर्णमास्यादि उत्सवः पुत्रजन्मविवाहा-
दिस्ते दृष्टा अनुष्ठिता यत्र । पक्षे वृषपर्वा दानवः । भ्रमः संशयः । पक्षे भ्रम-
रेभ्यो हितम् ॥ क ॥
यश्चेति ॥ हेला शृङ्गारचेष्टा । यद्वा पर उत्कृष्टो मह उत्सवो यस्यां तस्या-
मिलायां पृथ्व्यां रतः । राजन्वती हि मही सदुत्सवा । विरोधे महेला स्त्री ।
शान्तश्चासौ नूतनयश्च । शान्तो जितेन्द्रियः । तथा नुत: स्तुतो नयो नीतिर्यस्य ।
तथा न कुत्सितरूपयुक्तः । पक्षे शान्तनुपुत्रो गाङ्गेयः कुरूणां क्षत्रियाणांमुप-
योगी ॥ ख ॥
सदेति ॥ भूभृतो गिरयो नृपाश्च । तन्नाथत्वं द्वयोरपि । सत्यप्येवं हिमाचलो
यस्य साम्यं नायाति । यतः । सदाहं सखेदम् । साकुलं व्यग्रम् । प्रचलत्कम्पमा-
नम् । जडं व्यामूढम् । मानसं चेतः । विभर्ति । सिद्धान्ते तु मानसं सरः ।
सदेति भिन्नम् । प्रचलज्जलं यत्र । शेषं प्रतीतम् । आकुलशब्दो भावप्रधानो यथा
तिष्ठन्ति च निराकुलाः ॥ ३६ ॥
१ प्र० यस्य युधिष्ठिरस्येव । २ ०हिमालयः।
प्रथम उच्छ्वासः । २१
अपिच ।
नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः ।
सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः ॥३७॥
तस्य चं महांपहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशाखशा-
सनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्, आकरः
साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सक-
लकलाङ्कुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलान-
स्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौ-
कर्णधारः, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डि-
तसकलसंसारसराः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः,
प्राणसमः, हृदयसमः, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः,
संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्तः, शुचिः, सत्यपूतवाक्,
कृतज्ञः, ब्राह्मणः सौंलङ्कायनस्य सूनुः श्रुतशीलोनाम महामन्त्री ॥क॥
मित्रं च मन्त्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः ।
बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥
अपिच ।
ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः ।
सद्द्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥३९॥
नक्षत्रेति ॥ यस्य नलस्य काञ्चनाद्रिर्मेरुः कांचन कांचिदपि समानतां नायाति ।
सुष्ठु जातरूपं सुवर्णं यत्र । नलपक्षे रूपं सौन्दर्यम् । अतो द्वयोरपि सुजातरूपत्वा-
त्साम्ये निषेधः । यतो नायं क्षत्राद्भवति स्म । तथा भोगैर्न युक्तः । नलस्तु क्षत्र-
प्रसूतिर्भागभाक् । सिद्धान्ते तु नक्षत्राणां भूः स्थानम् । तथा नभसि गच्छन्ति ये
तैर्नभोगैर्देवैर्युक्तः ॥ ३७ ॥
तस्य चेति ॥ तस्य नरपतेः श्रुतशीलो नामामात्योऽस्ति स्म आसीत् । यशसां
कुशेशयानि, संसारस्य सर उपमानम् ॥ क ॥
ब्रह्मण्य इति ॥ ब्रह्मणे हितो ब्रह्मण्यः । तथा ब्रह्म वेत्ति । तथा तापहारी ।
तथा विप्रैर्द्विजैर्युक्तः । तथा सच्छोभनो वेषो यस्य । विरोधांशः सुगम एव । ब्रह्म-
वित्तं ब्रह्मस्वम् । विप्रयुक्तो वियुक्तः ॥ ३८ ॥ ३९ ॥
१ 'च महीपतेः' २ 'प्रशस्तप्रशस्तिस्तम्भः' ३ 'पुण्यकर्मारम्भप्ररोहाणाम्' ४ 'व्या-
पारनौकर्णधारः' ५ 'संसारकासारः' ६ 'सत्यवाक्' ७ 'सालङ्कायनसूनुः' ८ 'च'
२० नलचम्पूः ।
लोकास्तेऽपि चिरंतनाः सुकृतिनस्तद्वक्त्रपङ्केरुहे
यैर्विस्फारितनेत्रपत्रपुटकेलौवण्यमास्वादितम् ॥ ३४ ॥
अपिच ।
ये कुन्दद्युतयः समस्तभुवनैः कर्णावतंसीकृता
यैः सर्वत्र शलाकयेव लिखितैर्दिग्भित्तयश्चित्रिताः ।
यैर्यक्तुं हृदि कल्पितैरपि वयं हर्षेण रोमाञ्चिता-
स्तेषां पार्थिवपुंगवः स महतामेको गुणानां निधिः ॥ ३५ ॥
