मृगेन्द्र आगम: विद्या एवं योग पाद (भट्ट नारायणकण्ठ वृत्ति सहित प्राचीनतम कामिक आगम परिशिष्ट)
Mrigendra Tantra / Agama with Narayanakantha Vritti
महर्षि मृगेन्द्र (टीकाकार: भट्ट नारायणकण्ठ) द्वारा
६
श्लो० पृ० श्लो० पृ०
भोगोऽर्थः सर्वतत्त्वानां १६।२१४ याम्यधर्मेशसंयोक्तृ- १२८।३२१
भोग्या विकारिणो दृष्टा- ५।१५४ याम्याद्रिमूले गन्धर्व- ७८।३०२
म युग्माद्रिशाल्मलीलोह- १८।२७८
मतिस्तेनेतरा रागो १५।२३४ येन केतकपुष्पादे- २७।२६२
मन्त्रेशेशचिदाविष्ट- १५८।३३२ येऽपि तत्पदमापन्नाः १७४।३४२
महत्तमश्च क्रियते १७१।३४० येषां चिद्धर्मकाद्धेतो- ८।१९१
महातलं रसाह्वं च २८।२८२ येषां शरीरिणां शक्तिः ४।१३५
महापदानुगोऽवीची २०१२७९ योग्यतात्रयमप्येत- ९।१३९
महाबलमहाबाहु- १३०।३२२ योजनायुतविष्कम्भ- १११।३१५
महास्वापे समस्तस्य १८१।३४८ योनिर्विश्वस्य वागीशाः १६२।३३४
महोदया चन्द्रमसः ५३।२९२ र
मायाधिकारिणो रुद्रा १५४।३३१ रक्तपीतमणिप्राय- ४८।२९०
मायायामपि पच्यन्ते ३।२७१ रजो विलोक्यते तिर्य- ६।२७३
मितार्थादमितार्थस्य १९।२५७ रम्यकाख्यमुदङ्नीला- ७०।२९९
मूर्ध्नि देवादिदेवस्य ६२।२९६ राक्षसं याक्षगान्धर्वं १४३।३२७
मृत्योः संयमनी तुङ्ग- ४९।२९१ रागोऽथैष्वभिलाषो यो १६।२३६
मोचकस्तत्क्रियाकृच्च १७३।३४१ रुद्रमन्त्रपतीशान- ३।१३४
य रुद्रा गणाः सदिक्पालाः १५९।३३२
यः प्राग्व्यापकः सोऽन्ते २१।८२ रूपं त्रिषु रसोऽम्भःसु २९।२६३
यत्कैवल्यं पुंप्रकृत्योर्वि- २८।९४ रौक्मः किंपुरुषे लक्ष- ९०।३०६
यत्रान्तकालतीक्ष्णांशु- १०।२७५ रौरवध्वान्तशीतोष्ण- १५।२७७
यथा कटादिगूढस्य २१।२०२ ल
यथा क्षारादिना वैद्य- १८।१७५ लक्षद्विद्विगुणा द्वीपाः ३६।२८५
यदनेकमचित्तत्तु ६।१९० लक्षद्विद्विगुणा द्वीपा ९८।३१०
यद्यथा यादृशं याव- २।१०४ लिक्षा यूका यवोऽप्येव- ७।२७४
यद्यनित्यमिदं कार्यं ५।१८९ लोकधीगुरुशास्त्रेभ्यो २८।२२२
या चक्रारुणानुच्चै- ५८।२९४ लोहस्तम्भोऽथ विण्मूत्र- १९।२७८
याज्योऽभूद्वह्निकल्पाना- १०३।३१२ व
यानि व्यञ्जकमीक्षन्ते १५।१४४ वचनादानसंहाद- ८।२४९
यान्विमोचयति स्वापे २।१३३ वर्षायुतायुर्नीलाब्ज- ८२।३०३
७
श्लो० पृ० | श्लो० पृ०
वव्रे तं गौतमः कोपा- १०४।३१२ | वेदेऽस्ति संहिता रौद्री ६।१५
वश्याक्रान्तिस्तत्परिज्ञा- ३०।२२४ | वेधसा निर्मिता लोक- ५६।२९३
वसत्यो नवसाहस्राः २६।२८१ | वेमादिनापनीयाथ २१।२०१
वस्त्रापदाविमुक्ताह- १४०।३२६ | वैभ्राजं वैपुले मूले ७९।३०२
वाणी पाणी भगः पायुः ४।२४७ | व्यञ्जकान्तरसद्भावे १०।२३०
वामं धाम परं गुह्यं १३।११७ | व्यस्तस्याथ समस्तस्य १८०।३४८
वामदेवभवानन्त- १४६।३२८ | श
वायुव्योमहताशाम्बु- २२।२५९ | शक्तावप्येवमित्येष १७६।३४३
वायौर्गन्धवती तुङ्ग- ५२।२९२ | शक्त्याक्रम्य जगत्सूक्ष्मं १८४।३५१
विचक्षणनभोर्लिप्सु- १३४।३२३ | शतकोटिप्रविस्तीर्ण- १२०।३१८
विद्याराज्यस्तु कथिता- १५७।३३२ | शब्दः स्पर्शश्च रूपं च ५।२४७
विद्याविधातृभूतेश- १३३।३२३ | शब्दाद्येकोत्तरगुण- २०।२५७
