सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 35, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 35

प्रथम उच्छ्वासः । २१
अपिच ।
नक्षत्रभूः क्षत्रकुलप्रसूतेर्युक्तो नभोगैः खलु भोगभाजः ।
सुजातरूपोऽपि न याति यस्य समानतां कांचन काञ्चनाद्रिः ॥३७॥
तस्य चं महांपहीपतेरस्ति स्म प्रशस्तिस्तम्भः सकलश्रुतिशाखशा-
सनाक्षरमालिकानाम्, न्यग्रोधपादपः पुण्यकर्मप्ररोहाणाम्, आकरः
साधुव्यवहाररत्नानाम्, इन्दुः पार्थिवनीतिज्योत्स्नायाः, कन्दः सक-
लकलाङ्कुरकलापस्य, सागरः समस्तपुरुषगुणमणीनाम्, आलान-
स्तम्भश्चपलराज्यलक्ष्मीकरेणुकायाः, सकलभुवनव्यापारपारावारनौ-
कर्णधारः, सुधाम्भोनिधिडिण्डीरपिण्डपाण्डुरयशःकुशेशयखण्डमण्डि-
तसकलसंसारसराः, सरागीकृतसमस्तपार्थिवानुजीवी, जीवितसमः,
प्राणसमः, हृदयसमः, शरीरमात्रभिन्नो द्वितीय इवात्मा, कुलक्रमागतः,
संक्रान्तिदर्पणः सुखदुःखयोः, स्वभावानुरक्तः, शुचिः, सत्यपूतवाक्,
कृतज्ञः, ब्राह्मणः सौंलङ्कायनस्य सूनुः श्रुतशीलोनाम महामन्त्री ॥क॥
मित्रं च मन्त्री च सुहृत्प्रियश्च विद्यावयःशीलगुणैः समानः ।
बभूव भूपस्य स तस्य विप्रो विश्वंभराभारसहः सहायः ॥ ३८ ॥
अपिच ।
ब्रह्मण्योऽपि ब्रह्मवित्तापहारी स्त्रीयुक्तोऽपि प्रायशो विप्रयुक्तः ।
सद्द्वेषोऽपि द्वेषनिर्मुक्तचेताः को वा तादृग्दृश्यते श्रूयते वा ॥३९॥
नक्षत्रेति ॥ यस्य नलस्य काञ्चनाद्रिर्मेरुः कांचन कांचिदपि समानतां नायाति ।
सुष्ठु जातरूपं सुवर्णं यत्र । नलपक्षे रूपं सौन्दर्यम् । अतो द्वयोरपि सुजातरूपत्वा-
त्साम्ये निषेधः । यतो नायं क्षत्राद्भवति स्म । तथा भोगैर्न युक्तः । नलस्तु क्षत्र-
प्रसूतिर्भागभाक् । सिद्धान्ते तु नक्षत्राणां भूः स्थानम् । तथा नभसि गच्छन्ति ये
तैर्नभोगैर्देवैर्युक्तः ॥ ३७ ॥
तस्य चेति ॥ तस्य नरपतेः श्रुतशीलो नामामात्योऽस्ति स्म आसीत् । यशसां
कुशेशयानि, संसारस्य सर उपमानम् ॥ क ॥
ब्रह्मण्य इति ॥ ब्रह्मणे हितो ब्रह्मण्यः । तथा ब्रह्म वेत्ति । तथा तापहारी ।
तथा विप्रैर्द्विजैर्युक्तः । तथा सच्छोभनो वेषो यस्य । विरोधांशः सुगम एव । ब्रह्म-
वित्तं ब्रह्मस्वम् । विप्रयुक्तो वियुक्तः ॥ ३८ ॥ ३९ ॥
१ 'च महीपतेः' २ 'प्रशस्तप्रशस्तिस्तम्भः' ३ 'पुण्यकर्मारम्भप्ररोहाणाम्' ४ 'व्या-
पारनौकर्णधारः' ५ 'संसारकासारः' ६ 'सत्यवाक्' ७ 'सालङ्कायनसूनुः' ८ 'च'