यस्य च युधिष्ठिरस्येव न कचिदपार्थो वचनक्रमः, मरुमण्डलमिव-
वापापं मानसम्, महानसमिव सूपकारसारं कर्म, कार्मुकमिव सत्को-
टिगुणं दानम्, दानवकुलमिव दृष्टवृषपर्वोत्सवं राज्यम्, राजीवमिव
भ्रमरहितं सर्वदा हृदयम् ॥ क ॥
यश्च परमहेलाभिरतोऽप्यपारदारिकः । शान्तनुतनयोऽपि न कुरू-
पयुक्तः ॥ ख ॥
किं बहुना ।
सदाहंसाकुलं बिभ्रन्मानसं प्रचलज्जलम् ।
भूभृन्नाथोऽपि नो याति यस्य साम्यं हिमांचलः ॥ ३६ ॥
यस्य चेति ॥ अर्थादपेतोऽपार्थः । अन्यत्र पृथाया अपत्यत्वात् । अपापं
निष्पापम् । पक्षेऽपेता आपो यस्मात् । सुष्ठु उपकारेण सारम् । पक्षे सूपकारैः
सूदैः सारम् । सत्पात्रप्रतिपादनाद्दानं सच्छोभनम् । कोटिः संख्या । पक्षे कोटि-
रटनिः । गुणो ज्या । वृषो धर्मः । पर्व पौर्णमास्यादि उत्सवः पुत्रजन्मविवाहा-
दिस्ते दृष्टा अनुष्ठिता यत्र । पक्षे वृषपर्वा दानवः । भ्रमः संशयः । पक्षे भ्रम-
रेभ्यो हितम् ॥ क ॥
यश्चेति ॥ हेला शृङ्गारचेष्टा । यद्वा पर उत्कृष्टो मह उत्सवो यस्यां तस्या-
मिलायां पृथ्व्यां रतः । राजन्वती हि मही सदुत्सवा । विरोधे महेला स्त्री ।
शान्तश्चासौ नुतनयश्च । शान्तो जितेन्द्रियः । तथा नुतः स्तुतो नयो नीतिर्यस्य ।
तथा न कुत्सितरूपयुक्तः । पक्षे शान्तनुपुत्रो गाङ्गेयः कुरूणां क्षत्रियाणामुप-
योगी ॥ ख ॥
सदेति ॥ भूभृतो गिरयो नृपाश्च । तन्नाथत्वं द्वयोरपि । सत्यप्येवं हिमाचलो
यस्य साम्यं नायाति । यतः । सदाहं सखेदम् । साकुलं व्यग्रम् । प्रचलत्कम्पमा-
नम् । जडं व्यामूढम् । मानसं चेतः । बिभर्ति । सिद्धान्ते तु मानसं सरः ।
सदेति भिन्नम् । प्रचलज्जलं यत्र । शेषं प्रतीतम् । आकुलशब्दो भावप्रधानो यथा
तिष्ठन्ति च निराकुलाः ॥ ३६ ॥
१ 'यस्य युधिष्ठिर इव'. २ 'हिमालयः'.
प्रथम उच्छ्वासः । २१
अपिच ।
नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः ।
सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः ॥३७॥
तस्य चं महांपहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशास्त्रशा-
सनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्, आकरः
साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सक-
लकलाङ्कुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलान-
स्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौ-
कर्णधारः, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डि-
तसकलसंसारसराः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः,
प्राणसमः, हृदयसमः, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः,
संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्तः, शुचिः, सत्यपूतवाक्,
कृतज्ञः, ब्राह्मणः साँलङ्कायनस्य सूनुः श्रुतशीलोनाम महामन्त्री ॥क॥
मित्रं च मन्त्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः ।
बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥
अपिच ।
ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः ।
सद्द्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥३९॥
नक्षत्रेति ॥ यस्य नलस्य काञ्चनाद्रिर्मेरुः कांचन कांचिदपि समानतां नायाति ।
सुष्ठु जातरूपं सुवर्णं यत्र । नलपक्षे रूपं सौन्दर्यम् । अतो द्वयोरपि सुजातरूपत्वा-
त्साम्ये निषेधः । यतो नायं क्षत्राद्भवति स्म । तथा भोगैर्न युक्तः । नलस्तु क्षत्र-
प्रसूतिर्भोगभाक् । सिद्धान्ते तु नक्षत्राणां भूः स्थानम् । तथा नभसि गच्छन्ति ये
तैर्नभोगैर्देवैर्युक्तः ॥ ३७ ॥
तस्य चेति ॥ तस्य नरपतेः श्रुतशीलो नामामात्योऽस्ति स्म आसीत् । यशसां
कुशेशयानि, संसारस्य सर उपमानम् ॥ क ॥
ब्रह्मण्य इति ॥ ब्रह्मणे हितो ब्रह्मण्यः । तथा ब्रह्म वेत्ति । तथा तापहारी ।
