सामग्री पर जाएँ
सर्वकोश
मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)

Mantra Ramayana of Nilakantha with Hindi Commentary

नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा

DevanagariHindipublished145 पृष्ठ

पृष्ठ 116, कुल 145 में से

संदर्भ में पढ़ें
पृष्ठ 116

पूरितवानसि, कार्यसिद्धयवश्यम्भावको भूतप्रयोगोऽगन्म सुवः सुवरगन्मेतिवत्
तथा अध्वरे युद्धयज्ञे चम्वोः वानरराक्षससेनयोः मतीः बुद्धीः बुद्धिधर्मान् शौर्यादीन्
समजीः सम्यक्तितवानसि ॥ अस्मिन्निरपेक्ष एव शत्रून् निहन्तुं समर्थोऽसीत्यर्थः
यतस्त्वेति भावः ॥ कथं युष्माभिः सीता दृष्टेत्याशङ्कायां हनूमन्तं निर्दिश्य वदन्ति
वेनैदुपत्पक्षीव वृक्षाग्रूढो हरिर्हनुमान् आसदत् प्राप्तवान् त्वदीयं सोमसाधनमित्य-
नुषङ्गः समुद्रव्यवहिते पक्षिचरप्राये देशे सीता हनुमता समुद्रं लङ्घयता दृष्टेत्यर्थः
॥ ११२ ॥
अंशुं दुहंति स्तनयंतमक्षितं कविं कवयोऽपसो मनीषिणः ।
समीं गावो मतयो यंति संयत ऋतस्य योना सदने पुनर्भुवः ॥११३
ऋ. ६. ७२, ६
सूर्य, वायु और अग्नि तीनों के सारतत्व को (अग्नि से परदाहकत्व,
सूर्य से प्रकाशत्व, वायु से शीघ्रगमन) ग्रहण कर लिया है । गर्जन करते
हुए अक्षीण बल से वेगपूर्वक गगनमार्ग में जाने वाले वानरों ने गम्भीर
समुद्र पर भी शिलाओं को जोड़कर पुल बनाकर भूमि के समान कर
दिया ।
ततः किंवृत्तमत आह-अंशुं दुहन्तीति-- अंशुम् अंशुमन्तं सूर्य वायुमग्निं वा
त्रयः केशिन इति “अग्निर्वायुः सूर्यश्च केशिनः" इति स्मृतेः तस्मात् अपसः
कर्माणि दुहन्ति, यथा गोः सारभूतं पयो दुह्यते, एवं अग्नेः सारः परदाहकत्वम्
सूर्यस्य सर्वविषयप्रकाशकत्वम्, वायोः शीघ्रगामित्वं बलवत्त्वं च मनीषिणो
मनोनिग्रहसमर्थाः मतयो मेधाविनः वानराः दुहन्ति आददत इत्यर्थः । कीदृशम्
अंशुं स्तनयन्तं गर्जन्तं प्रख्यातामित्यर्थः अक्षितमक्षीणं बलेन वेगेन चेत्यर्थः ।
कविक्रान्तदर्शिनम् एतानि क्रमेणाग्निवायुसूर्याणां योग्यतया विशेषणानीति ज्ञेयम् ।
गर्जन्तोऽक्षीणबलवेगाः गगनमार्गेण गच्छन्तीत्यर्थः । गत्वा च किं कृतवन्तस्तदाह-
समिरिति । संयतः समेतीति संयत् संहतमचञ्चलं तस्य ऋतस्य सलिलस्य योना
योनौ, सुपो डादेशः । आकरे समुद्रे, आधारे सदने, निबदने निमित्ते पुनर्भुवो
गावः पूर्व धातुः सकाशात् जाताः, पश्चाच्चतुष्कोणत्वाद्याकारेण शिल्पभ्यो
नलादिभ्यो भूताः गावो भूमयः सुघटितशिलारूपाः इं लोकप्रसिद्धवत् संयन्ति
एकीभावेन मिलन्ति । यथा-पट्टांगणेष्वविवृतसंधयः शिला निवियन्ते, एवं
स्तब्धोदके सिन्धावपीति तथांशुं दुहन्तीति सम्बन्ध. ॥ ११३ ॥
नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरक्षितः ।