मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)
Mattavilasa Prahasana of Mahendravarman I
पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा
पृष्ठ 62, कुल 100 में से
संदर्भ में पढ़ें५० मत्तविलास-प्रहसन
शाक्यभिक्षुः—भववं ! केण कारणेण एदं ण लक्खीअदि ।
भोः अचिक्खदु भववं । इमस्स वराणो । ७०[भगवन् केन कारणे-
नेतन्न लक्ष्यते । भोः आचष्टां भगवान् । अस्यायं वर्णः ।]
कपाली—किमत्र७१ वक्तव्यम् । ननु मया दृष्टम् । काकादपि
कृष्णमिदं कपालम् ।
शाक्यभिक्षुः—तेण हि एदं ममकेरअं ति सअं एव अब्भुवगदं ।
[तेन ह्येतन्मदीयमिति स्वयमेवाभ्युपगतम् ।]
कपाली—सत्यमभ्युपगतं तव वर्णान्तकरणे नैपुण्यम् ! पश्य,
यदेतदासीत् प्रथमं स्वभावतो मृणालभङ्गच्छविचोरमम्बरम् ।
ननु त्वया नीतमचिन्त्यकर्मणा तदेव बालारुणरागताम्रताम् ॥१५॥
अपिच,
आवृत्तं बहिरन्तश्च कषायेणानपायिना ।
त्वां प्राप्तं स्यात् कथं नाम कपालमकषायितम् ॥१६॥
देवसोमा—हा हदह्नि मन्दभाआ । सव्वलक्खणसम्पण्ण दाए
कमलासणसीसकवालाणुभावस्स पुण्णमासिसोमदंसणस्स णिच्चसुरा-
गन्धिणो एदस्स मलिनपडसंसग्गेण इअं ईदंसी अवत्था संवृत्ता ।
[हा हतास्मि मन्दभागा । सर्वलक्षणसम्पन्नतया कमलासनशीर्षकपा-
लानुभावस्य पौर्णमासीसोमदर्शनस्य नित्यसुरागन्धिन एतस्य मलिन-
पटसंसर्गेणेयमीदृश्यवस्था संवृत्ता ।] (इति रोदिति )
कपाली--प्रिये ! अलं सन्तापेन । पुनःशुचिर्भविष्यति । श्रूयन्ते
हि महान्ति भूतानि प्रायश्चित्तैरपनीतकल्मषाणि भवन्ति । तथा हि-७२
आस्थाय प्रयतो महाव्रतमिदं बालेन्दुचूडामणिः
स्वामी नो मुमुचे पितामहशिरश्छेदोद्भवादेनसः ।
नाथोऽपि त्रिदिवौकसां त्रिशिरसं त्वष्टुस्तनूजं पुरा
हत्वा यज्ञशतेन शान्तदुरितो भेजे पुनःपुरायताम् ॥१७॥
भो ! बभ्रु कल्प ! नन्वेवमेतत् !
पाशुपतः—आगमानु७३गतमभिहितम् ।
७०. भो भगवन् । ७१. किमनृतन्ननु मया । ७२. यथा । ७३. —नुरूपमभि— ।