तथा विप्रैर्द्विजैर्युक्तः । तथा सञ्शोभनो वेषो यस्य । विरोधांशः सुगम एव । ब्रह्म-
वित्तं ब्रह्मस्वम् । विप्रयुक्तो वियुक्तः ॥ ३८ ॥ ३९ ॥
१ 'च महीपतेः'. २ 'प्रशस्तप्रशस्तिस्तम्भः'. ३ 'पुण्यकर्मारम्भप्ररोहाणाम्'. ४ 'व्या-
पारनौकर्णधारः'. ५ 'संसारकासारः'. ६ 'सत्यवाक्'. ७ 'सालङ्कायनसूनुः'. ८ 'च'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
२२ नलचम्पूः ।
अथ स पार्थिवस्तस्मिन्नमात्ये परिजनपरिवृढे प्रौढप्रेमणि निर्गूढम-
न्त्रे मन्त्रिणि तृणीकृतैणविषयरसे सौराज्यरागजनने जैननीयमाने
जनस्य, सर्वोपधाशुद्धबुद्धौ निधाय राज्यप्राज्यचिन्ताभारमभिनवयौ-
वनारम्भरमणीये रम्यरमणीजननयनहृदयप्रिये प्रियंगुभासि जितमद-
नमहस्यपहसितसुरासुरसौभाग्ययशसि विस्मापितसमस्तजनमनसि ल-
सल्लावण्यपुञ्जपराजितसकलसमुद्राम्भसि कान्तिकटाक्षितचन्द्रमसि
वयसि वर्तमानो मानितमानिनीजनयौवनसर्वस्वः स्वयमनवरतं सक-
लसंसारसुखसंदोहमन्वभूत् ॥ क ॥
तथाहि।
कदाचिदनुत्पन्नविषमरणभयो गरुड इवाहितापकारी हरिवाहनवि-
लासमकरोत् ॥ ख ॥
कदाचिच्चन्द्रमौलिरिव मदनबाणासनातिमुक्तशरसंछादितायां पर्व-
तभुवि विजहार ॥ ग ॥
कदाचिदच्युत इव शिशिरकमलाकरावगाहनोत्पन्नपुलककोरकित-
तनुरनन्तभोगभाक्सुखमन्वतिष्ठत् ॥ घ ॥
कदाचिन्नलिनयोनिरिव राजसभावस्थितः प्रजाव्यापारमचिन्तय-
त् ॥ ङ ॥
अथेति ॥ अथानन्तरमेवंवर्णनीयेऽमात्ये राज्यभारं निवेश्यैवं वर्णनीये वयसि
वर्तमानो राजा सुखातिशयं सिषेवे ॥ क ॥
कदाचिदिति ॥ असंजातविषमयुद्धभीरुहितानामपकारी । हरिरश्वस्तस्य
वाहनं वाह्यालीप्रवहणम् । स एव विलासः । पक्षे विषान्मरणभयम् । अहिः सर्पः ।
हरेर्विष्णोर्वाहनविलासो यानलीला ॥ ख ॥
कदाचिदिति ॥ मदनो बाणोऽसनोऽतिमुक्तकः शरश्च मुञ्ज एभिर्वृक्षैः सम्य-
क्छादितायां पर्वतक्षोण्याम् । पक्षे मदनः कामस्तस्य बाणासनं धनुस्तत्प्रक्षिप्तैः
शरैर्बाणैर्विधुरायां पर्वतभुवि । पर्वताद्भवति स्मेति पार्वत्याम् ॥ ग ॥
कदाचिदिति ॥ कमलानामाकरो वनम् । पक्षे कमलायाः श्रियाः करः पाणिः ।
अनन्ताभोगोऽनेकविलासः शेषाहिवपुश्च ॥ घ ॥
कदाचिदिति ॥ राज्ञः सभा । पक्षे रजसा गुणेन निर्वृत्ते भावे स्थितः ॥
व्यापारो व्यवहारो निर्माणं च ॥ ङ ॥
१ 'प्रौढप्रेम्णि'. २ 'गूढमन्त्रे'. ३ 'जननीसमाने'. ४ 'प्रियङ्गुमञ्जरीभासि'-
५ 'पराजितसमुद्राम्भसि'. ६ 'मानिनी यौवनसारसर्वस्वः'. ७ 'अनवरतसकल'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA
प्रथम उच्छ्वासः । २३
कदाचिन्मयूर इव कान्तोन्नमतपयोधरमण्डलीविलासेन हर्षमभज-
त् ॥ क ॥
कदाचिन्नक्षत्रराशिरिवाश्विन्या सेनया संमन्वितो मृगानुसारी बहु-
शष्पवनमार्गं बभ्राम ॥ ख ॥
कदाचिदाञ्जनेय इवाक्षविनोदमन्वतिष्ठत् ॥ ग ॥
कदाचिदिति ॥ कान्ताङ्गना काम्या च । पयोधरः स्तनो मेघश्च । विलास
उपभोगः स्फुरणं च ॥ क ॥
कदाचिदिति ॥ अश्वाः सन्त्यस्यां तया सेनया युक्तः तथा मृगानुगामी बहुबा-
लतृणपथेऽभ्राम्यत् । पक्षे अश्विनीमृगौ नक्षत्रे । इनेन रविणा सह सेनयेत्यश्विनी-
विशेषणम् । बहुश इति भिन्नम् । पवनमार्गो द्यौः । अत्र पकारात्प्राग्विसर्जनीय
उपध्मानीयो वा । शष्पपदे तु पकार एव । तदेवंरूपभेदेऽपि श्रुतिसाम्यान्न दोष
इति कविसमयः । तथाच चण्डदासकृते श्रीचण्डिकाचरिते महाकाव्ये—'पुष्पा-
दपामिह सदाधिगमे समृद्ध्या पुष्पाइपाः फलभराच्च विनम्रभावम् । पुष्पादपापि
दधतो मुनिवत्सुजन्मापुष्पादपाति मधु साधु मधुव्रतौघाः' । अस्यार्थः—अपां
जलानाम् । अधिगमे प्राप्तौ सत्याम् । पुष्पादुकुसुमात् । फलभ्रात्फलातिशयात् च
या समृद्धिरस्तया । पादपास्तरवो विनम्रभावमापुः । समृद्धौ हि नम्रता स्यात् ।
जलाधिगमः पुष्पफलानां हेतुः । तानि च समृद्धेः । सा च नम्रताया इति । तथा
