मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७१
किंतु कार्यं तदीयं व्यक्तरूपतया अवस्थितं स-
दस्य भोग्यम्, नत्वसौ शक्तिमात्ररूपत्वात्तस्या
इति उक्तम् ॥ २ ॥
यद्येवं तद्गर्भे तत्तद्भुवनविशेषश्रुतेर्भुवनानां
च संनिवेशविशिष्टतां विना भुवनत्वायोगा-
न्मायातत्त्वस्यापि संनिवेशवत्त्वं प्रसक्तमित्याह
मायायामपि पठ्यन्ते
गहनेशादयोऽधिपाः ।
तत्त्वशुद्धिश्च दीक्षायां
सर्वं तत्कृतिमस्तके ॥ ३ ॥
नित्यत्वव्यापकत्वादि-
श्रवणादवसीयते ।
दृष्टं पुरादि यद्भोग्यं
मूर्तं प्रलयधर्मि च ॥ ४ ॥
यद्यपि मायातत्त्वे मण्डलेश्वर—गहनेश्वरा-
दयो रुद्राः भुवनाधिवासिनः पठ्यन्ते, यद्व-
क्ष्यति
‘ध्रुवतेजोऽधिपौ रुद्रौ गहनेशश्च सर्वराट् ।
मायाधिकारिणो रुद्रा मण्डलाधिपतीश्वराः ॥’ (१३।१५४)
२७२ मृगेन्द्रतन्त्रे । [ १।१३
इति, दीक्षायामपि तत्त्वशुद्धिर्मायातत्त्वस्थत्वेन
यद्यपि क्रियापादेऽभिधास्यते, तथापि न तत्
तस्याः संनिवेशविशिष्टतामापादयति, किं तु
तानि तत्तत्तत्त्वस्थत्वेनोक्तानि भुवनानि, तन्नि-
वासिनश्च मण्डलेश्वरा इत्येतत्सर्वं तत्कृतेः त-
त्कार्यभूतायाः कलाया मस्तके ज्ञेयम्, शक्ति-
रूपाया मायायाः प्रथमा व्यक्तिः कला, तन्मूर्-
र्धन्येतत्सर्वं स्थितमित्यर्थः । कुत एतज्ज्ञायत
इत्याह 'नित्यत्वव्यापकत्वादि' इत्यादि, यतो
नित्यत्वं व्यापकत्वं चास्याः प्रागुपपादित-
मागमेषु श्रूयते । यदिच भुवनगर्भत्वमस्याः,
तदा संनिवेशवती स्यात् । तथाच सति अ-
व्यापिका विनश्वरी च भवेत् । अत्रापि हेतु-
माह 'दृष्टं पुरादि' इत्यादि, यत् यस्मात्कारणात्
दृष्टं दृश्यमानं च पुरप्राकारादि यत्, तत् भो-
ग्यत्वे सति मूर्तं प्रलयधर्मि च दृष्टम् । अस्याश्च
संनिवेशवन्ति भुवनानि गर्भे स्थितानि । भो-
ग्यत्वं च यदि साक्षादङ्गीक्रियते, तदा मूर्तत्वं
विनश्वरत्वं च प्रसज्यते इति तत्कार्यस्यैव क-
लादेर्व्यक्तरूपस्य भुवनयोगित्वमिति न कश्चि-
द्दोषः ॥ ४ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७३
एष एव च न्यायो महामायाख्यायां शुद्ध-
विद्यायामपि अनुसर्तव्य इत्याह
शुद्धाध्वन्यपि मायायाः
परस्याः पतयः कृतौ ।
ये तस्यामपि पठ्यन्ते
तेऽपि तत्कृतिमस्तके ॥ ५ ॥
शुद्धेऽध्वनि परस्याः शुद्धविद्याख्याया मा-
याव्यपदेशः । तथाचोक्तं श्रीमद्रौरवे
'मायोपरि महामाया.....................।'
इति । तत्र कृतौ करणीये स्वे स्वेऽधिकारे ये-
