सामग्री पर जाएँ
सर्वकोश
मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)

Mrigendra Tantra / Agama with Narayanakantha Vritti

महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा

DevanagariSanskritpublished448 पृष्ठ

पृष्ठ 338, कुल 448 में से

संदर्भ में पढ़ें
पृष्ठ 338

३०८ मृगेन्द्रतन्त्रे । [ ११३
तिकदुःखत्रयार्तः कृष्टजाताकृष्टजातभोजी चात्र
जनः । एकस्त्वयं गुणो यत्कृतोद्यमः किं पु-
नर्न साधयेत्, सर्वमेव साधयितुमलमिति या-
वत् । कुत इत्याह, सर्वासां यस्मात्फलभूमीना-
मियं कर्मभूमिः कारणम् ।
'कर्मभूमिरियं ब्रह्मन् फलभूमिरतः परा ।
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते ॥'
इति । सर्वासामित्यतिशयोक्तिरन्यत्रासंभवात् ॥
नवाब्धिस्रोतसि द्वीपा
नव चात्रार्धकस्थले ॥ ९३ ॥
इन्द्रद्वीपप्रभृतयो
नामतस्तान्निबोध मे ।
अत्र भारते वर्षे नवभिरब्धिस्रोतोभिर्युक्ते ।
अर्धं कं येषां तानि अर्धकानि जलावृतार्धानि
स्थानानि यत्र तस्मिन् तादृशि । यथोक्तं श्री-
-मत्किरणे
: 'जलं पञ्च स्थलं पञ्च'
इति । एवंविधे भारते वर्षे इन्द्रद्वीपादिद्वीपन-
वकं नामतोऽभिधीयमानमवधारय ॥