पुष्पाणामद्गक्षणं यत्र । तथाऽपापि पापरहितम् । शोभनं जन्म तथा मुनयो दधति ।
तद्वदेतेऽपि मधुव्रतौघाः सुजन्म धारयन्तः सन्तो मधु मकरन्दमपुः पिबन्ति स्म ।
पादैरङ्घ्रिभिः पादेषु मूलेषु वा पतन्त्यभीक्ष्णमित्यनेन सधुप्राचुर्योक्तिः । अत्रायु-
क्पादयेोः षकार एव । युग्मपादयोस्तु विसर्जनीयोपध्मानीयान्यतर एव न तु
षकारः । परं श्रुतिसाम्यान्न दोषः । एवमेव विसर्जनीयजिह्वामूलीयषकारेष्वपि
तथा 'ये सहजनिष्कलङ्काचारा अपि भान्ति निष्त्रिकूटगमात् । सुधियः काष्ठाद
शंकंधराधिकं सपदि तेऽश्नुवते' । अस्यार्थः—सहजोऽकृत्रिमो नि.कलङ्को निर्दोष-
आचारो येषां ते सुधियः काष्ठादशकं दिक्कचक्रं धरैः पर्वतैरधिकमश्नुवते व्याप्नु-
वन्ति । स्त्रीणामभावो निष्त्रि । कूटं छद्म । तस्य गमो अंशः इति समाहारद्वन्द्वः ।
एतेन जितेन्द्रियोक्तिः । अपिर्विरोधे । येषां किल सहजस्वर्णायां लङ्कायां चारो
गतिः । ते कथं त्रिकूटाचलगमनाभावेन भान्ति । दशकंधरो रावणः । काष्ठा
दिशः । अत्र स्वर्णार्थेनिष्कशब्दे षकार एव निष्कलङ्कशब्दे जिह्वामूलीयविसर्गौ
इति बोध्यम् ॥ ख ॥
कदाचिदिति ॥ अक्षैः पाशकैः विनोदं क्रीडाम् । पक्षे अक्षस्य रावणेः ।
विनोदं वधम् ॥ ग ॥
१ 'सहितः' २ 'बहुशष्पवनमार्गं'.
२४ नलचम्पूः ।
कदाचिद्वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुस्थस्यार्थि-
नः प्रार्थना क्रियतां सफलेति वानरपुंगवानादिदेश ॥ क ॥
कदाचिन्मकरकेतन इव सुमनसो मार्गणान्विधाय स्वंगुणं कर्णपू-
रीचकार ॥ ख ॥
कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमेषनयनविभ्र-
माः, सकंदर्पाः, सिषेवे वेलाविलासिनीः ॥ ग ॥
कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणराम-
भरतप्रेक्षणेन क्षणमाह्लादमनवभूत् ॥ घ ॥
एवमस्य सकलजीवलोकसुखसंतानमनुभवतो यान्ति दिनानि ॥ङ॥
अथ कदाचिदुन्नमतपयोधरान्तरपतद्धारावलीविराजिताः, कमलद्-
लकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालंकारधारि-
कदाचिदिति ॥ शोभना ग्रीवा यस्य । वै स्फुटार्थे । मह्यं देहीति ब्रुवाणस्य ।
तथाँ आ समन्ताल्लघ्व्यां काकौ भिन्नकण्ठध्वनौ तिष्ठतीत्यालघुकाकुस्थस्तस्य याच्ञयाव-
शात्स्वरभेदवतोऽर्थिनो याचकस्य प्रार्थना सफला क्रियतामित्यमुना प्रकारेण नरपुं-
गवान्नरश्रेष्ठनादिष्टवान् । वा समुच्चये । पक्षे वैदेही सीतेति प्रलपतोऽलघोगुंरो
रामस्य काकुत्स्थस्य सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुंगवान्कपीशः
सुग्रीवो नियुक्तवान् ॥ क ॥
कदाचिदिति ॥ मार्गणान्याचकान् । इष्टार्थसंप्रदानेन सौमनस्ययुक्तान्वि-
धाय स्वस्य गुणं त्यागाख्यं जगतोऽपि कर्णौ पूर्यैते अनेनेति कर्णपूरः । च्वौ कर्ण-
पूरीचकार । पक्षे सुमनसः पुष्पाणि । मार्गणा बाणाः । गुणो ज्या । कर्णपूरः
कर्णांन्तकर्षणम् ॥ ख ॥
कदाचिदिति ॥ उच्चैःस्तनाभ्यां नाभ्या च रम्या । तथा निर्निमेषनेत्रलीलाः
सकामाः । वेलायां वारके विलसन्ति भोगायोपतिष्ठन्त इत्येवंशीला वारस्त्रीः ।
सिषेवे । अम्भोनिधिस्तु वेला अम्भोवृद्धीः । कीदृशीस्ताः । उच्चैःस्तननेन शब्दे-
नाभिरम्याः । तथा कृतमनिमेषाणां मत्स्यानां नयनं प्रापणं यैस्तथोक्ता विविधा
भ्रमा आवर्ता यासु । तथा कं जलं तस्य दर्पेण मोक्षेण सह । दृपेर्मोचनार्थत्वात् ।
तथा विलसन्त्यभीक्ष्णम् ॥ ग ॥
कदाचिदिति ॥ न योद्धुं शक्याऽयोध्या संज्ञा च । तस्यां पुरि । सुमित्रैरुपेतः
सुमित्रया कलत्रेण । विलसन्त्यो रामा विलासिन्यो यत्र तेन भरतसंगीतेन विक्री-
डद्रामभरतयोरवलोकनेन चाह्लादं नलो दशरथश्च भेजे ॥ घ ॥ ङ ॥
अथेति ॥ अनन्तरं कस्मिन्नपि समये नृपमवेक्षितुं वर्षा अवतारन् । वर्षाश-
ब्दगतस्त्रीत्वेन वर्षाणां साक्षात्स्त्रीत्वमध्यवसितम् । ततश्च पयोधरा मेघाः स्तनाश्च ।
१ 'स्वस्य गुणम्'. २ 'कृतानिमिष'.
