मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
७] पदविन्याससङ्ख्याम् १६
पदविन्यासलक्षणम्
अधुना पदविन्याससङ्ख्यां वक्ष्यते क्रमात् ।
प्रथमं चैकपदं स्यात्सकलं नाममेव(एव) च ॥ १ ॥
द्वितीयं चतुष्पदं चैव नाम पैशाच(पेचक)मेव च ।
तृतीयं नवपदं चैव नाम पीठमिति स्मृतम् ॥ २ ॥ 4
चतुर्थं षोडशपदं महापीठमिति स्मृतम् ।
पञ्चमं पञ्चपञ्चाशमुपपीठमिति स्मृतम् ॥ ३ ॥
षष्ठमं(ष्ठं च) षष्ठषष्ठांशं चोग्रपीठं च कथ्यते ।
सप्तमं सप्तसप्तांशं स्थण्डिलं परिकीर्तितम् ॥ ४ ॥ 8
अष्टमं तु चतुःषष्टिपदं चण्डितमीरितम् ।
कथित(युक्त)मेकाशीतिपदं नवमं परमशाधि(यि)कम् ॥ ५ ॥
दशमं शतपदं स्यान्नाममा(म चा)सनमीरितम् ।
एकादशं तथा प्रोक्तं चैकविंशच्छतं पदम् ॥ ६ ॥ 12
स्थानीयं नाममे(म चै)व तु चाथ द्वादशकं तथा ।
वेदाधिक्यं [स]चत्वारिंशदेव(द्देश्यं) शताधिकं पदम् ॥ ७ ॥
त्रयोदशं तथा प्रोक्तं नवषष्ट्यधिकं शतम् ।
पदमेवं विधिं ज्ञात्वा नाम चोभयचण्डितम् ॥ ८ ॥ 16
चतुर्दशं तथा प्रोक्तं षण्णवत्यधिकं शतम् ।
नाम तद्भद्रमेवं तु अ(चा)थ पञ्चदशं तथा ॥ ९ ॥
पञ्चविंशपदाधिक्यं शतद्वयपदान्वितम् ।
नामं(म) महासनं प्रोक्तमथ षोडशकं तथा ॥ १० ॥ 20
सप्ताष्टाधिकं द्विशतं पद्मगर्भं पदं भवेत् ।
तथा वै सप्तदशकं नवाशीतिशतद्वयम् ॥ ११ ॥
त्रियुतं पदमेवोक्तं तथाष्टादशकं(कं) तथा ।
चतुर्विंशत्त्रिशतं चैव कर्णाष्टकं भवेत् ॥ १२ ॥ 24
२० मानमारे [अध्यायः
एकोनविंशति तथा चैव (सैक) षष्टिशतत्रयम् ।
गणितं पदमित्येवं तथा विंशतिकं ततः ॥ १३ ॥
चतुःशतपदं चैव प्रोक्तं कुर्याद्वि(सूर्यवि)शालकम् ।
तथा चैकविंशतिकं चैकपञ्चाष्टमाधिकम् ॥ १४ ॥ 28
चतुःशतपदं युक्तं सुसंहितमितीरितम् ।
तथाऽपि द्वाविंशतिकं वेदाशीतिचतुःशतम् ॥ १५ ॥
पदं सुप्रतिकान्तं स्यात्त्रयोविंशद्विधानके ।
नवविंशत्पञ्चशतं पदमेतद्विशालकम् ॥ १६ ॥ 32
चतुर्विंशद्विधाने तु पदाधिक्यं (क्य) ससप्तति ।
पञ्चशतपदयुक्तं विप्रगर्भमिति स्मृतम् ॥ १७ ॥
पञ्चविंशद्विधाने तु पञ्चविंशत्सषट्शतम् ।
पदं विवेश(विश्वेशं) संज्ञात्वा (य) नाममे (त्वे) वं प्रकीर्तितम् ॥ १८ ॥ 36
षड्विंशतिविधाने तु षट्सप्ततिकसंयुतम् ।
षट्शतं पद(दं) संज्ञात्वा(य) विपुलं(लं)भोगमिति (गं तु) स्मृतम् ॥ १९ ॥
सप्तविंशद्विधाने तु नवविंशतिसप्तशः ।
शतयुतं पदं चैव विप्रकान्तमिति स्मृतम् ॥ २० ॥ 40
तथाऽपि चाष्टाविंशत्ये वेदाशीतिं च मा (शीत्या तथा) धिकम् ।
सप्तसंख्याशतयुतं विशालाक्षमिति स्मृतम् ॥ २१ ॥
नवविंशद्विधाने तु चत्वारिंशैक्रमा (कं चा) धिकम् ।
अष्टशतपदं (द) युक्तं विप्रभक्तीति (किस्तु) कीर्तितम् ॥ २२ ॥ 44
