मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 375, कुल 804 में से
संदर्भ में पढ़ें४ ] प्रथमाध्याये तृतीयपादः १२३
यदि यज्ञोपयोगित्वं नेहास्त्याथर्वणश्रुतेः ।
अर्थान्तरप्रमाणत्वं केनास्याः प्रतिहन्यते ॥ २०९
शान्तिपुष्ट्यभिचारार्था ह्येकब्रह्मर्त्विगाश्रिताः ।
क्रियास्तया प्रमीयन्तेऽत्राप्येवाऽऽत्मीयगोचराः ॥ २१०
न चायमपि यज्ञाङ्गविधिः शान्त्यादिशास्त्रवत् ।
अतोऽस्यापि प्रमाणत्वं पुरुषार्थेन वार्यते ॥ २११
न ह्येतद्यजमानस्य र्त्विजामुपदिश्यते ।
सर्वेभ्यः पुरुषेभ्यो हि भोज्यान्नत्वमिदं श्रुतम् ॥ २१२
वाक्यान्तरैर्निषिद्धं यद्दीक्षितान्नस्य भोजनम् ।
तस्यैव श्रूयते पश्चादभ्यनुज्ञाविधिद्वयम् ॥ २१३
अग्नीषोमीयसंस्थायां क्रीते वा सति राजनि ।
सोऽयं कालविकल्पः स्यादाशौचच्छेदकालवत् ॥ २१४
ननु चाशौचकालोऽपि धर्मपीडाद्यपेक्षया ।
अतः समविकल्पत्वं नैव तस्यापि संमतम् ॥ २१५
यस्य ह्यल्पेन कालेन शुद्धिर्भोज्यान्नताऽपि वा ।
स कस्मात्तावता शुद्धो दीर्घकालत्वमाश्रयेत् ॥ २१६
एकरात्रे त्रिरात्रे वा शुद्धस्य ब्राह्मणस्य च ।
अशुद्धिरनुवर्तेत दशरात्रं कथं पुनः ॥ २१७
पापक्षयो हि शुद्धत्वं धर्मयोग्यत्वमेव वा ।
प्राग्दशाहात्कथं तस्य सदसद्भावकल्पना ॥ २१८
एवं प्राक् पशुसंस्थानाद्दीक्षितान्नविशुद्धता ।
अस्ति नास्तीति चेत्येवं सहते नावधारणम् ॥ २१९
स्यादेतद्येन यः कालः पुरस्तात्परिगृह्यते ।
तस्यासावेव होमस्य प्रागूर्ध्वोदयकालवत् ॥ २२०
युक्तं समविकल्पत्वमुदितानुदितत्वयोः ।
न काचिदत्र पूर्वोक्ता सदसत्त्वविरोधिता ॥ २२१
न चानुदितहोमोक्तावुदितोक्तिरनर्थिका ।
क्लेशक्षयव्ययादीनां नातिरेकोऽत्र कश्चन ॥ २२२
इह त्वल्पेन कालेन शुद्धेर्या दीर्घकालता ।
न वर्धयेदघाहानि साऽनेनापि निवार्यते ॥ २२३
क्लेशप्रायं च तं पक्षं नाऽऽश्रयेतैव कश्चन ।
ततोऽनङ्गीकृते तस्मिन् स्यात्तद्वाक्यमनर्थकम् ॥ २२४