प्रथम उच्छ्वासः । २५
ण्यः, शिञ्जानामुक्तकलहंसकाः, प्रौढकरेणुसंचारहारिण्यः, कम्रकंधराः,
तिरस्कृतशशाङ्ककान्तिकलापोच्चमुखमण्डलाः, सकलजगज्जेगीयमान-
गुणमिममनुपमरूपलावण्यराशिराजितं राजानमवलोकयितुमिवावत-
रन्ति स्म वर्षाः ॥ क ॥
यत्र च।
आकर्ण्य स्मरयौवराज्यपटहं जीमूतनूत्नध्वनिं
नृत्यत्केकिकुटुम्बकस्य दधतं मन्द्रां मृदङ्गक्रियाम् ।
उन्मीलन्नवनीलकन्दलदलव्याजेन रोमाञ्चिता
हर्षेणेव समुच्छ्रिता वसुमती दध्रे शिलीन्ध्रध्वजान् ॥ ४० ॥
अपिच।
पर्णैः कर्णपुटायितैर्नवरसप्राग्भारविस्फारितैः
शृण्वन्तो मधुरं द्युमण्डलमिलन्मेघावलीगर्जितम् ।
पतद्धारावली पतन्ती धाराश्रेणी चलन्ती हारावली च। यद्वा पयोधरयोः स्तनयोर-
न्तर्मध्येऽपतन्तोऽतिसंहतत्वात्प्रविशन्तो हारा यासाम् । तथा वलीभिरुदरे लेखा-
भिर्विराजिताः । कमलदलानां कान्तामिष्टं नयनमतिवाहनं यासाम् । वर्षाणां
ह्यतिवाहने कमलानामुल्लासः । पक्षे कमलदलवत्कान्तनेत्राः । इन्द्रधनुश्चक्रमेव चक्रे
भ्रुवौ यासाम् । पक्षे सुरचापचक्रवद्वक्रध्रुवः । विद्युदेव मणिमेखला तां तथाल-
मत्यर्थं कस्य जलस्यारं वेगं धारयन्ति । यद्वा कारस्य राज्ञे देयांशस्य धारिण्यः ।
वर्षा हि सस्यादिसाधकत्वात्करस्यापि साधनम् । पक्षे विद्योतमानमणिकाञ्चीभूषण-
धारिण्यः । शिञ्जाना गर्जन्त्यस्तथा मुक्ता मानसं प्रति प्रस्थापिता हंसका याभिः ।
यद्वा मुक्तहंसानि कानि जलानि यासु । तत्तसमये हंसानां मानसे गमनात् ।
पक्षे शिञ्जाने शब्दायमाने आमुक्ते बद्धे हंसके चरणाभरणे यासाम् । प्रकर्षेणोढं
कं जलं तेन रजःसंचाररोधिकाः । पक्षे प्रगल्भगजगमनमनोज्ञाः । कं जलं
धरन्तीति कंधरा मेघास्ते कम्रा रम्या यासु । पक्षे कंधरा ग्रीवा ॥ छादितश-
शाङ्ककान्तयः । तथा काय पानीयाय लापाः कलापाः । कुटुम्बिनीजनगीयमान-
रासकाः । तैरूच्चमुखा मेघालोकनायोन्मुखा मण्डला देशा यासु । पश्चात्कर्मधारयः ।
पक्षे निर्जितेन्दुदीप्त्यतिशयमुच्चमुत्कृष्टमुन्नतकपोलं वा मुखबिम्बं यासाम् ॥ क ॥
आकर्ण्येति ॥ युवा चासौ राजा चेति युवराजस्तस्य भावो यौवराज्यम् ।
कामस्य तरुणराजत्वपटहोपमं नृत्यत्केकिनां च मृदङ्गविधिं दधानं घनगर्जितं श्रुत्वा
मुदेव विकसत्कन्दलच्छलेन पुलकिता भूर्भूत् । शिलीन्ध्रध्वजानधारयत् ॥ ४० ॥
पर्णैरिति ॥ वसन्ते पुष्यन्ति ते धूलीकदम्बा वर्षासु च धाराकदम्बाः ॥
१ 'हंसकाः'. २ 'गुणग्रामम्'. ३ 'वर्षाङ्गनाः'. ४ 'यत्र'. ५ 'कदम्बकस्य'.
६ 'समुच्छ्रितान्'.
