मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)
Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary
आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा
पृष्ठ 163, कुल 176 में से
संदर्भ में पढ़ें- षष्ठं परिशिष्टम् ।
आर्य-नागार्जुनविरचिता
रत्नावली ।
[This Appendix contains the available portion of the text of Ratnāvalī
or Ratnamālā which seems to me a genuine work of Nāgārjuna. The work
is attributed to Nāgārjuna by Candrakīrti, who, in his commentary on MŚ.
cites as many as 23 stanzas from the available portion of this work. One stanza
from this text is identical with MŚ. 3. 7. This available portion was edited by
Dr. G. Tucci and published by him in JRAS, London, 1934, 1936. He
promised to restore into Sanskrit the missing portion from its Tibetan
translation, but so far I have not seen it.
In Tohoku Catalogue No. 4158 the work is called राजपरिकथा-रत्नमाला. It has
also a Commentary by Ajitamitra (T 4159).
The Ratnāvalī or Ratnamālā is a work belonging to the class of Lekhas
like Suhṛllekha attributed to Nāgārjuna or Śiṣyalekha of Candragomin. The
work is addressed to a king, who, according to Commentator, is Sātavāhana.
On the other hand, it is said that Suhṛtlekha is addresed to king Kaniṣka.
Jayaswal thinks him to be Gautamīputra Yajñaśrī who reigned between
166-199 A. D. We find several references, e. g., in 1. 2, to a king to whom
the work is addressed. The fourth chapter is called राजवृत्तोपदेश.]
॥ नमो रत्नत्रयाय ॥
सर्वदोषविनिर्मुक्तं गुणैः सर्वैरलंङ्कृतम् ।
प्रणम्य सर्वज्ञमहं सर्वसत्त्वैकवान्धवम् ॥ १ ॥
धर्ममेकान्तकल्याणं राज[न् ध]र्मोदयाय ते ।
वक्ष्यामि धर्मः सिद्धिं हि याति सद्धर्मभाजने ॥ २ ॥
प्राग्धर्माभ्युदयो यत्र पश्चान्नैःश्रेयसोदयः ।
संप्राप्याभ्युदयं यस्मादेति नैःश्रेयसं क्रमात् ॥ ३ ॥
सुखमभ्युदय[स्तत्र मोक्षो] नैःश्रेयसो मतः ।
अस्य साधनसंक्षेपः श्रद्धाप्रज्ञे समासतः ॥ ४ ॥
श्रद्धत्वाद्भजते धर्मं प्राज्ञत्वाद्देत्ति तत्त्वतः ।
प्रज्ञा प्रधानं त्वनयोः श्रद्धा पूर्वांगमास्य तु ॥ ५ ॥
छन्दाद् द्वेषाद्भयान्मोहाद्यो धर्मं नातिवर्तते ।
स श्राद्ध इति विज्ञेयः श्रेयसो भाजनं परम् ॥ ६ ॥
कायवाङ्मानसं कर्म सर्वं सम्यक्परीक्ष्य यः ।
परात्महितमाज्ञाय सदा कुर्यात्स पण्डितः ॥ ७ ॥
रत्नावली । २९७
अहिंसा चौर्यविरतिः परदारविवर्जनम् ।
मिथ्यापैशुन्यपारुष्यासबद्ध्वादेषु संयमः ॥ ८ ॥
लोभभ्यापादनास्तिक्यदृष्टीनां परिवर्जनम् ।
एते कर्मपथाः शुक्ला दश कृष्णा विपर्ययात् ॥ ९ ॥
अमद्यपानं स्वाजीवोऽविहिंसा दानमादरात् ।
पूज्यपूजा च मैत्री च धर्मश्चैष समासतः ॥ १० ॥
शरीरतापन्नाधर्मः केवला(नास्ति तेन हि) ।
न परद्रोहाविरतिर्न परेषामनुग्रहः ॥ ११ ॥
दानशीलक्षमास्पृष्टं यः सद्धर्ममहापथम् ।
अनादृत्य व्रजेत् कायक्लेशगो दण्डकोत्पथैः ॥ १२ ॥
स संसारातवीं घोरामनन्तजनपादपाम् ।
क्लेशव्यालावलीढाङ्गः सुदीर्घं प्रतिपद्यते ॥ १३ ॥
हिंसया जायतेऽल्पायुः बह्वाबाधो विहिंसया ।
चौर्येण भोगव्यसनी सश(त्रः) पारदारिकः ॥ १४ ॥
प्रत्याख्यानं मृषावादात् पैशुन्यान्मित्रभेदनम् ।
अप्रियश्रवणं रौक्ष्याद्बद्धा(दपार्या ?) दुर्मगं वचः ॥ १५ ॥
मनोरथान् हन्त्यभिध्या व्यापादो भयदः स्मृतः ।
मिथ्यादृष्टिः कुदृष्टित्वं मद्यपानं मतिभ्रमः ॥ १६ ॥
अप्रदानेन दारिद्र्यं मिथ्याजीवेन वञ्चना ।
स्तम्भेन दुष्कुलीनत्वमल्पौजस्कत्वमीर्ष्यया ॥ १७ ॥
क्रोधाद्दुर्वर्णता मौर्ख्यमप्रश्नेन विपश्चिताम् ।
फलमेतन्मनुष्यत्वे सर्वेभ्यः प्राक् च दुर्गतिः ॥ १८ ॥
एषामकुशलाख्यानां विपाको यः प्रकीर्तितः ।
कुशलानां च सर्वेषां विपरीतंः फलोदयः ॥ १९ ॥
लोभो द्वेषश्च मोहश्च तजं कर्मेति चाशुभम् ।
अलोभामोहाद्वेषाश्च तजं कर्मेतरच्छुभम् ॥ २० ॥
अशुभात्सर्वदुःखानि सर्वदुर्गतिर्यास्तथा ।
शुभात्सुगतयः सर्वाः सर्वजन्मसुखानि च ॥ २१ ॥
निवृत्तिरशुभात्कृत्स्नात्प्रवृत्तिस्तु शुभे सदा।
मनसा कर्मणा वाचा धर्मोऽयं द्विविधः स्मृतः ॥ २२ ॥
नरकप्रेततिर्यग्भ्यो धर्मादस्माद्विमुच्यते ।
नृषु देवेषु चामोति सुखश्रीराज्यविस्तारन् ॥ २३ ॥
व. ३८