मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 576, कुल 804 में से
संदर्भ में पढ़ें५२२ मीमांसादर्शनम् [ सू०
को हि प्रत्यक्षगम्येऽर्थे शास्त्रतत्त्वावधारणम् ।
शास्त्रलोकस्वभावज्ञ ईदृशं वक्तुमर्हति ॥ ७६३
अत एवं श्लोकस्योत्तरार्धं वक्तव्यम् ।
तत्त्वावबोधः शब्दानां नास्ति श्रोत्रेन्द्रियादृते ॥ इति । ७६४
न ह्यत्र कश्चिद्विप्रतिपद्यते, बधिरैश्चैवमदृष्टत्वात् ।
पञ्चमस्यासन्देहप्रयोजनस्य निरासः
असन्देहश्च वेदार्थे यदप्युक्तं प्रयोजनम् ।
तदप्यसद्यतो नास्मात्पदवाक्यार्थनिर्णयौ ॥ ७६५
यतः पदार्थसन्देहास्तावद्बहवो वृद्धव्यवहारादेव निवर्तन्ते । शेषाश्च निगम-
निरुक्त-कल्पसूत्र-तर्काभियुक्तेभ्यः सर्वेषामर्थप्रतिपादनपरत्वात् । व्याकरणेन पुनर-
तन्त्रीकृत्यार्थं पदस्वरूपमात्रेऽन्वाख्यायमाने दूरादपेतमेवार्थज्ञानम् । तथा हि—
धातुभ्यः कल्पिते नाम्नि क्रियायोगोऽनुगम्यते ।
न चाभिधानवेलायां तत्प्रतीतिर्मनागपि ॥ ७६६
‘गमेर्डो’ ( उ० सू० २३५ ) इत्येतद्व्युत्पत्त्यनुसारी हि गन्तृमात्रमेव गोशब्द-
वाच्यमध्यस्येत् । जातिशब्दश्चायं वृद्धव्यवहारेऽवस्थितः । यत्र प्रसिद्धस्त-
त्रान्वाख्यातव्यः ।
तथा च—
कुशलोदारशब्दादेर्यवित्यनुगमस्थितः ।
न तावत्येव शब्दार्थप्रसिद्धिर्व्यवतिष्ठते ॥ ७६७
अश्वकर्णादिकर्णादौ समासानुगमे सति ।
अपेतावयवार्थोऽर्थो दृश्यते वृत्तशब्दवत् ॥ ७६८
एवं राजन्यशब्दादेरयतत्त्वाद्यनादरः ।
व्याक्रियाविपरीतोऽपि स्थितो लोकप्रसिद्धितः ॥ ७६९
वेदविरुद्धार्थे व्याकरणस्याप्रामाण्यमिति प्रतिपादनम्
तथा वेदविरुद्धेऽर्थे दृष्टं शब्दानुशासनम् ।
तत्तथा यदि गृह्येत वेदाङ्गत्वं विरुध्यते ॥ ७७०
‘कलेर्ढक्’ (पा० सू० ४-२-८-) ‘वामदेवाड्ड्यौ’ (पा० सू० ४-२-९) इति
कलिवामदेवदृष्टसामाभिधानप्रतिपत्तिर्व्याकरणस्य भवति । वेदे तु ‘ततो वसु
वामं समभवत्, तस्माद्द्वात्रदेवत्यम्’ । ‘यदकालयत्, तत्कालेयस्य कालेयत्वम्’
इत्याद्यर्थव्युत्पत्तिदर्शनं व्याकरणानुसारिणीं प्रतिपत्तिं बाधंत ।