ऽधिकृताः, तेऽपि तत्कार्यमूर्धनि श्रीमन्मतङ्गा-
द्युक्तक्रमेण स्थिता अवगन्तव्याः ॥ ५ ॥
इदानीमधस्तादूर्ध्वैकदेशवर्तिनो ब्रह्माण्डस्य
विस्तारोच्छ्रायौ तद्गतभुवनप्रमाणं च वक्तुं, यो-
जनप्रमाणं परमाण्वादिक्रमेण वर्णयति
रजो विलोक्यते तिर्य-
ग्जालाविष्टार्करोचिषाम् ।
तदष्टाष्टगुणस्थाने
तृतीये स्यात्कचाग्रकम् ॥ ६ ॥
३५
२७४ मृगेन्द्रतन्त्रे । [ ११।३
लिक्षा यूका यवोऽप्येव-
मङ्गुलं तत्त्रिसंगुणैः ।
तैरेव गुणितं पाणि-
र्धनुस्तद्वेदलक्षितम् ॥ ७ ॥
दण्डो द्वे धनुषी ज्ञेयः
क्रोशस्तद्विसहस्रकम् ।
द्विक्रोशमाहुर्गव्यूतिं
द्विगव्यूतिं च योजनम् ॥ ८ ॥
कपालमर्बुदं स्थौल्या-
द्ब्रह्मणोऽण्डस्य योजनैः ।
आदित्यभासां तिर्यग्जालान्तरप्रविष्टानां
सतां सूक्ष्मतमं यद्रजो दृश्यते, तदष्टगुणीकृत्य
तत्प्रमाणं, पुनरष्टगुणितं कार्यं यावत्तृतीये
स्थाने कचाग्रकं नाम प्रमाणं भवति । उक्तं
च श्रीमत्स्वतन्त्रे
'अष्टानां परमाणूनां समवायो यदा भवेत् ।
त्रसरेणुस्तदाख्यातस्तत्पद्मरज उच्यते ॥
त्रसरेण्वष्टकं देवि बालाग्रं तद्विधीयते ।' (१०।१७)
इति । तैरष्टभिः कचाग्रैर्लिक्षा । तदष्टकेन यूका ।
ताभिरष्टाभिर्यवो ज्ञेयः। एवमिति यवाष्टकेना-
ङ्गुलम्। तन्त्रिंसंगुणितैस्तैरेव गुणितं पाणिः, तद्-
ङ्गुलं तैरेवेत्यष्टभिस्त्रिगुणितैश्चतुर्विंशत्यङ्गुलैर्गु-
णितं सत् पाणिः हस्तो भवति । वेदशब्दस्य
चतुःसंख्यालक्षकत्वात् तेषां पाणीनां चतुष्केन
लक्षितं धनुःसंज्ञं प्रमाणं बोद्धव्यम् । धनुर्द्व-
येन दण्डः, दण्डसहस्रद्वयेन क्रोशः, क्रोश-
द्वयेन गव्यूतिः, तद्द्वयं च योजनम् । एषां
योजनानामर्बुदं कोटिविस्तृतं ब्रह्माण्डकपालं
ज्ञेयम् ॥
तस्यान्तः काञ्चनं धाम
कालाग्नेस्तावदेव हि ॥ ९ ॥
यत्रान्तकालतीक्ष्णांशु-
कोटितेजास्तथाविधैः ।
रुद्रैरास्ते वृतो देवः
कालाग्निरिति विश्रुतः ॥१०॥
सर्वाध्ववर्तिभूतानां
यस्मिन्नुद्वृत्ततेजसि ।
२७६ मृगेन्द्रतन्त्रे । [११३
भयमुत्पद्यते शक्त्या
संहर्त्र्या चोदिते प्रभोः ॥११॥
तस्येति ब्रह्माण्डस्य अन्तः कालाग्नेः सौवर्णं
गृहं कोटिः । यत्र गृहे कल्पान्तार्ककोटिसम-
दीप्तिस्तथाविधानेकरुद्रावृतः कालाग्निस्तिष्ठति।
यस्मिन् पारमेश्वर्या संहर्त्र्याख्यया शक्त्या क्ष-
याय प्रेरिते उद्दीपिते तेजसि समस्ताध्ववर्तिनां
भूतानां त्रासः संजायते ॥ ११ ॥
तस्य स्वभावतो ज्वालाः
प्रवृत्ता दशकोटयः ।
योजनानां तदर्धेन
धूमः सान्द्रः सुदारुणः ॥ १२ ॥
