सामग्री पर जाएँ
सर्वकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 376, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 376

३२४ मीमांसादर्शनम् [ सू०
तेनतैं विषयान्त्यत्वान्न विकल्पोऽवकल्पते ।
स चोक्तो धर्मपीडाख्यस्तत्र चाह्नामवर्धनम् ॥ २२५
दन्तजातानुजातान्यकृतचूडेषु च क्रमात् ।
चितिक्रिया त्र्यहैकाहास्तत्र चाह्नामवर्धनम् ॥ २२६
तथा गौतमेनाप्युक्तम्—राज्ञां च कार्याविघातार्थं ब्र'ह्मणानां च स्वाध्याया-
निर्वृत्त्यर्थमिति ।
अथ वाऽन्तर्यदाऽऽशौचं निमित्तं किंचिदापतेत् ।
तत्र शेषेण या शुद्धिस्तच्छेषोऽयं भविष्यति ॥ २२७
न वर्धयेदथाहानि निमित्तादागतान्यपि ।
पूर्वस्यैव हि कालस्य प्रसङ्गेन तदङ्गता ॥ २२८
प्रवृत्तोऽनपवृत्तश्च दशरात्रादिकोऽवधिः ।
अन्तः पतितमाशौचं स व्याप्नोति स्वसंख्यया ॥ २२९
वितत्य दश संख्या हि तान्यहानि व्यवस्थिता ।
शक्नोत्येव परिच्छेतुमन्तराशौचमागतम् ॥ २३०
शुद्धयशुद्धी ह्यदृष्टत्वाद्विजायेते यथाश्रुति ।
नन्वेवं भोजनस्यास्ति विषयावधिकारणम् ॥ २३१
तत्र दीर्घविधिर्व्यर्थः स्यादलपावध्यनुज्ञया ।
तस्मादिहापि वैषम्यहेतुर्वाच्योऽवधिद्वये ॥ २३२
अत्राप्यसंभवे तस्य दीक्षिते वा ददत्यपि ।
तन्नियुक्तकदत्तान्नं भोज्यं सोमक्रये कृते ॥ २३३
आपद्धर्मा यथैवान्ये मुख्यासंभवहेतुकाः ।
तथैव प्राणपीडायां क्रीतराजकभोजनम् ॥ २३४
हन्तैवमप्रमाणत्वमुक्तमन्यप्रकारकम् ।
जग्धवानापदि ह्यार्तो विश्वामित्रः श्वजाघनीम् ॥ २३५
उच्यते—
एकं विनाऽप्यनुज्ञानात् क्रियते गत्यसंभवात् ।
क्रियतेऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान् ॥ २३६
सामान्येनाभ्यनुज्ञानाद्विशेषश्च विशिष्यते ।
विशेषोऽत्यन्तनिर्दोषः स्तोकदोषेतरक्रिया ॥ २३७
तथा च मनुनाऽप्युक्तमापद्धर्मगतं प्रति ।
तत्रत्यपापशेषाणामन्ते शौचं भविष्यति ॥ २३८