तत्र त्रिंशद्विधाने तु पदं नवशतं तथा ।
एवं विश्वेशसारं च चैकत्रिंशद्विधानतः ॥ २३ ॥
एकषष्टिसमाधिक्यं पदं नवशतयुतम् ।
एवमीश्वरकान्तं स्याद्द्वात्रिंशद्विधानके ॥ २४ ॥ 48
चतुर्विंशतिसंयुक्तं सहस्रपदसम्मितम् ।
एवं तु चन्द्रकान्तं स्यादेवमुक्तं पुरातनैः ॥ २५ ॥
चतुःसूत्रंतु (त्रेण) संयुक्तं सकलमेकपदं भवेत्(स्यात्)
तत्पूर्वसूत्रमादित्यं दक्षसूत्रं यमाख्यकम् ॥ २६ ॥ 54
७] पदविन्यास लक्षणम् २१
प्रत्यक्सूत्रं जलेशे स्यात्सौम्यसूत्रं नृपाह्वयम् ।
देवतागुरुपूजार्थं चान्निकायार्थमेव वा ॥ २७ ॥
यतीनामासना[र्था]यापि भोजनार्थं सनातनम् ।
पैतृकार्थं तु संपूज्य(ज्यं) एवं तु सकलं स्मृतम् ॥ २८ ॥ 56
पैशाचा(पेचकम)ष्टसूत्रेण संयुक्तं तु चतुष्पदम् ।
पैशाचेश(पेचके ईश)पदे स्थाप्य(व्यं) वद्धेश्च वा(ह्वेश्चा)ऽग्निदे(दै)वतम् ॥ २६ ॥
पवनं वायुकोणे तु गगनं चैव नैर्ऋते ।
एवं तद्भू(द्हू)तपूजार्थं स्नपनं स्याज्जनार्थकम् ॥ ३० ॥ 60
महापीठपदे मध्ये ब्राह्मणस्य(ब्रह्मणश्च) चतुष्पदम् ।
तद्बहिः सूत्रदेशेशादापवत्सा(त्सा)र्यकं(कौ) तथा ॥ ३१ ॥
सावित्रं च विवस्वां(स्वन्तं) च इ(चे)न्द्रं चैव तु मित्रकम् ।
रुद्रं चैव(च) भूधरं चैव ए(त्वे)वं प्रदक्षिणं क्रमात् ॥ ३२ ॥ 64
तद्बहिः परितः सूत्रे चैशं चैव जला[द्य]न्तकम् ।
आदित्यं विमृशं चैव कृशानुं विततं(थं) तथा ॥ ३३ ॥
यमं च भृङ्गराजं च पितृसुग्रीवकौ तथा ।
[वरुणं] शोषं मारुतं [चैव] मुख्यसोमादित(तीं)स्तथा ॥ ३४ ॥ 68
पञ्चपञ्चामरान् प्रोक्तं(क्तान्) चैशात्तु पूर्ववत्क्रमात् ।
एवं सूत्रस्थितान्देवान्पदस्थांश्चोपपीठके ॥ ३५ ॥
एतेषामु(पु ङ)क्तसर्वेषु पदेषु द्वयमुच्यते ।
तन्मण्डूकं पदं चैव यं(यत्) तत्परमशायिकम् ॥ ३६ ॥ 72
युग्मं हि निष्फलं प्रोक्तमयुग्मं सकलं तथा ।
एतत्पदद्वयं सर्व(र्वे)वास्तूनां हि सनातनम् ॥ ३७॥
एतत्पदस्थितं(स्थानां) सर्वदेवानां रूपमुच्यते ।
त्रिंशत् [तु] सूत्रसंयुक्तं चाष्टाविंशत्तु सन्धिभिः ॥ ३८ ॥ 76
चतुष्कंश्च षडाधिक्यं त्रिंशत्संयुक्तमेव च ।
षट्कद्वादशसंयुक्तं कर्णे शूलं चतुष्टयम् ॥ ३६ ॥
मध्ये चाष्टकसंयुक्तं सूत्र(त्रं) मण्डूकनामकम् ।
चतुर्दिक्षु चतुःसूत्रं षोडशान्य(शम)त्र सूत्रकम् ॥ ४० ॥ 80
: "सौम्यदिकद्विपदे" or "सौम्यदिक्द्विपदे"?
"सौम्यदिकद्विपदे" - there is an 'इ' matra on 'क': द, ि, क! सौम्यदिकद्विपदे.
Line 18:
"तथोत्तरे महेन्द्रस्य द्विपदं दक्षिणे तथा ॥ ४९ ॥"
Line 19:
"सत्यस्य द्विपद तस्य दक्षिणे द्वयं भृशम्(स्य) ।"
Wait, "द्वयं" or "पदं"?
