सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 575, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 575

२४ ] प्रथमाध्याये तृतीयपादः '२१
'तद्दध्नो दधित्त्वम्' इत्येवमादीनि हि वैदिकार्थवादान्तर्गतान्येव हि निरुक्त-
व्याकरणादीनि । तैः सह विधायको वेदोऽध्येतव्य इति स्मृत्यर्थो भवेत् ।
प्रातिशाख्यपरत्वेन तृतीयं व्याख्यानम्
प्रातिशाख्यानि वा यानि स्वाध्यायवदधीयते ।
गृह्यमाणतदर्थत्वादङ्गत्त्वं तेषु वा स्थितम् ॥ ७५९
व्याकरणस्य प्रयोगशास्त्रत्वमाशंकानिरासौ
यानि हि वेदव्यापारपराण्येव, तेषु लिङ्गेन शक्यमङ्गत्त्वमध्यवसातुम् । नतु
कतिपयस्पृष्टवेदवाक्योदाहरणच्छद्ममात्रेषु पाणिनिप्रभृतिप्रणीतेषु प्रातिशाख्यानीव
प्रयोगशास्त्राणीति चेत् । ने । तेषां पदस्वरूपेष्वेव व्यापारात् । पाणिनीयादिषु हि
वेदस्वरूपवर्जितानि पदान्येव संस्कृत्य संस्कृत्योत्सृज्यन्ते । प्रातिशाख्यैः
पुनर्वेदसंहिताध्ययनानुगतस्वरसन्धिप्रयत्नविवृतिपूर्वाङ्गपराङ्गाद्यनुसरणाद्भेदाङ्गत्व-
माविष्कृतम् ।
पूर्वोक्तेनानुसंधानमागमस्य च नास्ति ते ।
आगमोऽध्ययनप्रायः प्राक्च शब्दानुशासनम् ॥ ७६०
ब्राह्मणेन निष्कारणो धर्मः षडङ्गो वेदोऽध्येय' इति विहिते ज्ञाने धर्मः,
शास्त्रपूर्वप्रयोगेऽभ्युदय इति च व्याहताभिधानम् ।
व्याकरणस्य शब्दापशब्दज्ञानं प्रयोजनमित्यस्य निरासः
यदपि च शब्दापशब्दज्ञानलाघवं प्रयोजनत्वेनोपदिष्टम्, तत् निराकृतप्रयोज-
नान्तरस्य लाघवमात्रमेवावशिष्यते - इति सत्यमेवोक्तम् ।
गौरवस्यैवोपचारेण लाघवकथनमिति उपहासकथनम्
यदि वा गौरवस्यैव लघुत्वमुपचर्यते ।
विपर्ययापदेशेन शूर कातरशब्दवत् ॥ ७६१
लोकप्रसिद्धानामेव शब्दानामत्यन्तविषमधातुग्गणोणादिसूत्रादिभिरलौकिक-
संज्ञा-परिभाषानिबद्धप्रक्रियैरनवस्थितस्थापनाक्षेपसिद्धान्तविचारैः क्लेशेनान्तं
गत्वा यथावस्थितानुवादमात्रमेव क्रियते । तत्रापि चोदाहरणव्यतिरिक्तेषु कस्य-
चिदेव लक्षणयोजनसामर्थ्यं दृश्यते । तेनात्यन्तगुरुः सन्नयमुपायस्तुत्यर्थमेव लघु-
रित्युपचरितः ।
भर्तृहरिणा वाक्यपदीयेऽभिहितस्यार्थस्य निरासः
यदपि केनचिदुक्तम्-
तत्त्वावबोधः शब्दानां नास्ति व्याकरणादृते ॥ इति । ७६२
तद्रूपरसगन्धस्पर्शेष्वपि वक्तव्यमासीत् ।
१ म. भा. पस्पशाह्निके ।