प्रकृत्या तज्वाला दशकोटिप्रमाणाः । धूमः
पञ्च कोट्यः सान्द्रो घनो दारुणो दुःसहः ॥१२॥
ततः पुटास्त्रयस्त्रिंश-
दशलक्षोनकोटिकाः ।
तदन्तराणि द्वात्रिंश-
ल्लक्षकाणि दुरात्मनाम् ॥ १३ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३७५
स्थानानि यातनाहेतो-
र्निर्मितान्यध्ववेधसा ।
ततोऽनन्तरं नाकविस्ताररूपाः त्रयस्त्रिंश-
त्पुटाः प्रत्येकं नवतिलक्षाणि । तदन्तराणि द्वा-
त्रिंशत्, तेभ्य एकैकं लक्षप्रमाणम् । एतानि पा-
पीयसां यातनार्थं कृतान्यध्ववेधसा भुवनाध्व-
स्रष्ट्रा अनन्तेशेन ॥
तानि ते नामभिर्वक्ष्ये
द्विजमुख्य निबोध मे ॥ १४ ॥
रौरवध्वान्तशीतोष्ण-
संतापाब्जमहाम्बुजाः ।
कालसूत्राष्टमा ह्येते
नरका इति विश्रुताः ॥ १५ ॥
अथ महानरकाणामष्टानां संज्ञाः
सूच्यास्यकालखड्गाख्य-
क्षुरधाराम्बरीषकाः ।
तप्ताङ्गारा महादाहाः
संतापाश्चेति ये मुने ॥ १६ ॥
२७८ मृगेन्द्रतन्त्रे । [ १।१३ ·
भवन्त्यष्टौ सुबीभत्सा
महाशब्दपदानुगाः ।
सुबीभत्साः अतिभयानकाः । महाशब्दस्य
पदं नरकमित्याख्यारूपमनुगतं येषां, महानरक-
संज्ञा इत्यर्थः ॥
अथ नरकराजाष्टकं
लाक्षाप्रलेपमांसाद्-
निरुच्छ्वासनसोच्छ्वसाः ॥ १७॥
युग्माद्रिशाल्मलीलोह-
प्रदीप्तक्षुत्पिपासकाः ।
कृमीणां निचयश्चेति
राजानः परिकीर्तिताः ॥१८॥
अथ लोहस्तम्भेत्यादिना राजराजेश्वराष्टक-
संज्ञा उच्यन्ते
लोहस्तम्भोऽथ विण्मूत्र-
स्तथा वैतरणी नदी ।
तामिस्रश्चान्धतामिस्रः
कुम्भीपाकः सरौरवः ॥ १९ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । २७९
महापदानुगोऽवीची
राजराजेश्वरेश्वराः ।
अथैषां पुटानां सान्तरालानां संख्यां कल-
यितुमाह :
एषां पुटानां नरकैः
सार्धं योजनसंख्यया ॥ २० ॥
भवन्ति कोटयस्त्रिंशद्
द्वे च लक्षे द्विजोत्तम ।
त्रिंशद्योजनकोटयो लक्षद्वयं चेति त्रयस्त्रिं-
शत्पुटानां सान्तरालानां प्रमाणम् ॥
ततस्त्रिंशत्सहस्राणि
त्यक्त्वा भूर्नवलाक्षिकी ॥ २१ ॥
भवत्ययोमय्यर्धेन
पूर्वेणार्धेन काञ्चनी ।
ततोऽनन्तरं त्रिंशत्सहस्राणि योजनानां
त्यक्त्वा नवलक्षप्रमाणा भूः पूर्वेणार्धेन हेम-
मयी, अपरेण तु अयोमयी ॥
२६४ मृगेन्द्रतन्त्रे । [ ११३
योऽप्यधस्तात्पुटस्तस्या
मृदर्धं चार्धमायसम् ॥ २२ ॥
तत्र द्वात्रिंशतोऽमीषां
निरयाणां पतिः स्थितः ।
कूष्माण्ड इति विख्यातः
प्रलयार्कानलद्युतिः ॥ २३ ॥
करालवदनः क्रुद्धो
वृत्तकोटरलोचनः ।
टङ्कपाणिस्तथाभूतै-
र्भूतैर्भूयोभिरावृतः ॥ २४ ॥