Look at line 19:
"सत्यस्य द्विपद तस्य दक्षिणे द्वयं भृशम्(स्य) ।"
Wait, is it "द्वयं"?
द्, व, य, ं -> yes, "द्वयं"!
Line 20:
"दक्षिणे मध्यसूत्रस्य पूर्वे च द्विपदे यमः ॥ ५० ॥"
Line 21:
"तत्पूर्वे द्विपदे स्थित्वा (स्थाप्यं) राक्षसं चैव पश्चिमे ।"
Line 22:
"गन्धर्वे (र्वे) द्विपदे स्थाप्यं भृश(वस्य) [तद्]द्विपदं भवेत् ॥ ५१ ॥"
Wait, let's look at the first word of line 22 again:
"गन्धर्वे ( र्बं )" or "गन्धर्वे ( र्वं )"?
वायुकोणप्रदेशे तु बाह्ये वा(च) पापराक्षसी।
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥ ५५ ॥
एकाशीतिपदं कृत्वा मध्ये नवपदं विधिम्।
पूर्वं रसपदं चैव तदेवमार्यमनः(सर्यम्णः) स्मृतम् ॥ ५६ ॥ 112
दक्षिणे रसपदं चैव विवस्वान्(स्वतः) एव कथ्यते।
पश्चिमे षट्पदं चैव मित्रस्य मि(स्थे)ति[ष्ठि]संस्मृतम् ॥ ५७ ॥
सौम्ये रसपदं चैव भूधरस्य चतुष्टयम्।
चतुर्दिक्ष्वन्तराले च ई(त्वी) विशादीनि(दि च) चतुष्टयम् ॥ ५८ ॥ 116
तत्तच्चतुष्पदे सर्वे कर्णे चाश्रयमीरितम्।
भूधरस्य ततः पूर्वे द्विपदा(दे) चापवस्तथा ॥ ५९ ॥
आर्य[क]स्य पदे सौम्ये ध्र(म्येऽ)पवत्स्या(स्यस्य) द्वयोस्तथा।
पूर्वे रसपदाद्याम्ये द्विपदे च सवित्रकः ॥ ६० ॥ 120
विवस्वती(तो) द्विपूवीदिदूशं (द्वयं शं) सावित्रिन्द्र(त्र)मेव च।
दत्ते रसपदात्प्रत्यक् द्विपदे च तथै(थे)न्द्रकः ॥ ६१ ॥
मित्रकस्य पदे याम्ये द्विपदे इन्द्रजयस्तथा।
पश्चिमे रसपदात्सौम्ये द्विपदे रुद्रदेवता ॥ ६२ ॥ 124
सौम्ये रसपदात्प्रत्यक् द्व्यंशे रुद्रजयस्तथा।
एवमन्तर्गते देवांस्तद्बाह्ये देशे राक्षसान् ॥ ६३ ॥
इन्द्रे चैव पदे भानुश्चाग्निश्चैव पदा(दे ऽ)ग्निके।
यमे चैव पदे चक्रि(क्री) नैर्ऋत्ये [ए]कपदेपितत्(ता) ॥ ६४ ॥ 128
जलेशै(श ए)कपदे प्रत्यक् पवनैकपदे मरुत्।
सौम्ये चैकपदे चै(च)न्द्रश्चेशस्यैकप[दं] दै(दे)शके ॥ ६५ ॥
पर्जन्ये(न्यस्यै)कपंदं चैव वेशकस्य तु दक्षिणे।
जयन्तस्य पदं चैकं पर्जन्यस्य तु दक्षिणे ॥ ६६ ॥ 132
महेन्द्रस्य पदं चैकं जयन्तस्य तु दक्षिणे।
सत्यकस्य पदं चैकमादित्यस्य तु दक्षिणे ॥ ६७ ॥
भृशस्यैकपदं प्रोक्तं सत्यकस्य तु दक्षिणे।
अन्तरिक्षस्यैकपदं वह्णिकोणस्य चोत्तरे ॥ ६८ ॥ 136
२४ मानमारे [ चध्यांयः
पूषस्य (धाञ्च) पदमेकं स्याच्चाग्निकोशस्य पश्चिमे ।
विधात(तथ)स्य पदं चैकं पूषकस्य तु पश्चिमे ॥ ६६ ॥
गृहक्षतस्यैकपदं विधात(तथ)स्य पश्चिमे ।
गन्धर्वस्य पदं चैकं धर्मदेवस्य पश्चिमे ॥ ७० ॥ 140
भृङ्गराजस्यैकपदं गन्धर्वस्य तु पश्चिमे ।
