सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 161, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 161

पृष्ठम् २९२

२९२ मध्यमशास्त्रे पञ्चमं परिशिष्टम् ।
यच्चैतन्नामासदिति, तत्किं [नाम] सतः असतः ? यदि हि सतस्तन्नाम, यद्यसतः,
उभयथापि प्रतिज्ञा हीयते । तत्र यदि तावत् सत् असदिति नास्तीति प्रतिज्ञा हीयते ।
न हीदानीं तदसदिदानीं सत् । अथासत् असदिति नाम या प्रतिज्ञा असद्भूतस्य नाम न भवति
अस्तित्वस्वभाव इति, तस्मात् सद्भूतः स्वभाव इति, सा हीना ॥
किं चान्यत्-
सर्वेषां भावानां शून्यत्वं चोपपादितं पूर्वम् ।
स उपालम्भस्तस्माद् भवत्ययं च प्रतिज्ञायाः ॥ ६० ॥
इह च अस्माभिः पूर्वमेव सर्वेषां भावानां विस्तरतः शून्यत्वमुपपादितम् । तत्र प्राग्
नाम्नोऽपि शून्यत्वमुक्तम् । संभवं अशून्यत्वं परिगृह्य परित्तो वक्तुम्-यदि भावानां स्वभावो न
स्यात्, अस्वभाव इति नामापि इदं न स्यादिति । तस्मात् प्रतिज्ञोपलम्भोऽयं भवतः संपद्यते ।
न हि वयं नाम सद्भूतमिति ब्रूमः ॥
यत्पुनर्भवतोक्तम्-
अथ विद्यते स्वभावः स च धर्माणां न विद्यते तस्मात् ।
धर्मैर्विना स्वभावः स यस्य तद्युक्तमुपदेष्टुम् ॥ इति,
अत्रोच्यते-
अथ विद्यते स्वभावः स च धर्माणां न विद्यत इति ।
इदमाशङ्कितं यदुक्तं भवत्यनाशङ्कितं तच्च ॥ ६१ ॥
न हि वयं धर्माणां स्वभावं प्रतिषेधयामः, धर्मविनिर्मुक्तस्य वा कस्यचिदर्थस्य स्वभाव-
मभ्युपगच्छामः । नन्वेवं सति य उपालम्भो भवतः-यदि धर्मा निःस्वभावाः, कस्य खल्विदानीमन्य-
स्यार्थस्य धर्मविनिर्मुक्तस्य स्वभावो भवति ? सयुक्तमेवोपदिष्टमिति दूरापकृष्टमेवैतद्भवति ॥
यत् पुनर्भवतोक्तम्-
सत एव प्रतिषेधो नास्ति घटो गेह इत्ययं यस्मात् ।
दृष्टः प्रतिषेधोऽयं सतः स्वभावस्य ते तस्मात् ॥ इति,
अत्र ब्रूमः-
सत एव प्रतिषेधो यदि शून्यत्वं नन्वप्रतिषिद्धमिदम् ।
प्रतिषेधयते हि भवान् भावानां निःस्वभावत्वम् ॥ ६२ ॥
यदि सत एव प्रतिषेधो भवति नासतः, सर्वभावानां निःस्वभावत्वं प्रतिषेधयति
[भवान् ] । ननु प्रतिषिद्धे सर्वभावानां निःस्वभावत्वं त्वद्वचनेन । प्रतिषेध्यस्य त्वं सद्भावान् ।
निःस्वभावत्वस्य च सर्वभावानां प्रतिषिद्धत्वात् प्रतिषिद्धा शून्येतेति ॥
प्रतिषेधयसेऽथ त्वं शून्यत्वं तच्च नास्ति शून्यत्वम् ।
प्रतिषेधः सत इति ते नन्वेवं हीयते वादः ॥ ६३ ॥
अथ शून्यत्वं प्रतिषेधयसि त्वं सर्वभावानाम्, निःस्वभावत्वं शून्यत्वम्, नास्ति तच्च
शून्यत्वम् । या तर्हि ते प्रतिज्ञा सतः प्रतिषेधो भवति नासत इति, सा हीना ॥


