मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 574, कुल 804 में से
संदर्भ में पढ़ें५२० मीमांसादर्शनम् [ सू०
निष्कारणषडङ्गवेदाध्ययनोपन्यासेन हि सुतरां व्याकरणस्य निष्प्रयोजनत्व-
मुक्तम् ।
आगमो वेदवाक्याच्च नान्यः कश्चन विद्यते ।
कथं चाऽऽदिमतां सिध्येद्वेदेनाऽनादिना विधिः ॥ ७५०
तस्मात् 'स्वाध्यायोऽध्येतव्यः' इत्येतत्केवलवेदाध्ययनविधानं शतपथादिषु
दृष्टम्, उपपन्नं च, निःस्यार्थालम्बनत्वात् । व्याकरणाद्यङ्गाध्ययनविधानं पुनर्न
कस्यांचिच्छाखायां श्रूयते । न चाऽऽदिमदर्थविषयं सदनादित्वाधीनं वेदत्वम्,
प्रमाणत्वं वा लभते ।
न चं वेदाङ्गभावोऽपि कश्चिद् व्याकरणं प्रति ।
तादर्थ्यनियवाभावाद् बुद्धादिवचनेष्विव ॥ ७५१
श्रुतिलिङ्गादिभिस्तावत्तादर्थ्यं नास्य गम्यते ।
अकृत्रिमस्य वा कश्चित्कृत्रिमोऽवयवः कथम् ॥ ७५२
आगमस्य श्रुत्याद्यङ्गताबोधकप्रमाणपरत्वेन व्याख्यानम्
तस्मादवयवविषयमेवैतदेदं वर्णयितव्यम् ।
षडङ्गो वेद इत्युक्तं श्रुतिलिङ्गाद्यपेक्षया ।
तैः षड्भिः प्रविभक्तः सन् स हि कर्मविबोधनः ॥ ७५३
ननु बाह्याङ्गानपेक्षत्वे वेदस्वरुपान्तर्गतश्रुत्याद्यपेक्षया विशेषणमनर्थकं
प्रसज्यते ।
तथा हि—सम्भवव्यभिचाराभ्यां स्याद्विशेषणसम्भवः ।
श्रुत्याद्यव्यभिचारात्तु तैरङ्गैः किं विशेष्यते ॥ ७५४
उच्यते—यस्तानि प्रविभक्तानि हेतुरूपफलैः पृथक् ।
ज्ञात्वाऽधीते स एवाऽस्य विधेरर्थं करोति नः ॥ ७५५
अधिगन्तव्य इत्येतदध्येय इति चोच्यते ।
तेन श्रुत्यादिमान्वेद्यो वेदितव्यो विधेरतः ॥ ७५६
ध्यायतेरेव वा रूपं ध्येय इत्येतदाश्रितम् ।
श्रुत्यार्पितस्वार्थः स ध्यातव्यः सदा द्विजैः ॥ ७५७
ततश्च मीमांसाद्वारा वेदार्थानुचिन्तनविधिरेवायमिति ज्ञायते, न व्याकरणा-
ध्ययनविधिः ।
वेदागमशिक्षाद्यङ्गपरत्वेन द्वितीयं व्याख्यानम्
वेदे व्याकरणাদীनि सन्त्येवाभ्यन्तराणि नः ।
भवेद्वा तदभिप्राया षडङ्गाध्ययनस्मृतिः ॥ ७५८