वृष(मृश)स्यैकपदं शस्तं भृङ्गराजस्य पश्चिमे ॥ ७१ ॥
दौवारिकस्यैकपदं गगनस्य तु चोत्तरे ।
सुग्रीवस्य पदं चैकं दौवारिकस्य चोत्तरे ॥ ७२ ॥ 144
पुष्पद्न्तस्यैकपदं सुग्रीवस्य तु चोत्तरे ।
असुरस्यैकपदं शस्तं वरुणस्य तु चोत्तरे ॥ ७३ ॥
शोषकस्य पदं चैकं चासुरस्य तु चोत्तरे ।
रोगस्यैकपदं प्रोक्तं शोषकस्यैव चोत्तरे ॥ ७४ ॥ 148
नागस्यैकपदं शस्तं पवनस्य तु पूर्वके ।
मुख्यस्यैकपदं ज्ञात्वा नागस्यैव च पूर्वके ॥ ७५ ॥
भल्लाटस्य पदं चैकं प्रोक्तं मुख्यस्य पूर्वके ।
मृगस्यैकपदं शस्तं सोमदेवस्य पूर्वकम् ॥ ७६ ॥ 152
अदितेस्तु पदं चैकं शस्तं मृगात्तु(गस्य) पूर्वके ।
अदितीशानयोर्मध्ये चोदिते(तै) कपदं भवेत् ॥ ७७ ॥
हेमवर्णं चतुर्हस्तं चतुर्वक्त्राष्टलोचनम् ।
श्वेतवस्त्रजटामौलियज्ञसूत्रोत्तरीयकम् ॥ ७८ ॥ 156
कर्णकुण्डलसंयुक्तमष्टकर्णं चतुर्गलम् ।
कमण्डलुं चाक्षमालां च वामसव्यकरौ(राभ्यां) धृतौ(तम्) ॥ ७९ ॥
अभयं(ये) दक्षिणे पूर्वेऽन्तस्य वा वरदे [इ]तरे ।
सर्वाभरणसंयुक्तं गण्डेन तिलकान्वितम् ॥ ८० ॥ 160
पदे सर्वेषु मध्ये तु सृष्ट्यर्थमिति रूपकम् ।
एवं पितामहं ध्यात्वा(येत्) पद्मासिंहासनोपरि ॥ ८१ ॥
रक्तवर्णं चतुर्हस्तमेकवक्त्रं द्विनेत्रकम् ।
करण्डमकुटोपेतं रक्तवस्त्रोत्तरीयकम् ॥ ८२ ॥ 164
सर्वाभरणसंयुक्तं परहस्तौ चाब्जधारिणौ (धृताब्जकौ) ।
पूर्वे च त्वभयं (ये) सर्वे (वौ) वरदं (दौ) वामहस्तकौ ॥ ८३ ॥
एवमार्यदेवस्य [च] ध्यात्वा धेनुञ्च पूर्ववत् ।
श्वेतवर्णं चतुर्हस्तं परे पाशाङ्कुशौ धृतौ ॥ ८४ ॥ 168
शेषमा (षं तथा) र्थेबलोक्तं ध्यात्वा देवं विवस्वत(न्त)म् ।
श्यामवर्या (र्णीः) तु मित्रं (त्रः) स्याच्छेषं पूर्ववदाचरेत् ॥ ८५ ॥
भूधरं हेमवर्णं तच्चाब्जपाशापरं (रे) करे ।
शेषं प्रागुक्तवद्ध्यात्वा वास्तुभूतोपरिस्थितम् ॥ ८६ ॥ 172
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ।
श्वेतवस्त्रातिरिक्ताञ्चं हेमवर्णांशुकाम्बरम् ॥ ८७ ॥
सर्वाभरणसंयुक्तं वरदं चाङ्कुशोधृतम् (च धृताङ्कुशम्) ।
अपवत्समिति प्रोक्तं चापवत्साञ्च(स्यं च) रक्तकम् ॥ ८८ ॥ 176
शेषं प्रागुक्तवद्ध्यात्वा समिन्द्रं (सवित्रं) रक्तवर्णवत् ।
द्विभुजान्वं समुद्गत्य शेषं तत्पूर्ववद्भवेत् ॥ ८९ ॥
साविन्द्र (त्रं) श्यामवर्णी (र्णी) वा (च) रक्तवस्त्रोत्तरीयकम् ।
इन्द्रस्य रक्तवर्णा च चेन्द्रराजस्य हेमवत् ॥ ९० ॥ 180
सर्वाभरणसंयुक्त (क्तं) रौप्य(रूप)दृष्टिसमन्वितम् ।
शेषं पूर्ववदुद्दिष्टं ध्यात्वा शेषं तु पूर्ववत् ॥ ९१ ॥
रुद्रौ च रक्तवर्णौ च द्विभुजौ च त्रिनेत्रकौ ।