३
२६ नलचम्पूः ।
शाखाग्रप्रथमानसौरभभरभ्रान्तालिपालिध्वजा-
स्तोषेणेव वहन्ति पुष्पपुलकं धाराकदम्बद्रुमाः ॥ ४१ ॥
अथ क्रमेण
नीरं नीरजमुन्मुक्तं नीरजस्कं भुवस्तलम् ॥
जातं जातिलतापुष्पगन्धान्धमधुपं वनम् ॥ ४२ ॥
अपिच ।
धुतकदम्बकदम्बकनिष्पतन्नवपरागपरागगमन्थराः ।
हृततुषारतुषा रतिरागिणां प्रियतमा मरुतो मरुतो वबुः ॥ ४३ ॥
ततश्च । तिरस्कृततरणित्विषि, विगलद्वारिविपृषि, शान्तचातकत्-
षि, निर्वाणवारणवपुषि, मानिनीमानग्रहग्रन्थिमुषि, जनितजवासकश्रु-
षि, विर्घेववधूविद्विषि, वर्धितमण्डूकहृषि, मुद्रितचन्द्रमसि, विद्राणप-
ङ्कजसरसि, स्वाधीनप्रियप्रेयसि, प्रोषितकलहंसवयसि, नष्टनक्षत्रमण्ड-
लमहसि, मेचकितनभसि, निष्पतन्नीपरजसि, स्फुटकुटजरंजःपुञ्जपि-
ञ्जरिताष्टदिग्भासि, भासुरसुरचापचक्रभृति, मयूरमदकृति, महिषशो-
शाखाग्रे मिलन्तः सौरभभराद्भ्रान्ता उपर्युपर्यटन्तश्च तेऽलयश्च त एव पालिध्वजाः
प्रसिद्धचिह्नानि येषां ते धाराकदम्बद्रुमाः पुष्पमेव पुलकं मदेन वहन्ति ॥ हर्षहे-
तुर्गर्जनश्रवणमेव । रसो जलं रागश्च । अन्योऽपि द्युमण्डलान्मिलन्त्या योषितः शब्दं
श्रुतैवंविविधो भवति 'ग्रन्थ बन्धन' इति यौजादिकाद्विकल्पिते णिचि ग्रथितुं शील-
मेषामिति चानशि प्रथमानाः । यत्कविरहस्ये 'गाथां ग्रन्थयति प्रथत्यविरतं
श्लोकांश्च लोकोत्तरान्गद्यं ग्रथयति स्फुटार्थललितं यो नाटकं ग्रन्थति । ग्रश्नाति
श्रुतिशास्त्रयोर्विवरणं ग्रन्थाननेकांश्च यः स्वच्छं यस्य मनः स्वभावसरलं न ग्रन्थते
कुत्रचित्' इति । अस्मादात्मनेपदमपि । तथा च । 'वहति जलमियं पिनष्टि गन्धा-
नियमियमुद्ग्रथते स्रजो विचित्राः । मुसलमिदमियं च पातकाले मुहुरनुयाति कलेन
हुंकृतेन' इति ॥ ४१ ॥
नीरमिति ॥ नीरं जलमम्भोजमुक्तं भूतलं निःपांसु वनं च जातीपुष्पसौर-
भान्धभृङ्गं जातम् ॥ ४२ ॥
धुतेति ॥ कम्पितकदम्बद्रुमसमूहान्निःसरन्योऽसौ नवः परागस्तत्संगेन
मन्थरा मन्दाः ॥ तथा ऊढसीकरकणाः ॥ तथा रतिरागोऽस्ति येषां तेषामतिद-
यिता मरुतो वाता मरोः पर्वताद्ध्रान्ति स्म ॥ परागमेति परापूर्वः पर उत्कृष्ट
आगमो वा ॥ ४३ ॥
ततश्चेति ॥ तिरस्कृता रवित्विषो येन । इन्द्रगोपा वर्षासु जाताः क्षुद्रजन्तवः॥
१ 'अथ क्रमेणेति क्वचित्पुस्तके नास्ति'. २ 'मधुकदम्ब'. ३ 'धृत्त'. ४ 'विरहिवधू'.