विद्याव्यक्ताणुचिच्छक्ति- १४।२३४ | शब्दा वाय्वादिषु व्योम्नि २१।२५८
विधत्ते देहसिद्ध्यर्थं २।२०४ | शब्देतरत्वे युगप- ८।१९८
विनाधिकरणेनान्य- ८।१९५ | शब्दैकग्राहकं श्रोत्रं १३।२५२
विनाशलक्षणोऽपैति २६।९२ | शम्भोश्चिदायतुग्राह्यं १३।१७२
विनियोगफलं मुक्ति- ९।५९ | शरीरादेः शरीरादिं १०।१९३
विपर्ययस्तमोयोनि- ७।२२८ | शाकद्वीपादिषु तथा १०७।३१३
विलयो व्युत्क्रमेणैष १८४।३५० | शिवेष्टमन्त्रसृष्टुञ्ज- १८४।३५१
विवक्षायत्नपूर्वेण २६।२४३ | शिवोद्गीर्णमिदं ज्ञानं २७।४५
विशिष्टधर्मसंस्कार- २७।२२२ | शुद्धवल्यम्बुनाथस्य ५१।२९१
विषयानियमादेकं ५।१०७ | शुद्धाध्वन्यपि मायायाः ५।२७३
विष्कम्भशैलाश्चत्वारो ७१।२९९ | शुद्धाशुद्धाध्वनोर्विप्र १९४।३५९
वीरभद्रस्य रुचिम- १४५।३२७ | शैवे सिद्धो माति मूर्ध्नी- २९।९५
वृता नानायुधधरै- १२५।३२० | श्रीकण्ठश्च शिखण्डी च ४।१२२
वृत्तिः प्रणयनं नाम २२।२४१ | श्रोत्रं त्वक्चक्षुषी जिह्वा ३।२४६
वृषो वृषधरोऽनन्तो १३५।३२४ | श्रोत्रवृत्तित्वदस्यापि २५।२६१
वेदान्तसांख्यसदसत् १०।६० | श्वेतो हरिद्राचूर्णाभो ७२।२९९
वेदान्तेष्वेक एवात्मा १२।६४ | ष
| षट्पदार्थपरिज्ञाना- २२।८२
८
श्लो० पृ० | श्लो० पृ०
स | सांख्यज्ञानेऽपि मिथ्यात्वं १५।७१
स इत्थंविग्रहोऽनेन १।१२० | सा परस्यापि धूमोऽन्यो ७।१११
स उदानः शरीरेऽस्मि- २७।२४३ | साफल्यमसदुत्पत्ता- १५।१९६
स तेन रञ्जितो भोग्यं १२।२१० | सा विद्या स्थानमप्यस्या १६९।३३९
स तैः संपूजितः पृष्ट्वा ४।११ | सा शान्तिस्तत्पदं चेति १७०।३३९
सत्तास्वरूपकरणार्थ- १८।१४६ | साहस्रे काञ्चने धाम- ३३।२८४
सत्यं बुद्धिगुणः कर्म १८७।३५२ | सिद्धगन्धर्वमहतां ४६।२८९
सदन्यदसदन्यच्च १८।७८ | सूक्ष्मभूतेषु मन्त्रेशा १९८।३६०
सदप्यभासमानत्वा- ६।५५ | सूच्याग्रकालखण्डाख्य- १६।२७७
सद्योऽणूनां मूर्त्यः १३।११८ | सृष्टिकाले महेशानः २३।४२
सनापदोत्तराः साष्ट- १३९।३२५ | सोऽपि न स्वत एव स्या- १७।१७४
सप्त सप्त समाख्याता- २९।२८२ | सौपार्श्वे धृतिमन्नाम ८०।३०२
समन्ततोऽन्नपानस्य २५।२४३ | स्कन्देन युद्ध्वा सुचिरं १००।३११
स मूर्धसमदेशत्वा- १०।११५ | स्थाण्वष्टकं द्विजश्रेष्ठ १४१।३२६
सर्गमूले तृतीयायां १०।१३९ | स्थानानि यातनाहेतो- १४।२७७
सर्वगत्वान्महेशस्य १९।१७५ | स्थितौ सकारकानेता- १२।१२८
सर्वज्ञः सर्वकर्तृत्व- १३।१४२ | स्थूलः पञ्चकलो नादः १९६।३६०
सर्वज्ञत्वादियोगेऽपि ५।१२३ | स्थूलस्थूलेश्वरौ शङ्कु- १४२।३२६
सर्वस्य सर्वदा सर्वं १८।२३९ | स्याद्वादलाञ्छिताश्चैते १७।७४
सर्वातिशयविश्राम- १६३।३३५ | स्वं रूपं दर्शयामास १८।३९
सर्वाध्ववर्तिभूतानां ११।२७५ | स्वर्गो मुक्तिः प्रकृतित्वा- २९।२२३
सर्वासां फलभूमीनां ९३।३०७ | स्वरूपाश्च ते विप्र १६०।३३२
सर्वेन्द्रियः सर्वतनुः १५०।३२९ | स्वाधिकारविधौ तीक्ष्णा १८४।३२८
ससाधनस्य भोगस्य १५।२१३ | स्वापेऽप्यास्ते बोधयन् १५।१३०
सहस्रद्वयविष्कम्भा ६५।२९७ | स्वापे विपाकमभ्येति ५।१८३