त्रिशूलौ वरदौ चैव चर्माम्बरोत्तरीयकम् (कौ) ॥ ९२ ॥ 184
जटामकुटसंयुक्तौ सर्वाभरणभूषितौ ।
वृषारूढां (ढं) सदेवी च व्याघ्रचर्माम्बरां (रं) तथा ॥ ९३ ॥
श्वेतवर्णानिभं चैव सर्वाभरणशोभितम् ।
दक्षिणे च करे टङ्क(टङ्कां) हरिणौ वामके करे ॥ ९४ ॥ 188
अभयं पूर्वकेऽसव्ये वरदं वामहस्तके ।
ईशमूर्तिमिति ध्यात्वा रक्तवर्णा च शीष्पतम् (शचीपतिम् ) ॥ ९५ ॥
द्विभुजं च द्विनेत्रं च र(त)थैरावतवाहनम् ।
वराङ्कुशधरं देवं सर्वाभरणभूषितम् ॥ ९६ ॥ 192
२६ मानमारे [अध्यायः
नीलाम्बरधरं चैव यज्ञसूत्रोत्तरीयधृत्(तम्) ।
अग्निवर्णं चाग्निदेवं मेषवाहनसंयुक्तम् ॥ ९७ ॥
द्विभुजं च त्रिनेत्रं च ज्वालासदृशमूर्द्धजम् ।
स्रुक्स्रुवं पाणियुगले स्वाहादेव्या च संयुक्तम् ॥ ९८ ॥ 196
सर्वाभरणसंयुक्तं शेषं प्रागुक्तवद्भवेत् ।
महिषारूढं त्रिगो(ने)त्रं च ज्वालासदृशकुन्तलम् ॥ ९९ ॥
त्रिशूलं दक्षिणे हस्ते पाशं वामकरेऽधरे ।
धूम्रवर्णं रक्तवस्त्रं देव्या यम्या च संयुक्तम् ॥ १०० ॥ 200
यमं ध्यात्वा यथोक्तवत् सर्वाभरणभूषितम् ।
नरारूढं निर्ऋतिं द्विभुजं च द्विनेत्रकम् ॥ १०१ ॥
[अ] सव्यहस्ते गदां चैव वरदं वामहस्तके ।
श्यामवर्ये(र्यंमि)न्द्रदेव्यां(न्या) च संयुक्तं रक्तवस्त्रकम् ॥ १०२ ॥ 204
करण्डमकुटोपेतं ध्यात्वा शेषं तु पूर्ववत् ।
वरुणं मकरारूढं भरण्या सह सेवितम् ॥ १०३ ॥
द्विभुजं च द्विनेत्रं च करण्डमकुटान्वितम् ।
पाशाङ्कुशधरं चैव धवलं रक्तं(क्त)वाससम् ॥ १०४ ॥ 208
यज्ञसूत्रोत्तरीयं च नानाभरणभूषितम् ।
वायुदेवं मृगारूढं मारुत्या सह सेवितम् ॥ १०५ ॥
द्विभुजं च त्रिनेत्रं च पाशं च वरदं तथा ।
शेषं च पूर्ववद्ध्यात्वा शशिरूपमिहोच्यते ॥ १०६ ॥ 212
द्विभुजं च द्विनेत्रं च पङ्कजद्वयधारिणम् ।
अश्वारूढं चन्द्रिकया संयुक्तं श्वेतवर्णकम् ॥ १०७ ॥
श्वेताम्बरधरं यज्ञसूत्रं च मकुटान्वितम् ।
सर्वाभरणसंयुक्तं सौम्यं ध्यात्वा यथोक्तवत् ॥ १०८ ॥ 216
पर्जन्यं रक्तवर्णं च महा(जय)न्तं श्यामवस्त्रकम् ।
महेन्द्रं पीतवर्णं च द्विभुजं च द्विनेत्रकम् ॥ १०९ ॥
करण्डमकुटोपेतं सर्वाभरणशोभितम् ।
पाशपद्मावधारौ च (द्याधरौ चैव) रक्तवस्त्रोत्तरीयकौ (कम्) ॥ ११० ॥ 220
७] पदविन्यासलक्षणम् २७
सत्यं च श्वेतवर्णं च भृशेशं धूम्रवर्णकम् ।
नीलवर्णं चान्तरिक्षं च द्विभुजं च द्विनेत्रकम् ॥ १११ ॥
दण्डं पाशं च शूलं च वरदं च यथाक्रमम् ।
शेषं च पूर्ववद्ध्यात्वा सर्वाभरणभूषितम् ॥ ११२ ॥ 224
पूषं च (षाणं) रक्तवर्णं च वितथं [च] पीतवर्णकम् ।
गृहक्षतं कृष्णवर्णं [च] वक्त्रं रक्तपीतकम् ॥ ११३ ॥