अनन्तरोक्ताया नवलाक्षिक्याः भुवो हेमा-
त्पुटादधःस्थो योऽयोमयः पुटः, तस्याप्यर्धं पार्थि-
वम्, अर्धं तु आयसम् । तत्र चामीषां प्रागु-
क्तानां नरकाणां द्वात्रिंशत ईशः कूष्माण्डाख्यः
करालवदनत्वादिविशेषणविशिष्टस्तथाविधैर्भू-
तैः परिवृत आस्ते । वृत्तकोटराणि परिवर्तुलग-
र्भाणि सतारकत्वात् लोचनानि यस्य स एवम् ।
टङ्कः प्रागुक्तः परशुः ॥ २४ ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २८१
अयोरुक्मपुटादूर्ध्व-
मष्टमीयं वसुन्धरा ।
साहस्त्राः षट् परा मध्या
व्यर्कलक्षत्रिकोटिकी ॥ २५ ॥
वसत्यो नवसाहस्राः
परा दशसहस्रिकी ।
तदासां सप्तकं सद्भिः
ख्यातं पातालसप्तकम् ॥२६॥
काञ्चनमायसं च यत् पुटद्वयमुक्तं, ततो-
ऽनन्तरमियं वसुन्धरा भूमिरष्टमी, यस्यां वय-
मास्थिताः । एतद्व्यतिरिक्ताश्च अन्याः षड्भूमयः
सहस्रप्रमाणाः । अस्यास्तासां च षण्णां या
मध्ये भवा मध्या सप्तमी भूमिः, सा वि-
गतद्वादशकललक्षकोटित्रयप्रमाणा, द्वे कोट्यौ
अष्टाशीतिश्च लक्षाणीत्यर्थः । एतस्य भूम्यष्ट-
कस्यान्तराले वसतयः आस्पदानि एकैकं नव-
सहस्रप्रमाणकानि । परेति ऊर्ध्ववर्तिनी या
वसतिर्वक्ष्यमाणसहस्रयोजनप्रमाणकाञ्चनास्प-
३६
२८२ मृगेन्द्रतन्त्रे । [ ११।३
द्हाटकेशाधिष्ठानभूता, सा दशसहस्रा । आसां
च वसतीनां सप्तकं, तत् सप्तपातालमिति
विद्वद्भिरुक्तम् ॥ २६ ॥
तन्नामतोऽधिपतित
उच्यमानं निबोध मे ।
आभासं परतालाख्यं
त्रितलं च गभस्तिमत् ॥ २७ ॥
महातलं रसाङ्कं च
पातालं सप्तमं मुने ।
इत्थं नामत उक्त्वा, अधिपतीन् कथयति
सप्तस्वेतेषु दैत्येन्द्र-
भुजङ्गक्षणदाचराः ॥ २८ ॥
सप्त सप्त समाख्याता-
स्तानप्यथ निबोध मे ।
एकैकस्मिन् दैत्येन्द्रो नागो राक्षसश्च ए-
तेषु सप्त सप्त कथिताः । तांश्चोच्यमानान् बु-
ध्यस्व ॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २८३
दैत्याः शङ्कुश्रुतिः पूर्वे
प्रल्हादः शिशुपालकः ॥ २९ ॥
कर्कन्धको हिरण्याक्षो
बृहद्गर्भो बलिस्तथा ।
इति सप्तसु दैत्यसप्तकम् ॥
नागानाह
काद्रवेयाः कुटिलको
वासुकिः कम्बलस्तथा ॥ ३० ॥
कार्कोटकोऽथ कालाङ्गो
दुर्दर्शस्तक्षकस्तथा ।
कद्र्वा अपत्यानि काद्रवेयाः ॥
अथ नागानन्तरोपक्रान्तं रक्षःसप्तकं
विकटो लोहिताक्षश्च
यमाक्षो विकटाननः ॥ ३१ ॥
करालो भीमनिर्ह्रादः
पिङ्गलश्चेति राक्षसाः ।
अथ हाटकेशभुवनं
२८४ मृगेन्द्रतन्त्रे । [१।१३
तेषामुपरि निःशेष-
पातालाधिपतीश्वरः ॥ ३२ ॥
साहस्रे काञ्चने धाम-
