मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 96, कुल 145 में से
संदर्भ में पढ़ें६० मन्त्ररामायण
सङ्कटानि तैर्हेतुभिः अदितिम् । “इयं वा अदिति” इति श्रुतेः पृथ्वों तज्जां
त्वाम् उद्दिश्य स्वस्तये कल्याणाय त्वां भर्त्रा सह संगमयितुमित्यर्थः । विवास
प्रवासमपि कृतवानस्मि रामदासोऽहं त्वामुपागतोस्मीत्यर्थः । पक्षे विष्णुभक्तोऽहं
यज्ञादीनामनित्यफलतां ज्ञात्वा शुद्धबोधोल्लासिनीं श्रद्धां त्वां प्राप्तोस्मीत्यर्थः ॥
अक्षराणि तथैव योज्यः ॥ ७७ ॥
अव्ये वधूयुः पवते परि त्वचि श्नथीते नत्तीरदितेर्ऋतंयते ।
हरिरिक्रान्त्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥७८॥
ऋ. ९. ६६, ३
दुष्ट कामुक रावण शुद्ध हो रहा है, मुझ सीता को पाकर ब्रह्मचर्य
को प्राप्त हो रहा है। क्योंकि उसके परिजनों द्वारा स्वर्ग से बलपूर्वक
लायी गयी स्त्रियाँ, सीता को न प्राप्त कर पाने से तप्त रावण को रुचिकर
नहीं लगती हैं। सोमचित्त के अधिष्ठाता हरि ने उसे आक्रान्त कर दिया है
कि स्त्रीसङ्ग के लिये इच्छुक रावण को अपने को संयमित रखना चाहिये
अन्यथा मरण भय को भी त्याग कर परपत्नी का सङ्ग करना चाहिये ।
इसलिये काम से दीप्त होता हुआ भी रावण अधिक सुशोभित नहीं होता
अपितु कृश हो रहा है।
एवं पवमानः सन्ततिरित्यिादिना स्वस्मिन्नामानुग्रहं पृष्ट्वा स्वस्य विशुद्धतां
मन्त्रद्वयेनाह—सीता—अव्ये इति । अव्ये अवीनारी रजस्वला तस्यां योग्यं कर्म
अव्यं मैथुनं तस्मिन् अव्ये निमित्ते वधूयुः वध्वा पुत्रभार्यया सह यौति मिश्री
भवतीति वधूयु दुष्टकामुकोपिरावणः त्वचि परिपवते शुद्ध्यति मदप्राप्त्या पाण्डुरो
भवतीत्यर्थः यतः अदितेः अदितिं सीतां मां प्राप्य ऋतं सत्यं ब्रह्मचर्यम् एति
प्राप्नोतीति ऋत यत् तस्मै ऋतयन्ते रावणाय तत्परिजनः नत्तीः नयन्ति
स्वर्गादिति नत्तय उर्वश्याद्याः स्त्रियस्ताः श्नथीते शिथिलाः करोति बलादाहरति
सीताया अलाभात्तप्यमानं रावणं चिकित्सितुमानीयता अपि रम्भाद्यस्तस्मै न
रोचन्त इत्यवज्ञातास्ता नयन्तीत्यर्थः । नन्वीदृशोपि बलात्सीतां कुतो न कामयत
इत्यत आह–हरिरिति । हरिः सोमश्चित्ताधिष्ठाता अक्रान् एनम् आक्रान्तवान् ।
यजतः सङ्गतिकर्तॄन् रावणादीन, अत एव तेषां मदस्संयतो निगृहीतः । अन्यथा
पाण्डुधन्मरणभयमपि त्यक्त्वा ते परदारानाक्रमेयुः, अत एव नृम्णा कामबलेन
शिशानो दीप्यमानो महीषो महान् रावणो न शोभते, न पुष्यत्यपि तु कृश एव
भवति ॥ ७८ ॥
उक्षा मिमाति प्रति यंति धेनवो देवस्य देवीरुपयंति निष्कृतम् ।