सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 128, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 128

भवति - एषा सा निरोधसाक्षात्क्रिया। तस्यैवं भवति-यन्नूनमहं मार्गं भावयेयम्। स एको
रहोगतस्तान् धर्मान् मनसि कुर्वन् शमथं प्रतिलभते। तस्य तेन निर्वित्सहगतेन मनसिकारेण
शमथ उत्पद्यते। तस्य सर्वधर्मेषु चित्तं न प्रलीयते प्रतिवहति प्रत्युदावर्तते। तेभ्यश्चार्तीयते
जेहीयते, अनभिनन्दनाचित्तं समुत्पद्यते। तस्यैवं भवति-मुक्तोऽस्मि सर्वदुःखेभ्यः, न मम भूयः
उत्तरिं किंचिकरणीयम्, अर्हन्नस्मीत्यात्मानं संजानाति। स मरणकालसमये उत्पत्तिमात्मनो
देवेषु पश्यति। तस्य काङ्क्षा विचिकित्सा च भवति बुद्धबोधौ। स विचिकित्सामापतितः
कालगंतो महानिरयेषु प्रपतति। तत्कस्य हेतोः? यथापीदमनुपन्नान् सर्वधर्मान विकल्पयित्वा
तथागते विचिकित्सां विमतिमुत्पादयति॥
अथ खलु मञ्जुश्रीः कुमारभूतो भगवन्तमेतदवो