सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २९३
दृषदा, सा च ब्राह्मणवृन्दस्तुता प्रालेयाद्रि-
द्युतिभिर्भवनैः शोभते ॥ ५३ ॥
ज्वलल्ललाटदृग्दग्ध-
स्मरमृत्युंयशोभृतः ।
पुरी यशोवती सर्व-
रत्नजा रुद्रसेविता ॥ ५४ ॥
ज्वलता तृतीयेनाक्ष्णा दग्धौ कामकालौ
येन, अत एव तथाविधसकलजगद्वैरिविनाशा-
द्यशोभृत ईशाननाथस्य सर्वरत्नविनिर्मिता रुद्रैः
सेविता च यशोवती नाम पुरी ॥ ५४ ॥
इति सर्वर्तुसुखदा-
श्चक्रवाटार्धविस्तृताः ।
पुर्योऽष्टावनिलोद्धूत-
पारिजातरजोऽरुणाः ॥ ५५ ॥
वेधसा निर्मिता लोक-
पालचक्रानुवर्तिनाम् ।
भूतये स्वर्ग इत्येता
गीयन्ते कविभिः क्षितौ ॥ ५६ ॥

२९४ मृगेन्द्रतन्त्रे । [ १।१३
सर्वेषां ऋतूनां संबन्धि सुखं ददतीति
सर्वर्तुसुखदाः, तथा चक्रवाटार्धेन नवसहस्रा-
त्मकेन विस्तीर्णा, लोकपालचक्रानुवर्तिना-
मिन्द्राद्याराधकानां भूतयेऽभ्युदयाय स्वर्ग इ-
त्येताः पुर्यः कविभिर्गीयन्ते । पारिजातः स्व-
र्गद्रुमविशेषः तत्कुसुमरजोरुणत्वेन मनोरमत्व-
मासां युक्तम् ॥ ५६ ॥
अथ ब्रह्मणः पुरी
चतुर्दश सहस्राणि
योजनानां स्वयंभुवः ।
मध्ये मनोवती नाम
पुरी लोकेशवन्दिता ॥ ५७ ॥
या चकारारुणानुच्चै-
र्विद्युन्मार्गान्महःश्रिया ।
सावित्र्या स्पर्धमानेव
स्वर्गकामातिवर्तिनी ॥ ५८ ॥
महाश्रियेति तेजोलक्ष्म्या, स्वर्गे कामाः
स्वर्गकामाः तेषां ततः प्रवृत्तिनिवृत्तीति स्वर्गका-

[Header] श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २९५

मातिवर्तिनीत्वमत एव तेजोतिशययोगाद्ब्रह्म-
पदावाप्तिहेतुत्वाच्च सावित्र्या स्पर्धमानेव ॥५८॥
तस्यामुपासते देवा
मुनयश्च महौजसः ।
महायोगेश्वरैः सिद्धै
र्यमाद्यैर्भूतवेधसम् ॥ ५९ ॥
तस्यामतुलबला देवा महर्षयश्च महतां यो-
गिनामपि ध्येयं विधातारं सिद्ध्यर्थं यमनियमा-
दिभिरुपासते सेवन्ते । अहिंसासत्यास्तेयब्रह्म-
चर्यापरिग्रहा यमाः, शौचसन्तोषार्जवस्वाध्याये-
श्वरप्रणयना नियमाः ॥ ५९ ॥
तदीशभागे तस्याद्रेः
शृङ्गमादित्यसन्निभम् ।
यत्तञ्ज्योतिष्कमित्याहुः
सदा पशुपतिप्रियम् ॥ ६० ॥
तस्या ब्रह्मपुर्या ईशानदिग्गतमेरुशृङ्गमत्ति-
दीप्तं परमेश्वरस्येष्टं ज्योतिष्काख्यम् ॥ ६० ॥
तस्य सानुषु हैमेषु
रत्नचित्रेषु संस्थिताः ।