सहस्रयोजनच्छाया- ७३।३०० |
योगपादस्य
श्लोकानुक्रमणी ।
श्लो० पृ० | श्लो० पृ०
अ | तथाप्यभ्यासतः सिद्धाः ५६।३७
अकिञ्चिच्चिन्तकस्यास्य ६२।४२ | तदात्मवत्त्वं योगित्वं २।३
अथानात्मवतां मल्ला १।३ | तद्धर्मयोग्यतां बुद्ध्वा २४।१७
अस्याभ्यासाद्दिव्यसिद्ध्यं- ६५।४५ | तालो द्वादशभिर्जानु- २८।१९
उ | तेनेन्द्रियार्थसंसर्ग- ६।७
उन्मील्य योगसंस्कारं ६१।४१ | द्
ए | द्विव्रती त्रिरपः पीत्वा १६।१३
एषु व्यस्तसमस्तेषु १०।१० | न
क | न तमीष्टे नरः कश्चित् ११।११
किंच व्यस्तसमस्तानां ४०।२६ | नमस्कृत्य महेशान- १८।१५
किमु चित्रं वपुर्दान्तै ५८।३९ | न शक्यं विस्तराद्वक्तुं १४।१२
कुम्भको रेचकश्चेष्टो २७।१८ | नाधिकृत्याविरक्तान्नून् ५७।३८
क्रमशः शक्ततामेति २१।१६ | नामेधिने नातपसे ६५।४४
क्षित्यादीन्यथ तत्त्वानि ३२।२२ | निवृत्तेर्मनसो हेतुः १२।११
च | प
चिन्ता तद्विषया ध्यानं ७।७ | पद्माम्बुकण्टकासङ्गो ४९।३१
| परिज्ञायेति मतिमान् ४४।२८
ज | पाष्णिभ्यां वृषणौ रक्षन् १९।१५
जपस्तल्लक्षणं ध्येय- ८।८ | पुष्टिमृत्युजयाद्यर्थे २५।१८
जयः प्रणयनादीनां ४६।३० | पूरकः स तदभ्यासा- २२।१७
जलं पिपासितः कण्ठे ४१।२७ | पोतः पितॄणां यः शश्व- ३१।२२
जहाति जन्तुर्यः प्राणान् ५४।३६ | प्राणायामः प्रत्याहारो ३।५
जितापनयनोऽक्षाति ४७।३१ | प्राणः प्रागुदितो वायु- ४।५
जितासु तासु किंच स्यात् ४५।३० | प्राप्नोति धारणाशब्दं ३५।२४
त | भ
ततः सुखलवास्वादे ५।६ | भवन्ति वज्रकज्वाला- ३८।२५
तत्र तत्रास्ति चिच्छक्ति- ५२।३४ | मूत्राद्युत्सृज्य विधिव- १५।१३
२
श्लो० पृ० | शैवं वपुरिति ध्याये- श्लो० पृ० ३३।२३
य | स
यत्प्राप्य न पुनर्दुःख- ६३।४२ | सगर्भं कुम्भकं विद्वा- ३४।२३
यत्रोपरमते चित्तं ६०।४० | समभ्यस्यन्नवाप्नोति ५१।३३
यथा सगर्भः स्थैर्याय २९।२० | समाधिरणिमादीनां ५०।३३
यदा वेत्ति पदं हेय- ९।९ | समानवृत्तिविजया- ४८।३१
योगी व्यक्तसमस्तानि ३९।२६ | सर्वदा सर्वभूतानां ५९।४०
रेचयेच्छक्तिपर्यन्तं २०।१५ | सर्वान्पदार्थान् संत्यज्य ५३।३४
रोधशक्तिस्तदभ्यासा- २३।१७ | साक्षादालोचनं शम्भो- ६४।४४
व | स्तोभोन्मादविषोद्दीप्ति- २६।१८
वार्यग्नी भूमिपवनौ ४३।२८ | स्थानं प्राथमिकस्येमा- ३६।२४
विषयाभिभवे व्योम ४२।२७ | ह
विस्तरेण सुरश्रेष्ठ १३।१२ | हन्त्यगर्भोऽपि देवानां ३०।२१
वैद्यर्धमण्डलत्र्यस्र- ३७।२५ | हितजीर्णाशनस्वस्थ- १७।१४
वैचित्र्यात्कल्पितं भ्रान्त्यै ५५।३६ |
विद्यापादे
शुद्धयः ।
─── • ───
पृ० पं० अशुद्धिः शुद्धिः
६ ६ गति यति
१३ १० यैवामिहितो यैव विहितो
१५ १५ च श्रद्दधान चाश्रद्दधान
१९ २ रूपत्वे विरु रूपत्वे [अवस्तुत्वात् न कि
ञ्चन तत्त्वं तस्याः । उभय-
रूपत्वे] विरु
३१ १८ अर्थक्रियामिति अर्थक्रियार्थमिति
३३ १२ चार्धजरतीय न्चार्धजरतीय
३७ ४ क्रोडीकृतो हि पाशेन क्रोडीकृतोऽहिपाशेन
४१ ६ आह किं पप्रच्छेत्याह
४३ १६ त्वागमापगमात् आवरणापगमात्