मण्डले हाटकः स्थितः ।
यं स्तुवन्ति प्रियप्राप्त्यै
यता यतिविभूषणैः ॥ ३३ ॥
दैत्ययक्षासुराधीश-
ललना ललितैः पदैः ।
तेषां पातालानामूर्ध्वं तदीश्वरो हाटकेशः
स्थितः, यं भगवन्तं दानवगुह्यकदेवनागाङ्गनाः
सुन्दरैः स्तुतिपदैः स्तुवन्ति । कीदृशास्ताः
इत्याह यताः प्रयताः । किंभूतैः पदैः स्तुवन्ति,
यतिविभूषणैः, यतिर्द्रुतमध्यविलम्बितरूपा प-
रिपाटी, सैव भूषणं येषां स्तुतिपदानां तैर्गी-
त्यनुषक्तैश्चाटुभिराराधयन्तीत्यर्थः । किमर्थम्;
प्रियप्राप्त्यै यतस्ताः कामवशीकृताः ॥
ततः कोटिशतं पृथ्वी
नानाजनसमाश्रया ॥३४॥
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । २८५
द्वीपशैलसरिद्वारि-
निधिमण्डलमण्डिता ।
ततोऽनन्तरं विविधजनास्पदा वक्ष्यमाण-
द्वीपजलनिधिवृन्दैर्भूषिता भूः ॥
द्वीपानां प्रमाणं संज्ञां चाह
जम्बूशाककुशक्रौञ्च-
शाल्मगोमेधपुष्कराः ॥ ३५ ॥
लक्षादिद्विगुणा द्वीपाः
क्षाराद्यब्धिभिरावृताः ।
वक्ष्यमाणवल्लक्षादारभ्योत्तरोत्तरद्विगुणद्वि-
गुणमानकैः क्षारक्षीरादिः । तत्प्रमाणैः समुद्रैः
परिवृता जम्ब्वादिद्वीपाः सप्त ॥
ततो हिरण्मयी भूमि-
र्लोकालोकश्च पर्वतः ॥ ३६ ॥
तमः परस्ताद्गर्भोदः
कटाहश्चेति भूतलंम् ।
पश्चात् भूमिः काञ्चनमयी, लोकालोकसं-
२८६ मृगेन्द्रतन्त्रे । [ १।१३
ज्ञोऽद्रिः, तद्बहिस्तमः, ततस्तु गर्भोदाख्यो-
ऽब्धिरण्डकटाहश्चेत्येतद्भूतलम् ॥
अथैतद्विभागं विस्तरेण ज्ञातुमिच्छन् मुनिः
प्रक्ष्यति
चित्रशैलसरिद्दीप-
काननोदध्यलंकृताम् ॥ ३७ ॥
पृथ्वीं भगवतीं शक्र
श्रोतुमिच्छामि विस्तरात् ।
त्वयि वक्तरि देवेश
सर्वप्रत्यक्षदर्शिनि ॥ ३८ ॥
निष्ठाज्ञप्तिरसाकृष्टं
श्रुतौ धावति मे मनः ।
विविधनगसरिद्दीपोपवनार्णवमण्डितां भुवं
विस्तराच्छ्रोतुमिच्छामि । त्वयि किल सकल-
प्रत्यक्षदर्शिनि उपदेष्टरि मम निरवशेषज्ञानौ-
त्सुक्याक्षिप्तं चेतः श्रवणनिमित्तं धावति ॥
वर्त्तयिष्य इत्यैन्द्रं वचः
वर्त्तयिष्ये द्विजश्रेष्ठ
प्रस्तुतोक्तिशरीरवत् ॥ ३९ ॥
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । :२८७
द्वीपान्नदीवनान्तांश्च
शृणुष्वैकाग्रमानसः ।
इतः परमध्वग्रन्थः सुगमत्वात्क्वचित् प्रदे-
शवृत्त्या व्याख्यायते, वर्तयिष्येऽभिधास्ये प्र-
स्तुतोक्तिशरीरक्रमेण ॥
जम्बूद्वीपं क्षितेर्नाभि-
स्तद्वृत्तं लक्षयोजनम् ॥ ४० ॥
क्षाराब्धिना परिवृतं
परिवृत्तेन तावता
तावतेति तथाप्रमाणेन ॥
तस्य मध्ये स्थितः शैल-