५ 'कुसुमरजः'. ६ 'दिग्भागभासि'
प्रथम उच्छ्वासः। २७
.षहृतौ, विस्तरतत्सरिति, शाद्वलहरिति, विद्योतमानविद्युति, वहन्मन्द-
मेघंकरमरुति, हृष्यत्कृषाणयोषिति, पुष्यत्केतकीगन्धपानमत्तमधुकृ-
ति, प्रोद्भूतभूरुहि, दरिद्रनिद्राद्रुहि, सगर्वगोदुहि, कदम्बस्तम्बालम्बि-
मधुलिहि, मुदितमदनाट्टहासायमानघननादमुचि, पच्यमानजम्बूफल-
श्यामलितवनान्तररुचि, रचितपान्थसार्थशुचि, श्रूयमाणमदमधुरमयूर-
क्वाचि, विनिद्रकोशातकीशालिनि, यूथिकाजालिनि, नवमालिकामा-
लिनि, कन्दलभाजि, पच्यमानजम्बूतुरुवनराजिभ्राजि, भिक्षाक्षणक्षं-
पितपरिव्राजि, शान्तसारङ्गरुजि, नीडनिर्माणकुलवलिभुजि, सान्द्रे-
न्द्रगोपयुजि, श्च्योतत्तमालधारागृहसदृशि, श्यामायमानदशदिशि,
दिवापि श्रूयमाणरजनिशङ्काकुलचक्रवाकचक्रक्रुशि, शकटसंचाररुधि,
पल्लवितवीरुधि, विश्रान्तजिष्णुक्ष्मापालयुधि, क्षीणोक्षक्षुधि, क्षीरसमुद्र-
निद्राणवाणबाहुच्छिदि, सिन्धुरोधोभिदि, दवदहननुदि, विरहिमनस्तु-
दि, जनितजनमुदि, तापिच्छच्छायानुच्छेद्दिनि, छन्नकुटीमध्यबध्य-
मानवाजिनि, विकसितवकुलवनविराजिनि, सीरसीमन्तितग्रामसीम-
नि, विजयमानमनोजन्मनि, जाते जगज्जीविनि, जीमूतसमये कदाचि-
दम्भसि दिवसे मृगयावनपालकः प्रविश्य राजानं विज्ञापयामास ॥क॥
'देव,
किं स्यादञ्जनपर्वतः स्फटिकयोर्द्वन्द्वं दधद्दीर्घयो-
रम्भोमेदुरमेघ एष किमुत श्लिष्यद्बलाकाद्वयः ।
शून्यः किंनु करेण कुञ्जर इति भ्रान्तिं समुत्पाद्य-
न्दंष्ट्राद्वन्द्वकरालकालवदनः कोलः कुतोऽप्यागतः ॥ ४४ ॥
श्च्योतत्क्षरत्तमालानां संवन्धि यद्धारागृहं तस्य सदृशि ॥ क्षीरोदधौ निद्रायमाणे
बाणासुरबाहुच्छिद्विष्णुर्यत्र ॥ सीमन्त इव सीमन्तः । ततः करोतिण्यन्तात् क्ते
तारकादित्वादितचि वा रूपम् ॥ तस्मिन्नित्थंभूते मेघसमये आखेटकारण्यपालंको
नृपं व्यज्ञापयत् ॥ क ॥
किं स्यादिति ॥ दीर्घस्फटिकद्वयोपेतोऽञ्जनगिरिः, वलाकाद्वयान्वितः सजलो
जलदः, शुण्डाशून्यो हस्ती, किमिति भ्रान्तिं जनयन्देव कुतोऽपि कोलः सूकर
आगात् ॥ ४४ ॥
१ 'मेघाङ्करमरुति' २ 'कृषित', ३ 'चक्रवाकक्रुशि', ४ 'दंष्ट्रायुग्म'
२८ नलचम्पूः ।
ततश्चासौ
भिन्दन्कन्दकसेरुकन्दलभृतः स्निग्धप्रदेशान्भुवो
भञ्जन्नञ्जनशैलशृङ्गसदृशः फुल्ललतामण्डपान् ।
मन्दं मन्दरलीलयाब्धिसदृशं मथ्नंश्च लीलासरः
क्रोडः क्रीडति भीययन्निव भवत्क्रीडावने रक्षकान् ॥४५॥
राजा तु तदाकर्ण्य चिन्तितवान् ।
अच्छाच्छैः शुकपिच्छगुच्छहरितैश्छन्नो वनान्तास्तृणैः
सेव्याः संप्रति सान्द्रचन्द्रकिकुलैरुत्ताण्डवैर्मण्डिताः ।
येषु क्षीरविपाण्डु पल्वलपयः कल्लोलयन्तो मना-
ग्वाता वान्ति विनिद्रकेतकवनस्कन्धे लुठन्तः शनैः ॥ ४६ ॥
माद्यन्ति च तेषु संप्रति प्रोथिनः । तद्युज्यते विहर्तुम्' इत्यवधार-
यन्नाहूय बाहुकनामानं सेनापतिमादिदेश ॥ क ॥
'भद्र द्रुतमनुष्ठीयताम्, समादिश्यन्तां कृतवैरिविपत्तयः पत्तयः,
पर्याण्यन्तां मनस्तुरगास्तुरगाः, सज्जीक्रियन्तां निजवेगनिर्जितमात-
रिश्वानः श्वानः, समारोप्यन्तामपनीताहितायूंषि धनूंषि, गृह्यन्तां नि-
र्मथितप्रोथियूथपाशाः पाशाः' इति ॥ ख ॥
अथ मौलिंमिलन्मुकुलितकरकमलयुगलेन सेनापतिना 'यदाज्ञापय-
ति देवः' इत्यभिधाय त्वरया तथा कृते सति ॥ ग ॥
स्वयमपि
निर्मांसं मुखमण्डले परिमितं मध्ये लघुं कर्णयोः
स्कन्धे बन्धुरमप्रमाणमुरसि स्निग्धं च रोमोद्गमे ।
भिन्दन्निति ॥ मन्दरलीलया करणभूतया भावयन् ॥ अत्र करणाद्द्वयेना-
ल्मात्मनेपदं पुगागमश्च न भवति ॥ ४५ ॥
अच्छाच्छैरिति ॥ चन्द्रकिणो मयूराः । पल्वलमखातं सरः ॥ ४६ ॥
माद्यन्तीति ॥ प्रोथिनः सूकराः ॥ क ॥
भद्रेति ॥ पर्याणं करोत्यश्वानाम् । 'तत्करोति तदाचष्टे' इति णिचि पर्याण-
यत्यश्वान् । पश्चात्संबन्धनिवृत्तौ व्याकरणं सूत्रयतीति त्रिलोकीं तिलकयतीतिवत्क-
र्मत्वम् । मन इव तुराः शीघ्रा गच्छन्तीति । निर्मथिताः प्रोथियूथपानां वराहयू-
थपानामाशा इच्छा यैः ॥ ख ॥ ग ॥ ४७ ॥
१ 'भापयन्'; 'भीपयन्'. २ 'छन्नान्'. ३ 'वनान्तान्'. ४ 'वनेषु'. ५ 'द्रुतं मद्वच-
नमनुष्ठीयताम्'. ६ 'विनिर्जित'. ७ 'अथ' इति क्वचित्पुस्तके नास्ति. ८ 'मौलिमण्डल-
मिलत्'.