४६ ७ तेभ्य आगमम्य तेभ्योऽवगम्य
४७ ५ कुलं क्रमं कुलं संक्रमं
५९ ४-५ भवति आत्मनामिति प्रतिप भवतीति प्रतिपाद
६० १ तेन भुक्ति ते भुक्ति
६२ ७ पुंस्प्रतिबद्धा पुंसतिबन्धा
६४ १४ सत्त्वात्मनि शान्त उपाधौ सत्त्वात्मनि उपाधौ
” १५ ले तु भगवानिव ले तु रागवानिव
७३ ३ कारणादिसंब करणादिसंब
७४ ११ गुल्मादि गुल्मलतादि
७७ १८ घटः पटात्मना न भवति घटो घटात्मना भवति
७९ ६ नुवृत्तिर्न स्यात् नुवृत्तिः स्यात्
८० १६ अथ चेत्तदसद्भावे अथ चेत्सदसद्भावः
. सद्युक्ततरो यतः । सदायुक्ततरो मतः ।
८२ ९ विधधर्मस्य विधमस्य
८३ ९ षण्णा षण्णां
९१ ७ यस्यानुभव योऽनुभव
९६ १७ किंचिदेव कंचिदेव
४ सू०
२
पृ० पं० अशुद्धिः शुद्धिः
१०४ ६ यया विचि यथा विचि
११६ ९ सोऽस्य घोरः सोऽस्या घोरः
,, १२ शिवो अघोरः शिवो
१२१ ३ नात्मना न शक्त्यात्मना
१३८ १८ ईषदर्थं ईषदर्थ
१३९ ४ निवृत्ते मनाक् निवृत्तेऽर्धन्निवृत्ते मनाग्
१५१ ३ च न प्रयोजनं च प्रयोजनं
१५५ ११ यद्यचेषि यद्यवैषि
१७८ ९ एव ते एव सः
१८० १२ श्रवत्वं श्रवस्त्वं
१८१ १६ ईशविद्या ईशाविद्या
१८२ १६ मातृत्वेन धातृत्वेन
१८३ ६ यद्भाध्यातम् यद्भास्म
१९३ ९ कारणेन कृसे कारणेन कृत्स्नेन
१९५ ५ तस्य क्रमिकां तस्य अक्रमिकां
२२० ७ वैरागयवि अवैराग्यवि
२२३ विनयप्रा वैनयप्रा
२२५ ११ प्रविभागशः धर्मशः या विभागशः या
२२७ ८ त्त्यादिप्रका क्त्यादिप्रका
२५४ ११ तेजोद्रव्यं पृथ्वि तेजो द्रव्यमब्द्रव्यं पृथ्वि
२७८ ४ नरकमित्याख्या नरक इत्याख्या
२८१ १४ द्वादशकललक्ष द्वादशलक्ष
२९० ३ मेखला मेखला तस्यामित्यर्थः ।
अन्यत् स्पष्टमित्यर्थः ॥
२९० ३ 'तस्यामष्टसु शृङ्गेषु पुर्योऽष्टौ समवस्थिताः।'
इति टीकामिश्रितं श्लोकार्थं मूलतया परिज्ञेयम् ।
२९० १८ निषेविता इति मूलश्लोकानन्तरं 'गोपुरं द्वारशाला,
वह्नितुल्यैस्तत्सदृशप्रभावद्भिर्भूतैः सेविता' इति टीका अद्धा ।
२९१ ५ समूहः समूहा
२९४ १८ प्रवृत्तिनिवृत्तीति प्रवृत्तिर्निवर्तत इति
२९५ ५ महायोगेश्वरैः महायोगीश्वरं
३
पृ० पं० अशुद्धिः शुद्धिः
२९५ ११ प्रणयना प्रणिधानानि
२९६ २ शादिगणेश्वराः शादिगणावराः
२९९ १२ ६९,७० तमयोः श्लोकयोः
'निषधहेमकूटहिमाद्रिभ्यो दक्षिणभागस्थानि हरि-
किंपुरुषभारताख्यानि वर्षाणि । एवं नीलश्वेतशृङ्गवद्भ्य
उत्तरे रम्यकहिरण्यवत्कुरुवर्षाणि' इति टीका पतिता
३१३ १ तन्मेदच्छन्न तन्मेदश्छन्न
३१६ ६ गर्भादेति गर्मादेति
३१७ ९ सत्याधिप सत्यधियः
३१८ ६ सप्तकल्पा प्राप्तकल्पा
" ७ कोट्यच्छ्रि स्रोव्युच्छ्रि
" १७ स्रोतः समा स्रोतःसु मा
३१९ १३ सोमपक्षेशा सोमयक्षेशा
३२५ १६ वायुतत्त्वे ॥ वायुतत्त्वे गुह्याद्गुह्याष्ट-
कमेतत्' ॥
३३० १२ भुवनाधिपतयः मण्डलाधिपतयः
३३३ १३ निश्वासकारिकादीनि निश्वासकामिकादीनि
३३४ ६ सर्वात्मसुशिवज्वा सर्वात्मशिरोज्वा
३५० ८ सहस्रगणनया सहस्रादिगणनया
३५६ ८ सूच्यमेद्यै सूचिमेद्यै
" १२ प्येषां वक्तुं प्येषां कर्तुं
३५७ ५ प्रागुक्तनयेन प्रागुक्तमानेन
३६० १० निधिबिन्दु निधिर्बिन्दु.
