मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 374, कुल 804 में से
संदर्भ में पढ़ें१२२ मीमांसादर्शनम् [ सू०
तदा तन्मध्यपात्येकं वाक्यं किंचिदपस्मृतिः ।
मूलान्तरोद्भवं वक्तुं जिह्वा नो न प्रवर्त्तते ॥ १९६
बाधिता च स्मृतिर्भूत्वा काचिन्न्यायविदा यदा ।
श्रूयते न चिरादेव शाखान्तरगता श्रुतिः ॥ १९७
तदा का ते मुखच्छाया स्यान्नैयायिकमानिनः ।
बाधावाधानवस्थानं ध्रुवमेवं प्रसज्यते ॥ १९८
यच्चैतत्सर्ववेष्टनस्मरणं स्पर्शनश्रुतिविरुद्धत्वेनोदाह्रियते । एतज्जैमिनिनैव
च्छान्दोग्यानुपादे शाट्यायनिब्राह्मणगतश्रुतिमूलत्वेनौदुम्बरीप्रकरणे च शाट्याया-
निनां तामूर्ध्वदेशेनोभयत्र वाससी दर्शयतीति 'वैष्णुतं वै वासः श्रियै वासः श्रेयः
सामे' इति दर्शिते तत्प्रसङ्गेनौदुम्बरीवेष्टनवाससोऽपि प्रकाशश्रुतिमूलत्वमेवा-
न्वाख्यातम् ।
ततश्च श्रुतिमूलत्वाद्भाष्योदाहरणं न तत् ।
विकल्प एव हि न्याय्यस्तुल्यकक्षप्रमाणतः ॥ १९९
विरुद्धत्वे च बाधः स्यान्न चेहास्ति विरुद्धता ।
नहि वेष्टनमात्रं नः स्पर्शश्रुत्या विरुध्यते ॥ २००
यदि द्वित्राङ्गुलं मध्ये विमुच्योत्तरभागतः ।
वेष्ट्येतोदुम्बरो तत्र किं नाम न कृतं भवेत् ॥ २०१
सर्वा वेष्टयितव्येति न ह्येवं सूत्रकृद्वचः ।
न ह्यस्याः क्रियते कैश्चित्कर्णमूलेषु वेष्टनम् ॥ २०२
परिशब्दोऽपि यस्तव सर्वतो वेष्टनं वदेत् ।
तद्गार्तसमन्तत्वे सोऽर्थवानेव जायते ॥ २०३
लोभमूलं च यत्तस्याः कल्प्यते सर्ववेष्टनम् ।
तल्लोभः सुतरां सिध्येन्मूलाग्रपरिधानयोः ॥ २०४
अन्तरीयोत्तरीये हि योषितामिव वाससी ।
स्मरेत्कौशेयजातीये नोद्गातेकं गुणैर्विना ॥ २०५
प्राक् च लोभादिह स्पर्शः कुशैरेवान्तरीयते ।
वेष्टितेषा कुशैः पूर्वं वाससा परिवेष्ट्यते ॥ २०६
कुशवेष्टनवाक्ये च न किंचिद्धेतुदर्शनम् ।
नियमेऽपि च तद् दृष्टं नैवोर्ध्वदशवाससः ॥ २०७
दीक्षितान्नभोजनविचारः
क्रीतराजकभोज्यान्नवाक्यं चाथर्ववैदिकम् ।
न च तस्याप्रमाणत्वे किंचिदप्यस्ति कारणम् ॥ २०८