२९६ मृगेन्द्रतन्त्रे । [ ११।३
स्कन्दनन्दिमहाकाल-
गणेशादिगणेश्वराः ॥ ६१ ॥
मूर्ध्नि देवादिदेवस्य
स्थानं त्रिपुरविद्विषः ।
रुद्रायुतगणैर्जुष्टं
ब्रह्माद्यैश्च सुरोत्तमैः ॥ ६२ ॥
तस्य ज्योतिष्कस्य समभूभागेषु प्रकृष्टानां
सदाशिवतत्त्वाधोवक्ष्यमाणत्वाद्वरा स्कन्दन-
न्दीशादयो गणेश्वराः, शिरसि तु ब्रह्मेन्द्रा-
दीनां विनेतुः साक्षाद्भगवतः स्थानमनेकसं-
ख्यैः रुद्रैर्ब्रह्माद्यैश्च देवैः सेवितम् ॥ ६२ ॥
इति मेरुरधोऽस्यान्ते
दिक्षु ये भूधराः स्थिताः ।
तच्छिष्टानि नवद्वीपे
वर्षाण्यस्मिन्निबोध मे ॥ ६३ ॥
इत्थं मेरुरुक्तः, अस्याधो वक्ष्यमाणविष्क-
म्भशैलाश्चत्वारः । प्राच्यादिदिक्षु ये स्थिताः
तद्वर्जितानि वर्षाणि नवास्मिन् जम्बूद्वीपेऽव-
धारय ॥ ६३ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २९७
तत्र विभागाद्रींस्तावदाह
निषधो हेमकूटश्च
हिमवांश्चाचलोत्तमाः ।
मेरोर्दक्षिणतो नीलः
श्वेतः शृङ्गीति वामतः ॥ ६४ ॥
सहस्रद्वयविष्कम्भा
दशोत्सेधा नवान्तराः ।
प्रागायताः सुपर्वाणः
सागराहितकोटयः ॥ ६५ ॥
मेरोर्दक्षिणदिग्भागे निषधहेमकूटहिमवन्तः ।
उत्तरे नीलश्वेतशृङ्गवदाख्या विभागाचलाः,
एते द्वियोजनसहस्रविष्कम्भा दशसहस्रोच्छ्रा-
याः, नवसहस्रव्यवधानाः प्राक्पश्चिमदिग्वर्ति-
क्षारोदलग्नपर्यन्ताः । सुपर्वाण इति, सुष्ठु शोभ-
नानि पर्वाणि वक्ष्यमाणा(ना)न्तरस्थानि व-
र्षाणि येषाम् ॥ ६५ ॥
तदर्धेनात्तविष्कम्भौ
माल्यवद्गन्धमादनौ ।
३८

२९८ मृगेन्द्रतन्त्रे । [ १।१३
याम्योत्तरौ प्राक्प्रतीच्यो-
मेरुतस्तावदन्तरौ ॥ ६६ ॥
निषधादिशैलमानार्धेन गृहीतविस्तारौ स-
हस्रविस्ताराविति यावत् । दक्षिणोत्तरायतौ
मेरुतः प्राच्यां प्रतीच्यां च माल्यवद्गन्धमादनौ ।
तावदन्तराविति, यावदेव चतुर्दिक्षु स्थितनिष-
धादिशैलवर्षावृतशिष्टं चतुस्त्रिंशत्सहस्रायामम-
न्तरं दक्षिणोत्तरदिशोस्तावत्प्रमाणमेवानयोर्म-
ध्यमित्यर्थः ॥ ६६ ॥
तदेव विभागाचलैः परिच्छेत्तुमाह
पश्चान्माल्यवतः प्राच्यां
गन्धमादनशैलतः ।
इलावृतं नीलगिरे-
र्याम्यतो निषधादुदक् ॥ ६७ ॥
माल्यवतोऽद्रेः पश्चिमदिग्भागे गन्धमाद-
नाद्रेः प्राङ् नीलगिरेर्दक्षिणतो निषधादुत्तरे
चेलावृतं वर्षं जम्बूद्वीपमध्यस्थम् ॥ ६७ ॥
भद्राश्वं माल्यवत्प्राच्यां
वर्षं भद्रजनाकुलम् ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २९९
सुकेतनं केतुमालं
प्रतीच्यां गन्धमादनात् ॥ ६८ ॥
माल्यवतः प्राक् भद्राश्वं वर्षं गन्धमाद-
नात् प्रत्यक् शोभनगृहं केतुमालं नाम ॥ ६८ ॥
निषधाद्धरिवर्षे यद्-
याम्यतो हेमकूटतः ।
नाम्ना किंपुरुषं ख्यातं
भारतं हिमवद्गिरेः ॥ ६९ ॥
रम्यकाख्यमुदङ्नीला-
द्धिरण्वं श्वेतपर्वतात् ।
यदुत्तरे शृङ्गवतः
कुरुवर्षं तदुच्यते ॥ ७० ॥
विष्कम्भशैलाश्चत्वारो
मेरोः स्थैर्याय वेधसा ।
लक्षाधोन्नतयः क्लृप्ता-
स्तेषां पूर्वेण मन्दरः ॥ ७१ ॥
श्वेतो हरिद्राचूर्णाभो
याम्यतो गन्धमादनः ।