योगपादे
शुद्धयः।
पृ० पं० अशुद्धिः शुद्धिः
२ ५ पुत्रादिना पुत्रकादिना
,, १६ पुत्रस्य पुत्रकस्य
३ ८ पुत्रसमयि पुत्रकसमयि
१७ ३ प्रकर्षणे प्रकर्षेण
३१ १५ मने चिते मने जिते
,, १६ कण्ठकास कण्टकास
४० ७ देष्ट्रं भूमिकां विरचयति । देष्टुं भूमिकां विरचयति
अथ
श्रीमृगेन्द्रतन्त्रे ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते ।
विद्यापादे ।
( प्रथमः पटलः )
चन्द्रार्धचूडचरणाब्जयुगं प्रणम्य
वागीश्वरीं गणपतिं क्रमशो गुरूँश्च ।
लेशाद्यथामति यथागमयुक्ति गूढं
श्रीमन्मृगेन्द्रपरमार्थमहं व्यनज्मि ॥ १ ॥
केचित्स्वबोधविभवप्रथनाय ताव-
दूर्जन्त्यहो बत न यत्प्रकृतोपयोगि ।
अन्ये पुनः पटुधियो न विवेचयन्ति
स्पष्टार्थमेतदिति तत्तदुपेक्षमाणाः ॥ २ ॥
संक्षेपतः प्रकृतवस्तु परिस्फुटं ये
व्याचक्षते पदपदार्थसमन्वयेन ।
१ चन्द्रस्य अर्धं चन्द्रार्धं, चन्द्रार्धं चूडायां यस्य स चन्द्रार्धचूडः, तस्य
चरणाब्जयुगम् ।
२ मृगेन्द्रतन्त्रे । [ १।१
प्रायः कुशाग्रमतिभिस्त इहाद्रियन्ते
व्याख्याकृतो विफलवि१स्तरभीरुभिश्च ॥ ३ ॥
साक्षाच्छ्रीकण्ठनाथादिव सुकृतिजना-
नुग्रहायावतीर्णा-
च्छ्रुत्वा श्रीरामकण्ठाच्छिवमतकमलो-
न्मीलनप्रौढभास्वान् ।
श्रीविद्याकण्ठभट्टस्तदिदमुपदिशं२-
न्नादिदेशैकदा मां
स्पष्टार्थमत्र लघ्वीं विरचय विवृतिं
वत्स सर्वोपयोग्याम् ॥ ४ ॥
उपर्युपर्य्येव कृतानि कैश्चि-
न्मतान्तराणां हि निबन्धनानि ।
३नोद्भिन्नमुद्रं त्विदमद्ययावत्
तस्माद्गुरुर्मामिदमन्वशात्सः ॥ ५ ॥
तेनाहमस्यां विवृतौ प्रवृत्तो
नोल्लङ्घनीया हि गुरोरनुज्ञा ।
यदृच्छया कोऽतिगभीरशब्दं
[L1
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते । ३ :
दिनकृत इव १दोषापह्नवैकप्रवृत्ता-
स्तदपि विबुधमुख्याः २स्पष्टयन्तः क्षमन्ताम् ॥७॥
अतः परं प्रवर्तन्तां वृत्तयोऽप्युत्तरोत्तराः ।
प्राग्ज्वालितात्प्रदीपाद्विशिखरा दीपसन्ततिः ॥ ८॥
‘अथानादिमलापेतः’ इत्यादि तत्तन्त्रम् । य-
त्पुनः ‘परमेशं नमस्कृत्य’ इत्याद्युपोद्घातप्रक-
रणं, तत् संबन्धाभिधेयप्रयोजनतन्त्रावतारक्रम-
निदर्शनार्थम् । पुरा खलु तत्रभगवान् भरद्वाज-
शिष्यः समधिगतसकलवेदशास्त्रार्थसतत्त्वो मु-
निर्हारीतनामा शिवशक्त्युन्मुखीकृतचेतोभिः
समासादितदीक्षैर्ज्ञानक्रियाचर्यायोगजिज्ञासु-
भिर्नैमिषारण्यवासिभिस्तपोधनैः कृतप्रणामा-
ञ्जलिभिरूर्ध्वस्रोतःप्रसृतं श्रीमत्कामिकभेदं
मृगेन्द्रोत्तरसंज्ञकं पृष्टः । स तान् शिष्यगुणो-
पपन्नान्दृष्ट्वा परमेश्वरादिप्रणामपूर्वकमिदमा-
हेति हारीतशिष्यस्तत्प्रशिष्यो वा स्वगुरूक्तम-
नुकुर्वन्स्वशिष्यानिदमवदत्
१ दोषाणामपह्नवः दोषापह्नवः, एकं मुख्यं, प्रवृत्ताः एकप्रवृत्ताः, दोषाप-
ह्नवे एकप्रवृत्ताः दोषापह्नवैकप्रवृत्ताः । २ स्पष्टीकुर्वन्तः ।
४ मृगेन्द्रतन्त्रे । [ १।१
परमेशं नमस्कृत्य