पृष्ठम् २९३

विग्रहव्यावर्तनी । २९३
किं चान्यत्--
प्रतिषेधयामि नाहं किंचित् प्रतिषेध्यमस्ति न च किंचित् ।
तस्मात् प्रतिषेधयसीत्यधिलय एव त्वया क्रियते ॥ ६४ ॥
एवमपि तु कृत्वा यद्यहं किंचित् प्रतिषेधयामि, ततो युक्तमेव वक्तुं स्यात् । न चैवाहं
किंचित् प्रतिषेधयामि । तस्मान्न किंचित् प्रतिषेद्धव्यमस्ति । तस्मात् शून्येषु सर्वभावेषु अविद्यमाने
प्रतिषेध्ये प्रतिषेधे च प्रतिषेधयसीत्येष त्वयात्र सद्भूतोऽधिलयः क्रियत इति ॥
यत पुनर्भवतोक्तम्-
अथ नास्ति स स्वभाव किं नु प्रतिषिध्यते त्वयानेन ।
वचनेनर्ते वचनात् प्रतिषेधः सिध्यते ह्यसतः ॥ इति,
अत्र ब्रूमः-
यच्चाहं ते वचनादसतः प्रतिषेधवचनसिद्धिरिति ।
अत्र ज्ञापयते वागसदिति तन्न प्रतिनिहन्ति ॥ ६५ ॥
यच्च भवान् ब्रवीति-सतोऽपि वचनादसतः प्रतिषेधः प्रतिषिद्धः, तत्र किं निःस्वभावाः
सर्वभावा इति, एतद्वचनं करोतीति ? अत्र ब्रूमः- निःस्वभावाः सर्वभावा इति एतत् खलु वचनं
न निःस्वभावान् सर्वभावान् करोति । किं त्वसत्स्वभावो भावानामसत्स्वभावतानामिति ज्ञापयति ।
तत्र कश्चिद् ब्रूयात्-अविद्यमानगृहे देवदत्तगृहे देवदत्त इति, तत्रैवं कश्चित् प्रतिब्रूयात् - [देवदत्तो
गेहे] नास्तीति, न तद्वचनं देवदत्तस्याभावं करोति, न देवदत्तस्य संभवं करोति । किं तु ज्ञापयति
केवलमसद्भावं गृहे देवदत्तस्येति । तद्वत् नास्ति स्वभावो भावानामित्येतद्वचनं न स्वभावानां
निःस्वभावत्वं करोति, भावेषु स्वभावस्याभावं ज्ञापयति ॥
तत्र यद्भवतोक्तम्-किमसति स्वभावे नास्ति स्वभाव इत्येतद् वचनं करोति, तेऽपि वच-
नात् प्रसिद्धिः स्वभावस्याभाव इति, तत् ते न युक्तम् ।
यदुक्तम्-
बालानामिव मृगतृष्णायां स यथा जलग्राहः ।
एवं मिथ्याग्राहः स्यात् ते प्रसिध्यते ह्यसतः ॥
यत् पुनर्भवतो मृगतृष्णायामित्यत्र ब्रूमः-
मृगतृष्णादृष्टान्ते यः पुनरुक्तं त्वया महाँश्च ।
तत्रापि निर्णयं शृणु यथा स दृष्टान्त उपपन्नः ॥ ६६ ॥
य एव त्वया मृगतृष्णादृष्टान्ते महाँश्च उक्तः, तत्रापि यो निर्णयः, स श्रूयताम् । उपपन्न
एव दृष्टान्तो भवति ॥
स यदि स्वभावतः स्यात् भावो न स्यात् प्रतीत्यसमुद्भूतः ।
यश्च प्रतीत्य भवति ग्राहो ननु शून्यता सैव ॥ ६७ ॥
यदि च मृगतृष्णायां स यथा जलग्राहः स्वभावतः स्यात्, न स्यात् प्रतीत्यसमुत्पन्नः ।
यतो मृगतृष्णां च प्रतीत्य विपरीतं च दर्शनं प्रतीत्य [अ]योनिशोमनस्कारं च प्रतीत्य स्याद्भूतः ।