मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 573, कुल 804 में से
संदर्भ में पढ़ें२४ ] प्रथमाध्याये तृतीयपादः ५१९
वेद एव हि सर्वेषामादर्शः सर्वदा स्थितः ।
शब्दानां तत उद्धृत्य प्रयोगः सम्भविष्यति ॥ ७४४
अथ वा योऽपि गव्यादिर्लोकेिनार्थे प्रयुज्यते ।
सोऽप्यर्थद्वारतः प्राप्तप्रयोगः केन वार्यते ॥ ७४५
देवतापदानि तावत्—'विधिशब्दस्य मन्त्रत्वे भावः स्यात्' १०-४-२३
इत्येतेन न्यायेन सर्वानिव साध्वसाधुत्वसम्मतानपर्यायानपरित्यज्य विधिगतप्रयोगानु-
सरणेनैव तद्वाक्यशेष-वाक्यान्तराधिगतार्थाभिधानरूपेण प्रयुज्यन्ते, तेषु ह्यस्त्येव
कर्माभिधानार्थमेव प्रयोगोत्पत्तिशास्त्रत्वम् । यानि तु द्रव्य-तद्गुणादिपदानि
सन्निहितार्थपर्यवस्थापितसमस्तरूपाणि प्रयोगवचनगोचरमिच्छन्ति, तेष्वसन्निहि-
तार्थपदन्निवृत्तिन्यूनसाकाङ्क्षमन्त्रवाक्यनिराकाङ्क्षीकरणाय स्मृतेऽप्यर्थे प्रयुज्य-
मानेषु प्रयोगोत्पत्त्यशास्त्रत्वान्न व्यवस्था स्यादित्युच्यते । प्रकृतौ हि मन्त्राणां
प्रयोगोत्पत्तिः शास्त्रवती । विकृतौ—पुनरर्थवशाद्भवन्ती न व्याकरणानुगते-
ष्वेवावतिष्ठते । व्याकरणस्याप्यसम्भाव्यमानमूलशास्त्रस्य कृतकाविधायकेष्ट्युप-
संख्यानाद्यावापोद्वापसूत्रप्रत्याख्यानानवस्थितप्रमाणत्वस्य यथारुचिविकल्पितप्रकृति-
प्रत्ययपरिमाणादिदोषग्रस्तस्य निश्चितस्मर्यमाणपाणिन्यादिमतसापेक्षस्य नैवानादि-
यज्ञगतशब्दप्रयोगनियमोत्पत्तिशास्त्रत्वमवकल्पते ।
तेनोहे कर्मकर्माङ्गवाक्यार्थज्ञानकौशलैः ।
लोकवेदप्रयोगाच्च सिद्धे व्याकरणेन किम् ७४६
मन्त्रेषु व्याकरणेनोहकरणमशक्यमित्यत्र प्रमाणोपन्यासः
अपि च व्याकरणेनोहकरणमशक्यमेवेति मन्वानैष्टीकाकारैरप्युक्तम्—
अङ्गानि ज्ञातिनामान्युपमा चेन्द्रियाणि च ।
एतानि नोहं गच्छन्ति अध्रिगौ१ विषमं हि तत् ॥ इति । ७४७
प्रयोजनवत्वे प्रमाणत्वेनोपन्यस्तस्यागमस्य निरासः
आगमो यस्तु निर्दिष्टः प्रयोजनविवक्षया ।
कर्मणां नोच्यते तत्र किं वेदाध्ययनं फलम् ॥ ७४८
सर्वस्य हि ह्यनुष्ठातव्यस्याऽऽगमो मूलत्वेनाऽऽख्यायते, न प्रयोजनत्वेन ।
अथैतेनैव युक्तं स्यादागमोक्तं प्रयोजनम् ।
तदप्यसदनाम्नानान्निष्कारणतयाऽपि च ॥ ७४९
१. दैव्याः शमितार आरमध्वमित्यादिः पशुविशसनप्रैषमन्त्रोऽध्रिगुशब्दवत्त्वेनाध्रिगुरि-
त्युच्यते ।