गदा(दां) शूलञ्च (लं च) शक्तिञ्च(क्तिं च) त्रयः पाशौ समुद्धृतौ ।
शेषं पूर्ववदुद्दिष्टं करण्डमकुटान्वितम् ॥ ११४ ॥ 228
गन्धर्वं रक्तवर्णं च भृङ्गस्याञ्जनवर्णकम् ।
मृशस्य धूम्रवर्णं च शेषं प्रागुक्तवद्भवोत् ॥ ११५ ॥
दौवारिकः( कं ) श्यामवर्णं सुग्रीवं रक्तवर्णकम् ।
पुष्पदन्तं तथा कृष्णं गदापाशोद्धृतं तथा ॥ ११६ ॥ 232
शेषं पूर्ववदुद्दिष्टं वरदं च मकुटद्वयम् ।
असुरं कृष्णवर्णं च शोषस्य धूम्रवर्णकम् ॥ ११७ ॥
रोगं च कृशरूपं स्याद्रक्ताक्षौ(क्षं) श्वेतवर्णकौ(कम्) ।
शूलं कपालं चोद्धृत्य शेषं प्रागुक्तवद्भवेत् ॥ ११८ ॥ 236
भुजङ्गाननं नागस्य पीतवर्णकरद्वयम् ।
मुसलं शूलमुद्धृत्य सर्वाभरणभूषितम् ॥ ११९ ॥
मुख्यं गजमुखं चैव द्विभुजं मकुटान्वितम् ।
रक्तवर्णांशुकपेतं श्यामवर्णाभिशोभितम् ॥ १२० ॥ 240
पाशाङ्कुशोद्धृतौ हस्तौ सर्वाभरणभूषितम् ।
भल्लाटं मेषवक्त्रं च जयं(शेषं) तत्पूर्ववद्भवोत् ॥ १२१ ॥
मृगस्य मृगवक्त्रं च मृगवर्णानि(र्णी च) मौलिका(कम्) ।
शूलं च खेटको(कमु)द्धृत्य अप(था)दितिं नीलवर्णक(का)म् ॥ १२२ ॥ 244
खड्गं कपालमुद्धृत्य मकुटाभरणान्वित(ता)म् ।
उदितं रक्तवर्णं च सिंहवक्त्रं गदाधरम् ॥ १२३ ॥
शेषं प्रागुक्तवद्ध्यात्वा चैव प्रोक्तं पदेऽमरात् ।
चरकी श्वेतवर्णा च विदारी रक्तवर्णिका ॥ १२४ ॥ 248
२८ मानसारे [अध्यायः
पूतना श्यामवर्णा च नीला स्यात्पापराक्षसी ।
एवं चतुर्विधाः प्रोक्ताः शूलं कपालमुद्धृतौ ॥ १२५ ॥
रक्तवस्त्रधरास्तासां दंष्ट्रा [घो] त्रविलोचनी(ने) ।
रक्तकेशैर्विकीर्णांश्च चैशादिकर्णयोर्ध्व(कर्णानां व) हिः ॥ १२६ ॥ 252
स्थितवास्तुपुरुषोर्ध्व(पे)तद्ब्रह्मादिदे(दै)वतान्स्थितान् ।
तद्वास्तुपुरुषं ज्ञात्वा ब्रह्मांशे मध्यकायं च ॥ १२७ ॥
आर्यस्य च पदे मूर्ध्नि(र्धा) प्रागुदङ्मुखतो विदुः ।
ऐशाने कोणसूत्रे तु सव्यहस्तं प्रसारितम् ॥ १२८ ॥ 256
नैर्ऋत्ये कोणसूत्रे तु सव्यपादं प्रसारितम् ।
अग्निकोणे तु सूत्रे तु [अ]सव्यहस्तं प्रसारितम् ॥ १२९ ॥
वायुकोणे च सूत्रेत्वा(तु वा)मपादं प्रसारितम् ।
विवस्वति पदे चैव दक्षिणं पार्श्वमीरितम् ॥ १३० ॥ 260
भूधरस्य पदे चैव वामपार्श्वं विधीयते ।
मित्रस्य च पदे चैव ज्ञात्वा मेढ्रमुदीरितम् ॥ १३१ ॥
कर्णे मर्मशिरा प्रोक्ता षड्विंशद्(वंशं) हृदये कचम्(यमेकम्) ।
पश्चिमे दक्षिणे वंशो मूलं तत्प्रागुदग्मयः ॥ १३२ ॥ 264
एवं वास्तुपुरुषं कुब्जं च कुटिलि(ल)कं कृशम् ।
वास्तुवस्तु प्रयत्नेन देवानां तु नृणां तथा ॥ १३३ ॥
शुभाशुभविधातारं तस्याङ्गानां(ङ्गानि) न पीडयेत् ।
अज्ञानादङ्गहीनं च( चेत् ) कर्ता चैव विनश्यति ॥ १३४ ॥ 268
