नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 40, कुल 258 में से
संदर्भ में पढ़ें२४ नलचम्पूः ।
कदाचिद्वानरेश्वर इव सुग्रीवो वैदेहीति ब्रुवाणस्यालघुकाकुस्थस्यार्थि-
नः प्रार्थना क्रियतां सफलेति वानरपुंगवानादिदेश ॥ क ॥
कदाचिन्मकरकेतन इव सुमनसो मार्गणान्विधाय स्वंगुणं कर्णपू-
रीचकार ॥ ख ॥
कदाचिदम्भोनिधिरिवोच्चैःस्तननाभिरम्याः, कृतानिमेषनयनविभ्र-
माः, सकंदर्पाः, सिषेवे वेलाविलासिनीः ॥ ग ॥
कदाचिद्दशरथ इवायोध्यायां पुरि स्थितः सुमित्रोपेतो रममाणराम-
भरतप्रेक्षणेन क्षणमाह्लादमनवभूत् ॥ घ ॥
एवमस्य सकलजीवलोकसुखसंतानमनुभवतो यान्ति दिनानि ॥ङ॥
अथ कदाचिदुन्नमतपयोधरान्तरपतद्धारावलीविराजिताः, कमलद्-
लकान्तनयनाः, सुरचापचक्रवक्रभुवः, विद्युन्मणिमेखलालंकारधारि-
कदाचिदिति ॥ शोभना ग्रीवा यस्य । वै स्फुटार्थे । मह्यं देहीति ब्रुवाणस्य ।
तथाँ आ समन्ताल्लघ्व्यां काकौ भिन्नकण्ठध्वनौ तिष्ठतीत्यालघुकाकुस्थस्तस्य याच्ञयाव-
शात्स्वरभेदवतोऽर्थिनो याचकस्य प्रार्थना सफला क्रियतामित्यमुना प्रकारेण नरपुं-
गवान्नरश्रेष्ठनादिष्टवान् । वा समुच्चये । पक्षे वैदेही सीतेति प्रलपतोऽलघोगुंरो
रामस्य काकुत्स्थस्य सप्रयोजनस्य प्रार्थना सफला क्रियतामिति वानरपुंगवान्कपीशः
सुग्रीवो नियुक्तवान् ॥ क ॥
कदाचिदिति ॥ मार्गणान्याचकान् । इष्टार्थसंप्रदानेन सौमनस्ययुक्तान्वि-
धाय स्वस्य गुणं त्यागाख्यं जगतोऽपि कर्णौ पूर्यैते अनेनेति कर्णपूरः । च्वौ कर्ण-
पूरीचकार । पक्षे सुमनसः पुष्पाणि । मार्गणा बाणाः । गुणो ज्या । कर्णपूरः
कर्णांन्तकर्षणम् ॥ ख ॥
कदाचिदिति ॥ उच्चैःस्तनाभ्यां नाभ्या च रम्या । तथा निर्निमेषनेत्रलीलाः
सकामाः । वेलायां वारके विलसन्ति भोगायोपतिष्ठन्त इत्येवंशीला वारस्त्रीः ।
सिषेवे । अम्भोनिधिस्तु वेला अम्भोवृद्धीः । कीदृशीस्ताः । उच्चैःस्तननेन शब्दे-
नाभिरम्याः । तथा कृतमनिमेषाणां मत्स्यानां नयनं प्रापणं यैस्तथोक्ता विविधा
भ्रमा आवर्ता यासु । तथा कं जलं तस्य दर्पेण मोक्षेण सह । दृपेर्मोचनार्थत्वात् ।
तथा विलसन्त्यभीक्ष्णम् ॥ ग ॥
कदाचिदिति ॥ न योद्धुं शक्याऽयोध्या संज्ञा च । तस्यां पुरि । सुमित्रैरुपेतः
सुमित्रया कलत्रेण । विलसन्त्यो रामा विलासिन्यो यत्र तेन भरतसंगीतेन विक्री-
डद्रामभरतयोरवलोकनेन चाह्लादं नलो दशरथश्च भेजे ॥ घ ॥ ङ ॥
अथेति ॥ अनन्तरं कस्मिन्नपि समये नृपमवेक्षितुं वर्षा अवतारन् । वर्षाश-
ब्दगतस्त्रीत्वेन वर्षाणां साक्षात्स्त्रीत्वमध्यवसितम् । ततश्च पयोधरा मेघाः स्तनाश्च ।
१ 'स्वस्य गुणम्'. २ 'कृतानिमिष'.