भरद्वाजमृषिं ततः ।
हरादिन्द्रक्रमायातं
ज्ञानं शृणुत सुव्रताः ॥ १ ॥
हे सुव्रताः परमेश्वरभक्तिप्रकर्षपरिपोषित-
शोभातिशयत्वात् सुष्ठु शोभनं व्रतं शास्त्री-
यनियमानुष्ठानं येषां, त एव श्रोतारः संबो-
धिताः । यद्वक्ष्यत्युपसंहारे
‘भवत्सु शिवशीतांशुज्योत्स्नापाण्डुष्विदं मया ।
तदिच्छया मयैवोक्तं...................॥’
इति । हरादिन्द्रक्रमायातं ज्ञानं शृणुत आक-
र्णयतेति संबन्धः ।
‘हरति पशुभ्यः पाशान्पुंसोऽप्यूर्ध्वं पदं ततस्तु हरः ।’
इति यद्यपि यौगिकीयं संज्ञा अनन्तेशादि-
ष्वपि सामान्या, तथापि इन्द्रशब्दसंनिधेरिहो-
मापतावेव हरशब्दो ज्ञेयः । यथाहुः
‘अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ।
प्रोक्ताः सामान्यशब्दानां विशेषस्थितिहेतवः ॥’
इति । कुत एतदिति चेत् यस्मादैन्द्रे अस्मिन्
श्रीमद्भट्टनारायणकण्ठविरचितवृत्त्युपेते। ५
कामिकभेदे भगवत उमापतेर्वक्तृत्वेन इन्द्रस्य
च श्रोतृत्वेनैव संबन्धः प्रतीतः। तथाहि पुर-
स्तादिहैव मुनीनामिन्द्रो वक्ष्यति
'शिवोदीर्णमिदं ज्ञानं मंत्रमन्त्रेश्वरेश्वरैः ।
कामदत्वात्कामिकेति प्रगीतं बहुविस्तरम् ॥
तेभ्योऽवगत्य दृग्ज्योतिर्ज्वालालीढस्मरद्रुमः।
ददावुमापतिर्मह्यं....................॥' (१।२७)
इति। तस्माच्छरात् श्रीकण्ठनाथात् इन्द्रादिक्र-
मेण आयातमिति अवतीर्णम्। किं तत्। ज्ञायन्ते
अनेन विद्याचर्याक्रियायोगा इति ज्ञानं शास्त्रम्।
किं कृत्वा शृणुत। परमेश्वरं नमस्कृत्य सृष्टि-
स्थितिसंक्षोभणादिभिश्चिदचिल्लक्षणं विश्वमीष्टे
इतीशः, ईदृक्त्वं चानन्तेशादीनामप्यस्तीति
परमपदेन विशेषणम्। परमश्चासावन्येषां तद-
नुग्रहतः शिवत्वाभिव्यक्तेः ईशश्च स्वातन्त्र्येण
स्थित्यादिकरणात् परमेशः, तं नमस्कृत्य काय-
वाङ्मनोभिस्तस्मिन्प्रह्वीभूय । तत इत्यनन्तरं,
तन्त्रावतारकं भरद्वाजं ²ऋषिमिति ऋ गताविति
१. विद्यातत्त्वाधिकारिणः सप्त कोटयो मन्त्राः, तदात्मका देवा मन्त्रेश्वराः
अनन्तादयः ईश्वरतत्त्वाधिकारिणः, ईश्वरः सदाशिवः सदाशिवतत्त्वाधिकारी।
२ ऋच्छति जानाति इति ऋषिः ।
धात्वर्थतः सर्वेषां च गत्यर्थानां ज्ञानार्थत्वाद-
वगतपरमार्थतया ऋषिः, तं नमस्कृत्य शृणुतेति
श्रोतॄणां नमस्कारोपदेशः । अनमस्कृतपरमे-
श्वराणां अप्रणतगुरूणां च निर्विघ्नसंहिताधि-
गमनासंभवात् । यश्च श्रोतृजनमेवं शिक्ष-
यति, सोऽर्थात्कृततथाविधविधिः प्रवृत्त इति
गम्यते । तेन यथा परमेश्वरं गुरुं च नुत्वा-
ऽहमुपदेष्टुं प्रवृत्तस्तथा यूयमपि प्रवर्तध्वमिति
व्यवस्थितम् । यथाचैतदिन्द्रस्योमापतिना
उपदिष्टं, तद्ग्रन्थपरिसमाप्तौ यद्यपि ग्रन्थे
एवास्ति, तथापि व्याख्यानोपक्रमे संबन्धादे-
रवश्याभिधेयत्वात् किंचिदुच्यते । कदाचिदति-
रुचिररत्नप्रकरविनिचितकनकमयकमनीयमही-
तलमनोहरसप्तमजलधितटविहरणहेवाकिनं
नीलोपलत्विषं चतुर्भुजं द्विकन्धराधरं मुखद्व-