३०० मृगेन्द्रतन्त्रे । [ १।१३
प्रतीच्यां विपुलो नीलः
सुपार्श्वः सौम्यतोऽरुणः ॥७२॥
सहस्रयोजनच्छाया-
स्तेषु कल्पद्रुमाः स्थिताः ।
कदम्बजम्ब्वावश्वत्थ-
न्यग्रोधौ चोत्तरान्तिकाः ॥७३॥
मेरोर्दाढ्यार्थं श्वेतनीलपीतारुणवर्णाः प्रा-
च्यादिदिक्षु मन्दरगन्धमादनविपुलसुपार्श्वा-
ख्या विष्कम्भाः पञ्चाशतसहस्रोच्छ्रायाः सृष्टाः ।
येषु योजनसहस्रोन्नतयः कदम्बजम्ब्वादयश्च
कल्पपादपाः स्थिताः ॥ ७३ ॥
जम्बूफलरसोद्भूता
मेरुं पर्येत्य निम्नगा ।
विवेश मूलमेवास्य
कनकीकृत्य तां महीम् ॥ ७४ ॥
तं पीत्वा पक्षिसर्पाखु-
मृगशाखामृगादयः ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०१
बभूवुः काञ्चना ये च
सत्त्वास्तस्यां कृताप्लवाः ॥ ७५ ॥
पर्येत्य प्रदक्षिणं कृत्वा, अस्येति मेरोः,
शाखामृगा वानराः । आदिग्रहणेन गजा-
श्वादयः ॥ ७५ ॥
द्वीपकेतुरभूज्जम्बूः
कल्पशाखिषु सत्स्वपि ।
प्रभावातिशयात्ख्यातं
जम्बूद्वीपमिदं ततः ॥ ७६ ॥
द्वीपानां केतुर्ध्वजो द्वीपकेतुः ॥ ७६ ॥
अथ विष्कम्भशैलानां सरांश्युपवनानि चो-
च्यन्ते
तत्र
प्राच्यां विष्कम्भशैलस्य
मूले चैत्ररथं वनम् ।
सरोऽरुणोदकं नाम
तत्र हेमाब्जमण्डितम् ॥ ७७ ॥
स्पष्टम् ॥ ७७ ॥

३०२ मृगेन्द्रतन्त्रे । [ १।१३
याम्याद्रिमूले गन्धर्व-
सुरसिद्धाप्सरोवृतम् ।
नन्दनं मानसं तत्र
सरो मानसतस्करम् ॥ ७८ ॥
दक्षिणे विष्कम्भशैलमूले नन्दनाख्यमुप-
वनम्, सरश्चात्र मनोहारि मानसं नाम ॥ ७८ ॥
वैभ्राजं वैपुले मूले
सितोदश्च ह्रदोत्तमः ।
देवैर्निषेव्यते छन्नः
कमलैरंशुमत्प्रभैः ॥ ७९ ॥
विपुलाख्यस्याद्रेर्मूले वैभ्राजाख्यं वनं सि-
तोदकं नाम सरः यदर्ककान्तिभिरब्जैर्मण्डितं
सुरैरासेव्यते ॥ ७९ ॥
सौपार्श्वे धृतिमन्नाम
काननं भद्रको ह्रदः ।
सौगन्धिकाम्बुजच्छन्नः
सेव्यते पितृभिः सदा ॥ ८० ॥
सुपार्श्वस्य मूले धृतिमद्वनं पितृसेव्यमति-