तस्मात्तु शिल्पिभिः(नः) प्राज्ञैः(ज्ञ) ऊहापोहान्न योजयेत्(युः) ।
देवानामपि सर्वेषां ब्रह्मांशां(शो) पश्य(बलिं) ते विदुः ॥ १३५ ॥
तत्तत्पदेऽमरान् सर्वान् स्थितान्भक्तिं प्रदिक्षितम् ॥ १३६ ॥
इति मानसार वास्तुशास्त्रे पदविन्यास लक्षणं नाम सप्तमोऽध्यायः ।
८] बलिकर्मविधानम् २६
बलिकर्मविधानम्
बलिकर्मविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
ग्रामादीनां च सर्वेषां विन्यासाार्थं बलिं. क्षिपेत् ॥ १ ॥
वास्तुशुद्धिं ततः कृत्वा देवतार्थं पदं न्यसेत् ।
मण्डूकपदमेवाऽपि परमशायिकमेव वा ॥ २ ॥
ब्रह्मादिदेवतानां च राक्षसानां बलिं क्षिपेत् ।
कृतोपवासः स्थपतिः शुद्धदेहः प्रसन्नधीः ॥ ३ ॥
उत्कृष्टवेषो बल्यर्थं रात्रौ द्रव्यान्(णि) समाहरेत् ।
प्रभाते दिवसे द्रव्याने(ण्ये)कैकाने(न्ये)ककन्यकः ॥ ४ ॥
अथवा गणिकाहस्ते पात्रे स्वर्णादिकान्वृता[न्] ।
स्थपतिश्चैकपात्रेण धारयेद्वामके करे ॥ ५ ॥
द्रव्याणि क्षिप्य(प्त्वा) दद्यात्स्वसव्यहस्तेन मन्त्रवित् ।
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ॥ ६ ॥
सर्वमङ्गलघोषैश्च बलिं दत्वा यथाक्रमात् (क्रमम्) ।
तत्तन्नाम्नैश्च (न्ना च) देवानामोङ्कारादिनमोन्तकम् ॥ ७ ॥
मन्त्रमेतत्(तम्) समुच्चार्य ब्रह्मादिभ्यो बलिं हरेत् ।
देवाल्यार्थं सामान्यं ग्रामार्थं तु विशेषकम् ॥ ८ ॥
दध्योदनं च सर्वं तत्सामान्यं च बलिं विदुः ।
ब्रह्मादीनां च देवानां धूपदीपाक्षतैरपि ॥ ९ ॥
अथ वक्ष्ये विशेषाख्यं बलिं शास्त्रोक्तवत्क्रमात् ।
स्रग्गन्धधूपदुग्धं च मध्वाज्यं पायसमो(सौ)दनम् ॥ १० ॥
ब्रह्मणे च बलिं दद्याल्लाजेन सह तन्त्रवित् ।
आर्याय फलभक्ष्यं स्यात्तिलमोदनकं दधि ॥ ११ ॥
पश्चाद्विवस्वते दद्याद्दधिपूर्वा(र्वं) च मर्द(मित्र) के ।
महीधराय क्षीरं स्यादभ्यन्तरबलिं(लिः) स्मृतम् (तः) ॥ १२ ॥
३० मानमारे [अध्यायः
पर्जन्यस्य तु तत्प्रोक्तं पुष्पं च नवनीतकम् ।
दत्वा ज(याज्ज)यन्ताय बलिं पुष्पकोष्ठ(पिष्टं) महेन्द्रके(न्द्राय) ॥ १३ ॥
मधुगन्धो(न्धे) भास्करः(राय) स्यात्सत्याय मधुरे(ध्वे)व च ।
नवनीतं भृशस्योक्तं गगने(नाय) च ततो बलिम् ॥ १४ ॥ 28
हारिद्रचूर्णमाषान्नं दुग्धाढ्यं(ड्यं) सा(त) गरस्य तु ।
शुद्धक्षीरं तथा चाग्नेः परमान्नं तु पुष्यिके(शं पूष्णस्तथा) ॥ १५ ॥
वितथे स्यात्तु (थस्य तु) पक्वान्नं राक्षसम्यं तु मांसकम् ।
चामात्रं तु सरं प्रोक्तं बलिं चा(लिश्चा)न्तकरस्य वै ॥ १६ ॥ 32
अगुरुं गन्धकं चैव गन्धर्वस्य बलिं क्षिपेत् ।
पारावारभृफ(षो) भृङ्गराजस्य वलिरिष्यते ॥ १७ ॥
