मन्त्र रामायण (नीलकण्ठ चतुर्धर - पं. रामकुमार राय सविस्तार हिन्दी व्याख्या सटीक)
Mantra Ramayana of Nilakantha with Hindi Commentary
नीलकण्ठ चतुर्धर (टीकाकार: पं. रामकुमार राय) द्वारा
पृष्ठ 115, कुल 145 में से
संदर्भ में पढ़ेंमन्त्ररामायण ७९
पातिव्रत्यमुक्त्वा दुःखमाहुः-अन्विति । अस्मै एनम् उक्तविधं त्वदीयं सोमं प्राप्तुं
धिनं कमनीयं वस्तुजातं समर्पयितुं गृह्णातीति निगर्तुसो रावणः ओपं पयांसि यथा
स्यातथा अन्वभरत् अनुहरति सर्वं कमनीयायै प्रयच्छति अथापि सा संक्षेति
अतिशयेन क्षीयत एव जामिभिः सहचरीभिः स्वसृभिः एकयोनिभिः द्वयीभिरुभ-
यीभिः चेतोवृत्तिभिः हेतुभूताभिः संक्षेति इष्टवियोगजैः शोकादिभिरनिष्टसंयोग-
जैर्भयादिभिश्चातिक्षीणास्तीत्यर्थः ॥ ११० ॥
नृधूतो अद्रिपुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुऋत्वियः ।
पुरंधिवान् मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥१११
ऋ. ६. ७२, ४
राक्षसियों के द्वारा डरायी जाने पर भी शान्त बैठी हुई, जिसके
जितेन्द्रिय ईश्वर आप पति हैं, मानव रूप में आपके यज्ञ में सहधर्म-
चारिणी, वह सीता बुद्धि से अपने को पवित्र करती है ।
नृधूत इति-नृभिः राक्षसीभिर्धूतोऽवधूतः भीषितः अद्रिसुतः अद्रयः पाषाणाः
सुता आज्ञप्ताः यस्मै पाषाणैरियं चूर्णीकर्त्तव्येति एवं भीषितोपि बर्हिषि तृणे
निष्षण्णा इति शेषः ॥ प्रियस्तव गवां पतिर्जितेन्द्रियः प्रदिवः पुराणः इन्दुः ईश्वरः
स्वसंरक्षणे प्रभु ऋत्वियः व्याख्यातः पुरन्धिवान् बहुधीयुक्तः मनुषो मनुष्यरूपस्तव
यज्ञसाधनः सहधर्मचारी धिया शुचिः पवते आत्मानं पुनाति ॥ १११ ॥
नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते ।
आप्राः ऋतून् समजैरुध्वरे मतीवेर्नद्रु षच्चम्वो ३रासद्दधरिः ॥११२॥
ऋ. ६. ७२, ५
'हे राम ! तुम्हारा सोम बाणरूप से तुम्हारी भुजाओं से प्रेरित
होता हुआ प्रत्येक शरीर में जाता है । वर्तमान काल में तुम सङ्कल्प से
सीता को अवश्य प्राप्त करोगे । युद्धरूपी यज्ञ में वानरगण राक्षस सेना को
बुद्धि और शौर्य से जीतेंगे । पक्षी के समान वृक्ष पर चढ़ने वाले हनुमान
ने समुद्र पार करके सीता को देखा है ।
नृबाहुभ्यामिति-हे इन्द्र ते तव सोमः सोमयागसाधनं सीताख्यः बाणरूपेण
परीतः सन् बाहुभ्यां नररूपस्य तव बाहुभ्यां भुजाभ्यां चोदितः प्रेरितःसन् अनुष्वधं
स्वधा अन्नं तेन तद्विकारो देह उच्यते प्रतिशरीरं पवते गच्छति शीघ्रमेवेत्यर्थः ।
वर्तमानसामीप्ये वर्तमानवन्निर्देशात् । कीदृश धारया अविच्छिन्नप्रवाहेण सुतः
निसृष्ट. त्वं च ऋतून् सङ्कल्पान् स्वस्य सीताया अस्मदीयांश्च आ अतिशयेन आप्राः