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०३
सुरभ्यब्जच्छन्नं भद्रकाख्यं सरः। साम्प्रतमि-
लावृतादिद्वीपनिवासिनो जनस्याहारायुःका-
न्त्यादिवर्णनम् ॥ ८० ॥
त्रयोदशसहस्रायु-
र्जम्बूफलरसाशनः ।
मेर्वालोकोपलब्धार्थो
जनः सुत्वगिलावृते ॥ ८१ ॥
मेर्वालोकेन च दीपेन प्रकाशेनाधिगतप-
दार्थः । सुत्वगिति कान्तच्छविः ॥ ८१ ॥
वर्षायुतायुर्नीलाब्ज-
द्युतिः पनससारभुक् ।
केतुमाले जनो दिव्य-
देहबन्धः सुखी बली ॥ ८२ ॥
वर्षाणामयुतं दशसहस्राणि आयुर्यस्य स
तथा । पनसाख्यानि फलानि तेषां सारो निः-
ष्यन्दस्तं भुङ्क्ते इति पनससारभुक् ॥ ८२ ॥
चन्द्रबिम्बद्युतिर्नीला-
ब्जाशनो भद्रवाजिनि ।

३०४ मृगेन्द्रतन्त्रे । [ १।१३
दशवर्षसहस्रायु-
र्दुःखशोकभयोज्झितः ॥ ८३ ॥
भद्रवाजिनि इति भद्राश्वे वर्षे ॥ ८३ ॥
त्रिंशदब्दसहस्रायुः
कामवृक्षफलाशनः ।
युग्मप्रसूतिः कुरुषु
श्यामापुष्पद्युतिर्जनः ॥ ८४ ॥
कामादिच्छातो वृक्षफलाशनं यस्य, यथे-
ष्टानि वृक्षफलानि निर्माय भुङ्क इत्यर्थः । कु-
रुषु इति कुरुवर्षे । युग्मप्रसूतिः युगपत् क-
न्याकुमारौ स्तः । श्यामा प्रियङ्गुः तत्पुष्पद्युति-
गौरप्रायकान्तिः ॥ ८४ ॥
अथात्रैव वर्षे संनिकर्षस्थौ चन्द्रद्वीपभद्रा-
करद्वीपौ उच्येते
भूतवेदसहस्रौ द्वा-
वेकदिक्संधिलक्षितौ ।
सोमवाय्वाशयोः सिद्ध-
मुनिचारणसेवितौ ॥ ८५ ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०५
चन्द्रभद्राकरौ द्वीपौ
चन्द्ररक्ताब्जरुग्जनौ ।
ऐलावृतं तयोरायुः
फलं मूलं च भोजनम् ॥ ८६ ॥
अन्तर्भावः कुरुष्वब्धौ
सान्निध्यात्कीर्तितौ ततः ।
कुरुवर्षोपान्तर्वर्तिनि क्षाराब्धौ पञ्चचत्वा-
रिशद्योजनसहस्राणि आवृत्य स्थितौ, एकेन
दिक्संधिना लक्षितौ दृश्यमानौ उत्तरवायव्य-
दिग्गतौ सिद्धादिजुष्टौ चन्द्रभद्राकरौ द्वीपौ
ज्ञेयौ । तत्र चन्द्रद्वीपे चन्द्रद्युतिर्जनः, भद्रा-
करद्वीपे च रक्ताब्जरुचिः । तद्वासिनां चेला-
वृतोक्तमायुः । अशनं च फलमूलानि । अब्धौ
यद्भूतवेदसहस्रसंख्यं स्थानं तस्मिन् स्थितौ
इति व्यधिकरणे सप्तमी । सान्निध्यात् सा-
मीप्यात् ॥
अध्यर्धानि सहस्राणि
द्वादशायुर्हिरण्वति ॥ ८७ ॥
३९

