मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 570, कुल 804 में से
संदर्भ में पढ़ें५१६ मीमांसादर्शनम् [ सू०
न प्रवर्तेत, ततः सर्वं व्याकरणमपशब्दैरेव निबद्धं स्यात् । अर्धवैशसदर्शनात्तु
प्रमाणत्वहानिः ।
अथोच्येत यज्ञप्रयोगविषय एव साधुभाषणनियमः, न सूत्रकारव्याख्यानादि-
क्रियास्विति । तदसत्, स्वर्गे लोके कामधुगिति फलवत्त्वोपन्यासात् । सारस्वतीष्टि-
विधावाहिताग्निग्रहणार्थवत्त्वात्१ । इतरथा ह्याहिताग्निरेव यज्ञेष्वधिक्रियत इति,
तद्गोचरेऽपशब्दप्रयोगे निष्प्रयोजनमेवाऽऽहिताग्निग्रहणं२ भवेत् ।
योऽपि च ज्योतिष्टोमप्रकरणे वाजसनेयिनां 'तस्माद् ब्राह्मणो न म्लेच्छेत्'
इति प्रतिषेधः कर्माङ्गत्वेन ज्ञायते । सोऽपि गुरुसम्प्रदायक्रमागतमन्त्रप्रयोगविनाश-
विषय एव, म्लेच्छभाषाप्रतिषेधार्थो वेति पूर्ववदेव नेतव्यः ।
यदपि च 'केषां शब्दानाम्' इति प्रश्नानन्तरं 'लौकिकानां वैदिकानां च'३
इति विवेककथनम्, तदपि बहूनां तावत्प्रत्यक्षप्रत्यभिज्ञानाल्लोकवेदयोरभेदे सति
स्तोकप्रविभागापेक्षं नैवेदमत्यन्तभेदाश्रयसदृशमभिधीयमानं शोभते । न च
लौकिकमध्ये गौरश्वः पुरुषो हस्तीत्येवमादयः सर्वे वेदसाधारणाः, वेदादेव वोद्धृत्य
लोकेन प्रयुक्ता उदाहर्तुं न्याय्याः । य एव हि भाषायामित्येव स्मर्यन्ते, न च
क्वचिदपि वेदे दृष्टपूर्वा इत्येवं संभावयितुं शक्यन्ते, त एवोदाहर्तव्याः ।
वैदिकोदाहरणेष्वपि च लोकप्रसिद्धा एव शमादय उदाहृताः । न च वाक्योदा-
हरणेन लौकिकेभ्यो भिद्यन्ते । वाक्यानां व्याकरणेनान्वाख्यानात् । अतश्छान्द-
सान्येव कानिचित् 'गृभ्णामि' 'दत्वायाथ' इत्येवमादीन्युदाहर्तुं योग्यानि । न 'शं
नो देवी' इत्येवमादीनि४ । छान्दसोदाहरणं च कुतः ? 'सिद्धे' 'लोकत'५ इत्यनेन
प्रत्यासन्नेनैव व्याहन्येत । यदि च लौकिकानामन्वाख्यानं क्रियेत, ततः सुतरां
गव्यादय एवान्वाख्येयाः तेषां व्यवस्थितं लौकिकत्वम्, वेदेष्वप्रयोगात् । पुनरध्ये-
तृभिर्वेदादेवोद्धृत्योद्धृत्य६ प्रयुक्ता इति शक्यं वक्तुम् ।
तथा च मनुनाऽप्युक्तम् ।
वेदशब्देभ्य एवाऽऽदौ पृथक् संस्था विनिर्ममे इति ।
दृश्यन्ते चाद्यत्वेऽपि श्रोत्रिया लौकिकेऽप्यर्थे विवक्षिते तद्रूपासमानार्थ-
न्सकलमन्त्रानप्युदाहरन्तः,७ किमङ्ग पुनः पादान्पदानि वा । न चाऽऽश्रितप्रतिपद-
१ क. विधिः । २ क. निःप्रयोजन ।
३. म० भा० पस्प० । ४ क. रित्येव ।
५. सिद्धे शब्दार्थसम्बन्धे, लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियमो यथा लौकिक-
वैदिकेषु इति महाभाष्यवार्तिके ।
६ क. गवादयः पुनः । ७ क. हरतः ।