येन वेदाध्ययनसुरापानसंकरकारिणं असुरनि-
वहपरिवृतं दुर्मदं महासुरं त्रिदशपतिरपश्यत् ।
अथ तथाविधदुराचारदर्शनजनितकोपाकुलि-
तमुनिगणसहितः शतक्रतुरक्षममाणो लब्ध-
१ हेवाकिनं चतुरम् ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ७
वरत्वात् प्रसभमस्त्रैरवध्यतामस्य बुद्ध्वा, फेने-
नान्तर्निहितवज्रेण असुरस्य शिरोद्वयं चि-
च्छेद । तद्व्यापादनतश्च ब्रह्महत्याजनितमघमा-
शङ्कमानस्तत्प्रशान्तये भगवन्तमच्युतं नाम्नां
सहस्रेण ऋग्यजुःसामभिश्चास्तौषीत् । प्रसन्नेन
च हरिणा नवोदितभास्वद्भास्वरं सर्वभूता-
भिभावुकं नारसिंहं कवचं प्रयच्छता प्रोक्तम् ।
यथैतत्संनद्धदेहस्त्वमुत्तरकुरुषु भगवन्तं पि-
नाकिनमाराधय, वर्षसहस्रान्ते च तं दृष्ट्वाभि-
मतमासादयिष्यसि इत्युक्त्वा अन्तर्हिते मुरारौ
सर्वं तदिन्द्रेण कृतम् । अथ प्रत्यक्षीभूते
भगवति पिनाकिनि निखिलदुःखान्तश्चास्य
संजातः। श्रीमत्कामिकाख्यं चास्मै परमेश्वर उप-
दिदेश । यतश्चेन्द्रस्य नृसिंहरूपिणः समुपदि-
ष्टमिदमुमापतिना, ततो मृगेन्द्रस्य श्रोतृत्वान्-
न्मृगेन्द्रसंज्ञया प्रथितम् । संबन्धस्त्वत्र षट्प्र-
कारः परादिः । तथाहि—सर्गादौ परमेश्वरः
ऊर्ध्वप्राग्दक्षिणोत्तरपश्चिमस्रोतःपञ्चकभेदभिन्नं
ज्ञानं स्वेच्छानुगृहीतविद्येश्वराष्टकप्रबोधनानन्तरं
१ प्रलये ये मुक्ताः स्थिताः अनन्तादयः, तेषां बोधनानन्तरम् ।
तदभिव्यक्तं मन्त्रेश्वरादिभ्यो वक्ष्यमाणवदादि-
देश । तथा चोक्तं श्रीमत्किरणे
'सृष्ट्यनन्तरमेवेशः शिवान्दृष्ट्वा दशात्मजान् ।
ज्ञानमेकं विभज्याशु तेषां तत्संख्ययावदत् ॥
कामिकं प्रणवाख्यस्य शिवार्वयस्य तु योगजम् ।'
इत्यादि । अत्र चात्मजानिति आत्मनैव
निरधिकरणेनानुग्रहेणानुगृहीतानित्याशयः । ते-
भ्य उमापतिः प्राप, तस्माच्च शक्रः, ततोऽपि
भरद्वाजः, तत्सकाशात्तु हारीतः । स पुनः स्व-
शिष्येभ्यः प्राहोति पुरस्तात्सर्वं स्पष्टीकरिष्यामः।
अभिधेयाश्चेह ज्ञानक्रियायोगचर्याः । प्रयोजनं
त्वत्र तत्त्वज्ञप्तिः । तत्प्रयोजनमपि भुक्तिमुक्ती ।
परमेश्वरसद्भावप्रसाधकप्रमाणोपन्यासस्तद्बाध-
कनिराकरणं च यद्यपि तत्प्रणीतागमप्रामा-
ण्यसाधनाय प्रथममेवोपयुज्यते, तथापि शास्त्र-
कारेणैव अग्रे तद्विवेचितमतस्तत्रैव वक्ष्यामः ।
केवलमेतावदेवेह प्रतिजानीमहे । यदुक्तं
'आयुर्वेदाच्च गणितान्मन्त्रवादाच्च स्वरात् ।
रसोपनिषदाटोपादाप्तः स परिगृह्यते ॥'
१ अमुकौषधेनामुकरोगो नश्यति, -इत्यायुर्वेदेनेश्वरप्रणीतेन । गणितेन
सूर्यादिग्रहणज्ञानम् । मन्त्रवादात् मन्त्राभिजप्तपानीयादिताडनादिना भूतादि-
नाशः । स्वरात् गान्धर्वविद्यया मेघदीपाद्युत्पत्तिः । रसोपनिषदाटोपात् धातु-
वादात् सुवर्णाद्युत्पत्तिः-इत्यायुर्वेदादिना ईश्वरः सिद्धः ।
[Header] श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ९