३०६ मृगेन्द्रतन्त्रे । [ ११।३
जनस्येन्दुत्विषो नित्य-
मश्नतो लाकुचं फलम् ।
हिरण्यवत्संज्ञे वर्षे लकुचफलाशिनश्चन्द्रका-
न्तेर्जनस्य सार्धानि द्वादशसहस्राण्यायुः ॥
नीलनीरजरम्यस्य
रम्यके द्वादशस्थितिः ॥ ८८ ॥
जनस्याब्दसहस्राणि
न्यग्रोधफलमश्नतः ।
रम्यकाख्ये वर्षे नीलाब्जद्युतेर्जनस्य वरफ-
लाशिनो द्वादशसहस्राणि स्थितिः ॥
रजतद्युतिरिक्ष्वाद-
स्तावदायुर्हरौ जनः ॥ ८९ ॥
रौक्मः किंपुरुषे प्लक्ष-
भोजनोऽब्दायुतस्थितिः ।
हरिवर्षे रजतप्रभः प्रागुक्तायुः । इक्षुमेवान्न-
त्वेन आ समन्तादत्ति इति इक्ष्वादः । जनः
किंपुरुषवर्षे हेमाभः लक्षफलाशी अब्दायुत-
जीवी च ॥
१ इक्ष्वादादनन्तरं 'तदेव भोजनो' इत्यधिकः पाठः 'क' पुस्तके ।

श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०७
इति किंपुरुषादीनि
वर्षाण्युक्तानि यानि ते ॥ ९० ॥
न तेष्ववस्थाभेदोऽस्ति
विवर्तिषु कृतादिषु ।
युगानुरूपप्रज्ञायु-
स्तेजोबलधनप्रजः ॥ ९१ ॥
कृष्टाकृष्टाशनो दुःख-
त्रयार्त्तो भारते जनः ।
गुण एको यद्युक्तो
नेष्टं किंचिन्न साधयेत् ॥ ९२ ॥
सर्वासां फलभूमीनां
कर्मभूः कारणं यतः ।
इत्थमुक्ते किंपुरुषादिवर्षे युगपरिवर्तनेऽपि
नावस्थाभेदोऽस्ति । अस्मिंस्तु भारते वर्षे जनः
कृतादियुगानुसारिणि बुद्धिजीवितकान्तिवी-
र्यार्थापत्यानि यस्य स तथाविधः । एतानि
बुद्ध्यादीनि कृतादिषु युगेषु जनस्य यथायथं
ह्रासवन्तीत्यर्थः । आध्यात्मिकाधिदैविकाधिभौ-

३०८ मृगेन्द्रतन्त्रे । [ ११३
तिकदुःखत्रयार्तः कृष्टजाताकृष्टजातभोजी चात्र
जनः । एकस्त्वयं गुणो यत्कृतोद्यमः किं पु-
नर्न साधयेत्, सर्वमेव साधयितुमलमिति या-
वत् । कुत इत्याह, सर्वासां यस्मात्फलभूमीना-
मियं कर्मभूमिः कारणम् ।
'कर्मभूमिरियं ब्रह्मन् फलभूमिरतः परा ।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ॥'
इति । सर्वासामित्यतिशयोक्तिरन्यत्रासंभवात् ॥
नवाब्धिस्रोतसि द्वीपा
नव चात्रार्धकस्थले ॥ ९३ ॥
इन्द्रद्वीपप्रभृतयो
नामतस्तान्निबोध मे ।
अत्र भारते वर्षे नवभिरब्धिस्रोतोभिर्युक्ते ।
अर्धं कं येषां तानि अर्धकानि जलावृतार्धानि
स्थानानि यत्र तस्मिन् तादृशि । यथोक्तं श्री-
-मत्किरणे
: 'जलं पञ्च स्थलं पञ्च'
इति । एवंविधे भारते वर्षे इन्द्रद्वीपादिद्वीपन-
वकं नामतोऽभिधीयमानमवधारय ॥

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ३०९
अथ तदाह
इन्द्रद्वीपः कशेरुश्च
ताम्रपर्णो गभस्तिमान् ॥ ९४ ॥
नागद्वीपश्चान्द्रमसो
गान्धर्वो वारुणस्तथा ।
कुमारिकाख्यो नवमो
नानापर्वतनिम्नगाः ॥ ९५ ॥
नानाजातिजनाकीर्णा
भारताख्ये प्रकीर्तिताः ।
एते नव द्वीपा विविधजातिजनपद्संकुलाः
भारतनाम्नि वर्षे कथिताः । द्वीपशब्दोऽर्धर्चा-
दिपाठात् पुंस्यपि ज्ञेयः ॥
आग्नीध्रो नाम नृपति-
र्जम्बूनाथो मनोः कुले ॥ ९६ ॥
तज्जातनृपसंज्ञाभिः
कथ्यन्ते भारतादयः ।
मनुवंशस्याग्नीध्रनाम्नो जम्बूद्वीपाधिपतेः भ-
रतादयो नव पुत्रा आसन् । तत्साधितानि ज-

