सामग्री पर जाएँ
सर्वकोश
मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

मूलमध्यमककारिका (आचार्य नागार्जुन - चन्द्रकीर्ति प्रणीत प्रसन्नपदा व्याख्या सहित)

Mulamadhyamakakarika of Nagarjuna with Prasannapada Commentary

आचार्य नागार्जुन (टीकाकार: आचार्य चन्द्रकीर्ति) द्वारा

DevanagariSanskritpublished176 पृष्ठ

पृष्ठ 129, कुल 176 में से

संदर्भ में पढ़ें
पृष्ठ 129

२२८ मध्यमशास्त्रे [ २५. ३- -२५. ४] निर्वाणपरीक्षा पञ्चविंशतितमं प्रकरणम्। २२९
स्वभावेन हि व्यवस्थितानां क्लेशानां स्कन्धानां च स्वभावस्यानपायित्वात् कुतो निवृत्तिः, विद्यन्ते। न हि रज्जुः अन्धकारभावस्थायां स्वरूपतः सर्पोऽस्ति, सद्भूतसर्पवत् अन्धकारेऽपि
यतस्तन्निवृत्त्या निर्वाणं स्यादिति ? तस्मात् स्वभाववादिनां नैव निर्वाणमुपपद्यते । न च शून्यता- आलोकेऽपि कायचक्षुर्भ्यामग्रहणात् । कथं तर्हि संसारः इति चेत्, उच्यते। आत्मात्मीया-
वादिनः स्कन्धनिवृत्तिलक्षणं क्लेशनिवृत्तिलक्षणं वा निर्वाणमिच्छन्ति यतस्तेषामयं दोषः स्यादिति। सद्ग्रहग्रस्तानां बालपृथग्जनानामसत्स्वरूपा अपि भावाः सत्यतः प्रतिभासन्ते तैमिरिकाणामिव
अतः अनुपालम्भ एवायं शून्यवादिनाम् ॥ २ ॥ असत्केशमशकादय इवेति । आह-
5 यदि खलु शून्यतावादिनः क्लेशानां स्कन्धानां वा निवृत्तिलक्षणं निर्वाणं नेच्छन्ति, अस्तीति नास्तीति च कल्पनाप्रता- 5
किंलक्षणं तर्हि इच्छन्ति ? उच्यते - मेवं चरन्तान न दुःख शाम्यति । इति ।
अप्रहीणमसंप्राप्तमनुच्छिन्नमशाश्वतम् । अस्तीति भावसद्भावकल्पनावतां जैमिनी यकाणादकापिलादीनां वैभाषिकपर्यन्तानाम् । नास्तीति
अनिरुद्धमनुत्पन्नमेतन्निर्वाणमुच्यते ॥ ३ ॥ च कल्पनावतां नास्तिकानामपायतित्त्विनिष्ठानाम् । तदन्येषां च अतीतानागतसंस्थानां विज्ञाप्तिविप्र-
यद्धि नैव प्रहीयते रागादिवत्, नापि प्राप्यते श्रामण्यफलवत्, नाप्युच्छिद्यते स्कन्धादिवत्, युक्तसंस्काराणां नास्तिवादिनां तदन्यदस्तिवादिनाम्, परिकल्पितस्वभावस्य नास्तिवादिनाम्,
10 यच्चापि न नित्यमभ्युपगतम्, तत् स्वभावतोऽनिरुद्धमनुत्पन्नं च सर्वप्रपञ्चोपशमलक्षणं निर्वाणमुक्तम् । परतन्त्रपरिनिष्पन्नस्वभावयोरस्तिवादिनाम, एवमस्तिनास्तिवादिनामेवं चरतां न दुःखं संसारः 10
तत् कुतस्तस्मिन्निर्विशेषे निष्प्रपञ्चे क्लेशकल्पना येषां क्लेशानां प्रहाणान्निर्वाणं भवेत् ? कुतो वा शाम्यतीति । तथा-
B 522 स्कन्धकल्पना तत्र, येषां स्कन्धानां निरोधात् तद्भवेत् ? यावद्धि एताः कल्पनाः प्रवर्तन्ते, ताव- यथा शङ्कितेन विषसंज्ञ अभ्युपेति B 524
