सामग्री पर जाएँ
सर्वकोश
मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

मत्तविलास प्रहसनम् (पल्लव नरेश महेन्द्रविक्रमवर्मा - कांचीपुरम सामाजिक व्यंग्य संस्कृत-हिन्दी सटीक)

Mattavilasa Prahasana of Mahendravarman I

पल्लव सम्राट् महेन्द्रविक्रमवर्मा (व्याख्या: रानी मजूमदार) द्वारा

DevanagariHindipublished100 पृष्ठ

पृष्ठ 54, कुल 100 में से

संदर्भ में पढ़ें
पृष्ठ 54

४२ मत्तविलास-प्रहसन
(देवसोमा कपालिने सुरां प्रयच्छति)
कपाली-(पीत्वा) प्रिये ! त्वयापि श्रमापनोदः कर्तव्यः ।
देवसोमा-भअवं ! तह । [भगवन् ! तथा ।] (पिबति)
कपाली-अयमस्माकमपकारी । संविभागप्रधानः स्व-
सिद्धान्तः ।४५ शेषमाचार्याय प्रदीयताम् ।
देवसोमा-जं भअवं आणवेदि । गह्र्,णदु भअवं । [यद्
भगवानाज्ञापयति । गृह्,णातु भगवान्४६ ।]
शाक्यभिक्षुः-(आत्मगतम्) अहो सुहोवणदो अब्भुदओ ।
एत्तओ दोसो-महाजणो पेक्खिस्सदि । (प्रकाशम्) भोदि ! मा मा
एवं । ण वड्ढेदि अम्हाणं । [अहो सुखोपनतोऽभ्युदयः । एतावान्४७
दोषः-महाजनो द्रक्ष्यति । भवति ! मा मैवम् । न वर्धतेऽस्माकम्।]
(सृक्वणी लेढि)
देवसोमा-धंस । कुदो दे एत्तिआणि भाअधेआणि ।
[ध्वंसस्व४८ । कुतस्ते एतावन्ति भागधेयानि ।]
कपाली-प्रिये ! इयमस्येच्छाविरोधिनी वाग् मुखप्रसेकेन
स्खल(य?)ति ।
शाक्यभिक्षुः-इदाणिं वि णत्थि दे करुणा । [इदानीमपि
नास्ति ते करुणा ।]
कपाली-यद्यस्ति करुणा, कथं वीतरागो भविष्यामि ।
शाक्यभिक्षुः-एवं वीदरागिणा वीदरोसेण विहोदव्वं [एवं
वीतरागिणा वीतरोषेणापि भवितव्यम् ।]
कपालो-वीतरोषो भविष्यामि, यदि मे स्वकं दास्यति ।
शाक्यभिक्षुः-किं दे सअं । [किं ते स्वकम् ।]
कपाली-कपालम् ।
शाक्यभिक्षुः-कहं कवालं । [कथं ४६कपालम् ।]

४५. -न्तः प्रमाणयितव्यः । ४६. भवान् । ४७. अत्र खलु एष दो- ।
४८. दुष्ट ! कुतस्ते एतानि भा- । ४६. कस्मिन् क- ।