सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 162, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 162

Here is the complete, line-by-line transcription of the text from the provided image:

२९४ : मध्यमकशास्त्रे
अतः प्रतीत्यसमुत्पन्नः । यतश्च प्रतीत्यसमुत्पन्नः, अतः स्वभावतः शून्य एव । यथा पूर्वमुक्तं
तथा ॥
किं चान्यत्—
यदि च स्वभावतः स्याद् ग्राहः कस्तं निवर्तयेद् ग्राह्यम् ।
शेषेष्वप्येष विधिस्तस्माद् दोषोऽनुपालम्भः ॥ ६८ ॥
यदि च मृगतृष्णायां जलग्राहः स्वभावतः स्यात्, क एव तं विनिवर्तयेत् ? न हि
स्वभावः शक्यो निवर्तयितुम् । तद्यथा अग्नेरुष्णत्वम्, अपां द्रवत्वम्, आकाशस्य निरावरणत्वम् ।
दृष्टं चास्य विनिवर्तनम् । तस्माच्छून्यस्वभावः ग्राहः । यदा चैतदेवम्, शेषेष्वपि धर्मेष्वेवं क्रमः प्रत्यव-
गन्तव्यो ग्राह्यप्रवृत्तिषु ॥
तत्र यद् भवतोक्तम्—पद्मवल्लक्षणभावादशून्याः सर्वभावा इति, तन्न । यत्पुनर्भवतोक्तम्—
हेतो