३१० मृगेन्द्रतन्त्रे । [ १।१३
म्बूद्वीपखण्डानि नव भारतादिसंज्ञाभिः प्रसि-
द्धानि ॥
अथाब्धिसप्तकान्तरितद्वीपसप्तकमुच्यते
क्षारक्षीरदधिस्नेह-
रसमध्वामृतोदकैः ॥ ९७ ॥
लक्षादिद्विगुणा द्वीपा
जम्बूद्वीपादयो वृताः ।
जम्बूद्वीपादिद्वीपसप्तकं क्षारक्षीराद्यब्धिस-
प्तकेन लक्षादिद्विगुणप्रमाणेनान्तरितं ज्ञेयम् ।
जम्बूद्वीपाख्यायाः कारणं
‘द्वीपकेतुरभूज्जम्बूः’
इत्यादि पूर्वमुक्तम् ॥
इदानीं शाकादिद्वीपानां स्वसंज्ञया अर्थवत्तां
वक्ति
शाके शाकद्रुमस्त्वङ्गः
शाकसंज्ञानिबन्धनः ॥ ९८ ॥
कुशोऽभूत्काञ्चनः कौशे
स्वयंभुवि यियक्षति ।

श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते। ३११
क्रौञ्चे क्रौञ्चो हतो दैत्यः
क्रौञ्चाद्रौ हेमकन्दरे ॥ ९९ ॥
स्कन्देन युद्ध्वा सुचिरं
चित्रमायी सुमायिना ।
स शैलस्तस्य दैत्यस्य
ख्यातश्चित्रेण कर्मणा ॥१००॥
केतुतामगमत्तस्य
नाम्ना क्रौञ्चं तदुच्यते ।
शाकद्वीपे शाकाख्यो वृक्ष उन्नतः शाका-
ख्याहेतुः । ब्रह्मणि यष्टुमिच्छति हेमकुशोत्पत्तिः।
कौशे द्वीपे कुशसंज्ञाकारणम् । क्रौञ्चे द्वीपे
काञ्चनकन्दरं, क्रौञ्चाद्रौ युध्यमानः क्रौञ्चाख्यो
दैत्यः कार्त्तिकेयेन हतः इति क्रौञ्चोपलक्षित-
त्वात् क्रौञ्चद्वीपसंज्ञा ॥
शाल्मले शाल्मलीवृक्षो
हैमः साहस्त्रिकोऽर्कभाः ॥१०१॥
प्रियोऽमराणां तत्केतुः
स तदाख्यानिबन्धनः ।

३१२ मृगेन्द्रतन्त्रे । [ २।१३
सहस्रयोजनोन्नतः सूर्यद्युतिः शाल्मलीवृक्षः
शाल्मलिद्वीपे, अस्याख्या निबन्धनं स्थानम् ॥
गोमेदे गोपतिर्नाम
राजाभूद्गोसवोद्यतः ॥ १०२ ॥
याज्योऽभूद्वह्निकल्पाना-
मौतथ्यानां मनोः कुले ।
स तेषु हरियज्ञाय
प्रवृत्तेषु भृगून् गुरून् ॥१०३॥
वव्रे तं गौतमः कोपा-
दशपदगमत्क्षयम् ।
यज्ञवाटेऽस्य ता गावो
दग्धाः कोपाग्निना मुनेः॥१०४
तन्मेदसा मही छन्ना
गोमेदः स ततोऽभवत् ।
गोसवाख्ययज्ञकृत् गोपतिसंज्ञो राजा मनु-
वंश्यः उतथ्यवंश्यानामग्निवत्तेजस्विनामौतथ्या-
नां याज्योऽभूत् । तेषु औतथ्येषु इन्द्रयज्ञार्थं
गतेषु भृगून् गुरुत्वेऽवृणीत सः । गावो गौत-