प्रथम उच्छ्वासः । २९
पीनं पश्चिमपार्श्वयोः पृथुतरं पृष्ठे प्रधानं जवे
राजा वाजिनमारुरोह सकलैर्युकं प्रशस्तैर्गुणैः ॥ ४७ ॥
आरुह्य च क्रमेण कार्दमिककर्पटावनद्धमूर्धजैर्दण्डखण्डपाणिभिः
क्रूरकर्मोचिताकारैर्वागुरावाहिभिरनन्तैः कृतान्तदूतैरिव पाशहस्तैः पां-
षर्द्धिकैरनुगम्यमानः, दूरादुन्नमितकंधरैस्तंस्तोध्वंकर्णसंपुटैरकाण्डोड्डीन-
प्राणैरिव वनप्राणिभिराकर्ण्यमानहर्षितहयहेषारवः, पवनकंपिततरु-
शाखाग्रपल्लवव्याजेन दूरादेवोत्क्षिप्तहस्ताभिरुड्डीयमानशकुनिकुलकोला-
हलच्छलेन भयान्निवार्यमाण इव वनदेवताभिः, अभिमुखागतैरनिमिष-
चक्षुरुषप्रकरमकरन्दबिन्दुवर्षवाहिभिर्वनविनाशशङ्कितैरर्घ्यमिवोपपा-
दयद्भिरुपरुध्यमान इव वनमारुतैः, अनिद्रसान्द्रकुसुमकेसराङ्कुरजाल-
जटिलाभिर्भयादुद्गतर रोमाञ्चप्रपञ्चाभिरिवोद्धान्तभृङ्गरवगद्गदरुदितेन
निषिध्यमान इव वनवीरुद्भिः, उद्भिन्नभास्वदंमन्दकन्दलावलोकनेनान-
न्च्यमानः श्वानुपगतोऽप्यश्वानुगतः सगजमप्यगजं तद्वनमाससाद ॥ क ॥
ततश्च केचिदुद्यतपरश्वधा गणपतयः, केऽपि दृष्टसिंहिकासुतविक्र-
माः शशधराः, केऽपि पाशपाणयो जम्बुकदिक्पालाः, केऽपि हरिमा-
र्गानुसारिणो बलभद्राः, केऽपि चक्रपाणयो मधुसूदनाः, केऽपि शिवौ-
गमावर्तिनो रौद्राः, केऽप्याहिताग्नयो विप्रलोकाः, केऽपि खण्डिताङ्ग-
आरुह्य चेति ॥ कर्दमेन नीलीलोहमलादिना रक्तं कार्दमिकम् । श्वभिरश्वै-
श्चानुगतो राजा । गजोपेतम् । अगः पर्वतस्तत्समीपोद्देशोऽप्यगस्तत्र जातगमजं
तद्वनमाप ॥ क ॥
ततश्चेति ॥ उद्यन्तः पलायमानाः परे उत्कृष्टाः श्वानस्तान्दधति । तथा
गणस्य सेनायाः पतयः हेरम्बाश्च उद्गृह्यमाणपरशवः । सिंहिकासुतः केसरिकिशोरो
राहुश्च । शशं धरतीति शशधरः पत्तिश्चन्द्रश्च । पाशः पाणौ यस्य स पाशपाणि-
र्वरुणश्च । जम्बुकः शृगालो वरुणश्च । यद्विश्वप्रकाशः—'जम्बुकः फेरवे नीचे
प्रतीचीदिक्पतावपि' । हरिं सिंहं मार्गं मृगसमूहं चानुसरन्ति । बलेन भद्रा
शक्ताः । पक्षे हरेर्विष्णोर्मार्गोऽध्वा बलभद्रो बलदेवः । चक्रं पाणौ यस्य स चक्र-
पाणिविष्णुश्च । मधु क्षौद्रं दैत्यश्च । सूदनं क्षरणं मारणं च । शिवा शृगाली तस्या गमो
गतिः पक्षे शिवस्यागमाः शास्त्राणि । रौद्रा भीषणाः शैवाश्च । गृहीतहविर्भुजो
१ 'हयानां गुणैः'. २ 'पापर्द्धिकपुरुषैः'. ३ 'स्तब्धोर्ध्वकर्ण'. ४ 'प्रकम्पित'. ५ 'व्याजेन'.
६ 'तरुणतरु'. ७ 'उद्भूत'. ८ 'भृङ्गाङ्कनारव'. ९ 'अनन्त'. १० 'केचिदुद्यतपरश्व';
'प्रतिषिद्धद्यत्यरश्वधा'. ११ 'शिवरामानुसारिणो'.