मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 572, कुल 804 में से
संदर्भ में पढ़ें५१८ मीमांसादर्शनम् [ सू०
न तु वेदाध्यायिनां कदाचिदप्यभियुक्ततरसहाध्यायिव्यतिरेकेण वेदवर्णपद-
वाक्याज्ञानसन्देहविपर्ययव्यावृत्तौ व्याकरणम्, वैयाकरणा वोपयुज्यन्ते ।
सहाध्यायिभिरेवातो वेदः कात्स्न्येन रक्ष्यते ।
स्वराक्षरविनष्टोऽपि द्वेषादन्यैर्न मृष्यते ॥ ७३५
तस्मात्प्रीतैरुपायैर्द्विष्टैः कारुणिकादिभिः ।
न विनाशयितुं वेदो लभ्यते तेन रक्ष्यते ॥ ७३६
तस्माद्वेदरक्षार्थं तावन्नाध्येयं व्याकरणम् ।
काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाच्च व्याकरणस्य वैयर्थ्यम्
लोके तु सर्वभाषाभिरर्था व्याकरणादृते ।
सिध्यन्ति व्यवहारेण काव्यादिष्वप्यसंशयम् ॥ ७३७
यदि तु संव्यवहारवाक्येष्वनुपयुज्यमानमपि काव्यनाटकलक्षणप्राकृतव्याकरण-
द्विपदी-रासकादिलक्षणन्यायेन संस्कृतकाव्योपयोगार्थं व्याकरणमाश्रीयेत १ तथाऽपि
काव्यप्रयोगनियमोत्पत्त्यशास्त्रत्वाद्यथेष्टभाषाभिः प्रबन्धकरणसम्भवाच्छब्देषु न
व्यवस्था स्यादित्युरुच्यते ।
काव्यशोभास्वपि त्वेतन्नैवातीवोपयुज्यते ।
वैयाकरणदोषाद्धि कष्टाञ्शब्दान्प्रयुञ्जते ॥ ७३८
न च लक्षणमस्तीति प्रयोक्तव्यमलौकिकम् ।
लोकसिद्धप्रयोगे तु लक्षणं स्यादनर्थकम् ॥ ७३९
तेन लोकेऽपि न कदाचिद् व्याकरणेन शब्दरक्षा ।
ऊहस्याप्यन्यतस्सिद्धत्वाद् व्याकरणस्यानुपयोगः
ऊहार्थमपि शब्दानां न व्याकरणमर्थवत् ।
ऊहस्याप्यन्यतः सिद्धेरूह्यानूह्यविभागवत् ॥ ७४०
तथा च—मुख्यदृष्टार्थतास्वार्थसमवेतार्थतादिभिः ।
प्रयुक्ताः प्रकृतौ मन्त्रा गताः कार्यातिदेशतः ॥ ७४१
विकारेऽथ निषिद्धोहाः कार्यापिन्नेषु पञ्चधा ।
अर्थान्तरेष्वपूर्वार्थद्वारेणोहं व्रजन्ति नः ॥ ७४२
एतावत्यन्यतो यस्य विना व्याकरणान्मतिः ।
जायेत स कथं तत्र पदं योग्यं न लप्स्यते ॥ ७४३
१ क. माश्रियेत ।