राजराजो हिरण्मयः ॥ ४१ ॥
तिरस्कृतांशुमज्ज्योति-
र्मेरुः सुरनिषेवितः ।
तन्मध्ये पर्वताधिराजो देवसेवितः काञ्च-
नमयः प्रतिहतार्ककान्तिर्मेरुः स्थितः ॥
स षोडश सहस्राणि
क्षितौ विष्टो महीतलात् ॥४२॥
२८८ मृगेन्द्रतन्त्रे । [ ११।३
तदूनमुन्नतो लक्षं
मूले षोडश विस्तृतः ।
स मेरुर्भूमेरन्तः षोडश योजनसहस्राणि प्र-
विष्टः, महीतलादारभ्य ऊर्ध्वं यावत् चतुरशी-
तिसहस्रोन्नतिः, मूले च षोडशसहस्रविस्तारः ।
ऊर्ध्वतोऽस्य शरावाकृतिविस्ताराधिक्येन द्वैगु-
ण्यं । उक्तं च श्रीमत्स्वतन्त्रे
'षोडशैव सहस्राणि ऊर्ध्वभागे प्ररोपितः ।
तान्यस्य मूले विस्तारस्तदूर्ध्वं द्विगुणस्तु सः ॥
स शरावाकृतिर्देवि मेरुर्देवाश्रयोऽद्रिराट् ।' (१०।१२३)
इति ॥
त्रिषु पादान्तरेष्वस्य
चतुर्वृद्धेषु पर्वसु ॥ ४३ ॥
नेमयः कटकाकारा
निर्गता दीप्तिमत्तराः ।
एका दशसहस्रा तु
मनुसाहस्रिकी परा ॥ ४४ ॥
नेमिर्या मस्तकोपान्ते
लोकपालसमाश्रया ।
चक्रवाटेति तामाहुः
सर्वरत्नप्रभावतीम् ॥ ४५ ॥
अस्य मेरोः, स्वोच्छ्रायपादेन पञ्चविंशतिस-
हस्रात्मकेनान्तरं येषां, तेषु तथाविधेषूत्तरं
चतुःसहस्रविवृद्धेषु पर्वसु भागसन्धिषु कट-
काकाराः सुष्ठु दीप्तास्तिस्रो नेमयो मेखला नि-
र्गताः। तदेवैषु त्रिषु स्थानेषु चतुर्वृद्धत्वं दर्श-
यति एकादशसहस्रेत्यादिना। एका आद्या
दशसहस्रप्रमाणा, द्वितीया मनुसाहस्रिका
चतुर्दशसहस्रा, चतुर्वृद्धोक्तेश्च तृतीया अष्टा-
दशसहस्रविस्तृता। नेमिर्या मस्तकसमीपे
लोकपालाश्रयभूता च, तामनेकरत्नप्रभाभास्वरां
चक्रवातोक्त्या आगमज्ञा आहुः। एवं च
प्रागुक्तचतुरशीतियोजनसहस्रोच्छ्रायस्य मेरोः
पर्वत्रयं पञ्चसप्ततिसहस्रमानकं, कटकत्रयं तु
नवसहस्रोन्नतम्। एकैकस्य त्रिसहस्रमानकत्व-
मित्यागमः ॥ ४५ ॥
सिद्धगन्धर्वमहतां
तदधः पर्वसु स्थितिः।
३७
२९०. मृगेन्द्रतन्त्रे । [ ११।३
चक्रवाटाधःस्थितेषूक्तेषु त्रिषु पर्वसु सि-
द्धादीनामास्पदं, या तु चक्रवाटाख्या ऊर्ध्वमे-
खला तस्यामष्टसु शृङ्गेषु पुर्योऽष्टौ समवस्थिताः ॥
प्राच्यादिष्विन्द्रमुख्यानां
नामतस्तान्निबोधत ॥ ४६ ॥
स्पष्टः श्लोकः ॥ ४६ ॥
नानारत्नप्रभाजाल-
मण्डलालङ्कृता हरेः ।
सिद्धसाध्यमरुज्जुष्टा
रुक्मभूरमरावती ॥ ४७ ॥
विविधरत्नकान्तिकलापपरिवेषभूषिता सि-
द्धादिसेविता हेमभूतला प्राच्यामिन्द्रस्यामरा-
वत्याख्या पुरी ॥ ४७ ॥
रक्तपीतमणिप्राय-
हेमप्राकारगोपुरा ।
वह्नेस्तेजोवती वह्नि-
तुल्यभूतनिषेविता ॥ ४८ ॥