सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 571, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 571

२४ ] प्रथमाध्याये तृतीयपादः ५१७
पाठानां वैदिकानां लक्षणेन कार्यम् । न चैषां गुरुमुखात्साधीयो लक्षणमस्ति
‘दृष्टानुविधित्वाच्छन्दसः’ इति स्वयमेव लक्षणस्याऽऽम्नानाधीनत्वेन मन्दप्रयोज-
नत्वमुक्तम् ।
यथैव लोकसिद्धत्वात्कृष्यादेर्लक्षणं वृथा ।
तथैव वेदसिद्धानां शब्दानां लक्षणं वृथा ॥ ७२७
अन्यसिद्धैर्वेदरक्षादिप्रयोजन-निराकरणम्
रक्षाद्यपि यदत्रोक्तमन्वाख्यानप्रयोजनम् ।
न तदप्यन्यतः सिद्धेरल्पसिद्धेस्ततोऽपि वा ॥
शिष्याचार्यसम्बन्धो हि महान्वेदरक्षाहेतुः, व्याकरणानधीयानस्यापि वेद-
क्रमस्याध्ययनेनैव रक्ष्यमाणत्वात् । तद्विनाशेऽपि च विशिष्टतरदोषप्रसङ्गात् ।
उक्तं च—
निराकाङ्क्षीभवेल्लक्ष्यं येन तन्नाम लक्षणम् ।
शतांशमात्रसिद्धौ तु तेन मन्दं प्रयोजनम् ॥ ७२८
समाम्नायप्रसिद्धेऽपि सामवेदेऽस्ति लक्षणम् ।
तद्युक्तं कृत्स्नसिद्धित्वात्कर्तव्यार्थेन चार्थवत् ॥ ७२९
औच्छिक्थ्ये हि सर्वाणि सामपर्वाणि यथाक्रमं लक्षणेनानुगतानि । ततश्च
समस्तसामरूपसिद्धेर्निराकाङ्क्षत्वं भवति । ब्राह्मणविधिवशेन च, ऋगन्तरसंचार-
णायां प्रस्तावादिपञ्चधाविभागेन लक्षणोपयोगः । पदानुगममात्रनिवृत्तव्यापारेण
तु व्याकरणेन विशिष्टपदरचनात्मकवाक्यसंघातरूपाणामसंभवत्कर्तव्यपदवाक्यानां
मन्दमिव रक्षितव्यं दृश्यते ।
लक्षयेद्यः समाम्नायात्पदवाक्यक्रमान् बहून् ।
स लक्षयेत्तरामल्पं प्रकृतिप्रत्ययक्रमम् ॥ ७३०
वेदरक्षाया इहाध्यार्थिभिरेव सम्भवात् व्याकरणस्य नैष्फल्यम्
किं च—यदि व्याकरणाद्रक्षां मन्वीरन्वेदवादिनः ।
वैयाकरणगेहेषु छिन्द्युस्ते वेदसंशयान् ॥ ७३१
कक्षावलम्बनं नित्यं को नाम करकं वहन् ।
तमनादृत्य शौचार्थमन्यतः कर्तुमर्हति ॥ ७३२
लोके यस्य यदर्थत्वमाप्ता वा यत्र ये मताः ।
तेन तेभ्यश्च तद्वस्तु यथावदवगम्यते ॥ ७३३
आयुर्वेदं चिकित्सासु प्रायेण विनियुज्यते ।
व्याधितत्त्वौषधज्ञानं वैद्येभ्यश्चोपलभ्यते ॥ ७३४