इति, तच्चाप्तत्वं सा¹ञ्जनत्वादसर्वार्थदृशां दर्शना-
न्तरप्रणेतॄणां स्वस्वविषयमेव, नित्यनिर्मलनिर-
तिशयसर्वार्थज्ञानक्रियाशक्तेस्तु सर्वदा सर्वानु-
ग्रहप्रवृत्तस्य परमेश्वरत्वादेव सर्वाधिष्ठातुः सर्व-
विषयम् । एवं विविधविशेषणविशिष्टस्य वक्तु-
र्विप्रलम्भकत्वासंभवान्नाप्रामाण्यम् । एतच्च
यथावसरं वक्ष्यामः । तदेवमीदृग्रूपो भगवान्
आगमस्य कर्ता । आगमस्तु तं ज्ञापयति ।
अतश्च द्वयोरपि वि²सदृशक्रियत्वान्नात्रेतेरेतरा-
श्रयदोषः स्यात् । यथा कश्चिदेवं वक्ति देव-
दत्तोऽहमायात इति । तद्वाक्यश्रवणाच्च तद-
न्ये मन्यन्ते हन्त देवदत्तोऽयमायात इति ।
न चात्र देवदत्तस्य तद्वाक्यस्य चेतरेतराश्र-
यत्वं युक्तम् । ³तदुक्तेषु च दृष्टार्थेषु विष⁴भूतर-
सवादादिषु तदा⁵गमस्य फलवत्त्वमुपलभ्या-
दृष्टार्थस्यापि तच्छासनस्यावितथत्वमनुमीयते
इत्यलमनेन, प्रकृतमनुसरामः ॥ १ ॥
१ अविद्यावृत्तत्वात् । २ विजातीयक्रियत्वात् । ३ ईश्वरोक्तेषु । ४ गरु-
डादिमन्त्रा विषभूतादिनाशकाः । ५ ईश्वरागमस्य ।
२
१० मृगेन्द्रतन्त्रे । [ १।१
तदेवं हारीतमुनिः स्वशिष्याणां ज्ञानोप-
देशं प्रतिज्ञाय इन्द्रक्रमायातत्वं दर्शयितुमाह
नारायणाश्रमे पुण्ये
भरद्वाजादयो द्विजाः ।
तेपुः शिवं प्रतिष्ठाप्य
तदेकाहितमानसाः ॥ २ ॥
बदर्याश्रमनाम्नि विष्णोराश्रमे तदाश्रम-
त्वादेव पावने भरद्वाजप्रभृतयो मुनयस्तेपु-
रिति संबन्धः । भरद्वाजादीनामृषीणामद्वि-
जत्वप्रसिद्ध्यसंभवात् द्विजा इति विशेषणं वा-
गीश्वरीगर्भसंयोजनसंजननादिना कृतदीक्षा-
त्वेनोत्कर्षवत्त्वं न पुनरुपनीतत्वमात्रं स्मार्तं-
वद्विजशब्देनेष्टमदीक्षितानां तन्त्रादिश्रवणान-
धिकारात् प्रत्युत प्रत्यवायश्रुतेः । शिवं
प्रतिष्ठाप्येति लोहबाणलिङ्गादावाधारे सामा-
न्यमन्त्रादिना परमेश्वरप्रतिष्ठापनं परिकल्प्ये-
त्याशयः, अन्यथा यथावद्विदिततत्तद्विधानानां
पुरस्तात्प्रतिष्ठादिविषयस्य प्रश्नस्यानुपपत्तेः । त-
१ प्रथमं तु सामान्यमन्त्रविधिना शिवस्थापनं कृतं, तदुत्तरं विशेषप्रति-
ष्ठाजिज्ञासया विशेषप्रश्नानपि करिष्यन्ति ।
श्रीभट्टनारायणकण्ठविरचितवृत्त्युपेते । ११
स्मिन्नेवैकस्मिन्नाहितमेकाग्रीकृतं मानसं यैस्ते
तथाविधाः सन्तः तेपुः शिवाराधनलक्षणं तप-
श्चकुरित्यर्थः ॥ २ ॥
अथ तान्भावितान्मत्वा
कदाचित्त्रिदशाधिपः ।
तदाश्रमपदं भेजे
स्वयं तापसवेषभृत् ॥ ३ ॥
अनन्तरं च तान् भावितान् तत्रश्रद्धालून्
ज्ञात्वा कस्मिंश्चित्काले मुनिरूपधारी शक्रः त-
दीयमाश्रमं सिषेवे ॥ ३ ॥
ततश्च
स तैः संपूजितः पृष्ट्वा
तांश्च सर्वाननामयम् ।
प्रोवाच चोदनाधर्मः
किमर्थं नानुवर्त्यते ॥ ४ ॥
स इन्द्रस्तैर्भरद्वाजादिभिराश्रमसमुचिते-
नातिथिसत्कारेणाभ्यर्चितस्तान् भरद्वाजादीन्
प्रत्येकं कुशलं पृष्ट्वाब्रवीत् । किं तदित्यत आह
चोदनाधर्मः किमर्थं नानुवर्त्यत इति । चोद्-