न्नास्ति निर्वाणाधिगमः, सर्वप्रपञ्चपरिक्षयादेव तदधिगमात् ॥ नो चापि कोष्ठ गन्तु आविष्ट पपद्यते ।
अथ स्यात्-यद्यपि निर्वाणे न सन्ति क्लेशाः, न चापि स्कन्धाः, तथापि निर्वाणादर्वाग् एवमेव बालुऽपगतो........
15 विद्यन्ते । ततस्तेषां परिक्षयान्निर्वाणं भविष्यतीति । उच्यते । त्यज्यतामयं ग्राहः, यस्मान्निर्वाणादर्वाक् ........ जायि म्रियते सदा अभूतो ॥ इति । 15
स्वभावतो विद्यमानानां न पुनरभावः शक्यते कर्तुम् । तस्मान्निर्वाणाभिलाषिणा त्याज्यैषा कल्पना । तदेवं न कस्यचिन्निवर्वाणे प्रहाणं नापि कस्यचिन्निरोध इति विज्ञेयम्। ततश्च सर्वकल्पना-
वक्ष्यति हि - क्षयरूपमेव निर्वाणम् । यथोक्तमार्यरत्नकवल्याम्-
निर्वाणस्य च या कोटिः कोटिः संसरणस्य च । न चाभावोऽपि निर्वाणं कुत एवास्य भावना ।
न तयोरन्तरं किंचित्सुसूक्ष्ममपि विद्यते ॥ इति । भावाभावपरामर्शक्षयो निर्वाणमुच्यते ॥
(म० शा०-२५-२०) इति ॥ ३ ॥ 20
20 तदेवं निर्वाणे न कस्यचित् प्रहाणं नापि कस्यचिन्निरोध इति विज्ञेयम् । ततश्च ये तु सर्वकल्पनोपशमरूपं निर्वाणमप्रतिपद्यमानाः भावाभावतदुभयानुभयरूपं निर्वाणं
निरवशेषकल्पनाक्षयरूपमेव निर्वाणम् । उक्तं च भगवता- परिकल्पयन्ति, तान् प्रति उच्यते -
निर्वृति धर्मोण न अस्ति धर्मा भावस्तावन्न निर्वाणं जरामरणलक्षणम् ।
ये नेह अस्ती न ते जातु अस्ति । प्रसज्येतास्ति भावो हि न जरामरणं विना ॥ ४ ॥
अस्तीति नास्तीति च कल्पनाप्रता- तत्रैके भावतो निर्वाणमभिनिविष्ठा एवमाचक्षते - इह क्लेशकर्मजन्मसंतानप्रवृत्तित्तनियत- 25 B 525
52 मेवं चरन्तान न दुःख शाम्यति ॥ इति । रोधभूतो जलप्रवाहोरोधभूतसेतुस्थानीयो निरोधात्मकः पदार्थः, तन्निर्वाणम् । न च अविद्यमान-
[समाधिराजसूत्र-९०२६ ] स्वभावो धर्मः एवं कार्यकारी दृश्यते । ननु च योऽस्या नन्दीरागसहगतायास्तृष्णायाः क्षयो विरागो
अस्या गाथाया अयमर्थः - निर्वृतौ निरुपधिशेषे निर्वाणधातौ धर्माणां क्लेशकर्म- निरोधो निर्वाणमित्युक्तम्, न च क्षयमात्रं भावो भवितुमर्हति । तथा -
जन्मलक्षणानां स्कन्धानां वा सर्वथा अस्तंगमादस्तित्वं नास्ति, एवं च सर्ववादिनामभिमतम् । ये प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः ।
B 523 तर्हि धर्मा इह निर्वृतौ न सन्ति, प्रदीपोदयादन्यक्कारोपलव्धरज्जुसर्पभयादिवत्, न ते जातु
अस्ति, न ते धर्माः क्लेशकर्मजन्मादिलक्षणाः कस्मिंश्चित काले संसारावस्थायामपि तत्त्वतो १. This work is attributed to नागार्जुन in नामसंगीतीटीका where this very stanza is
quoted,
१ The reading in समाधिराजसूत्र is निर्वृति. Some Mss. read निवृत्ति. I have adopted
the text as it is given by चन्द्रकीर्ति.