दध्योदनं मृ
पूतनायै तिलं पिष्टं विदार्यै लवणाशनम् ।
चरकियै(चरक्यै) मुद्गसारं च ए(ह्ये)वं तु बलिरिष्यते ॥ २७॥
एवं तु पूजयेद्देवान् ग्राम्ययेद्र(ग्रामस्य र)क्षणार्थकम् ।
ब्रह्माद्या(दिरा)दावपवञ्चेति चतुर्देवपदे स्थितम्(तः) ॥ २८ ॥
अन्याश्च देवताः सर्वे(र्वाः) पदबाह्ये स्थिताः सदा ।
इह ग्रामस्य रक्षार्थं सुप्रसन्ना भवन्तु ते ॥ २९ ॥
इति मन्त्रं समुच्चार्य प्रार्थयेद्बलिदेवताः ।
बलिकर्मविधाने तु स्थपतिः स्वं शिवं स्मरेत् ॥ ३० ॥
किमर्थमेतत्(द)सुराणां(र)भूतप्रेतोपशान्तये ।
अकृत्वा बलिकर्मेन्तु(र्म तु) विन्यस्तं समचाबवम्( च समुच्चयम्) ॥ ३१ ॥
विन(ना)श्यति(ते) तदा भूमिः राक्षसैर्विदाहाख्यैः ।
तद्दोषापगमार्थं तु बलिकर्म समाचरेत् ॥ ३२ ॥
उक्तमार्गं बलिं(लि)कर्म कुर्वतो ग्रामशम्भुनिलयादिभिः सदा ।
पुष्टि[स्]तुष्टिरपि शान्तिर्मङ्गलं सर्वदा भवति कर्तृभर्तुः ॥ ३३ ॥
इति मानमारे वास्तुशास्त्रे बलिकर्मविधानं नाम अष्टमोऽध्यायः ।
३२ मानमारे [अध्यायः
ग्रामलक्षणम्
वक्ष्येऽहं ग्रामविन्यासं शास्त्रे संक्षेपतः क्रमात् ।
दण्डकं सर्वतोभद्रं नन्द्यावर्तं तु पद्मकम् ॥ १ ॥
स्वस्तिकं प्रस्तरं चैव कार्मुकं च चतुर्मुखम् ।
एवं चाष्टविधं ग्रामं तत्तद्रूपेण संज्ञितम् ॥ २ ॥ 4
प्रथमं ग्राममानं च द्वितीयं पद(दं) विन्यसेत् ।
तृतीयं तद्बलिं दत्वा चतुर्थ ग्राम (मं) विन्यसेत् ॥ ३ ॥
पञ्चमं गृह(हं) विन्यस्य तत्र गर्भं विनिक्षिपेत् ।
षष्ठं गृहप्रवेशं च तन्मानमधुनोच्यते ॥ ४ ॥ 8
धनुर्मद्वैश्च यद्दण्डं तद्दण्डेनार्पयेद्बुधः ।
पञ्चविंशतिदण्डाद्यैः(दैः) द्विद्विदण्डविवर्धनात् ॥ ५ ॥
एकाधिकशतान्तं स्यान्नवत्रिंशद्विशालकम् ।
एवं तु दण्डकं प्रोक्तं तस्यायाममि (म इ) होच्यते ॥ ६ ॥ 12
विस्ताराद्द्विद्विदण्डेन वर्धयेद्द्विगुणान्तकम् ।
यः(यतः) शुभायादिकमार्थं दण्डहीनाधिकं तु वा ॥ ७ ॥
वानप्रस्थमिदं योग्यं क्षुद्रदण्डकमीरितम् ।
एकत्रिंशतिदण्डा(शद्दण्डमा)द्ये द्विद्विदण्डेन वर्धनम् ॥ ८ ॥ 16
सप्ताधिकशतान्तं स्यात्सप्तषट्द्विविशालकम् ।
दीर्घ प्रागुक्तवत्कुर्यादेतद्दण्डक (कं) मध्यमम् ॥ ६ ॥
सप्तत्रिंशतिदण्डादि(शद्दण्डमादौ) द्विद्विदण्डविवर्धनात् ।
त्रयोवेददशाधिक्यशतदण्डावसानकम् ॥ १० ॥ 20
दण्डकं चोत्तमं पञ्चचत्वारिंशद्विशालकम् ।
एतत्तु दण्डकं प्रोक्तं भूसुराणां तु योग्यकम् ॥ ११ ॥
पञ्चाशद्दण्डमारभ्य द्विद्विदण्डविवर्धनात् ।
द्विश˙ दण्डान्तकं स्यात् षट्सप्ततिविशालकम् ॥ १२ ॥ 24
९] ग्रामलक्षणम् ३३
षष्टे तु (षष्ट्यैकं) दण्डमारभ्य द्विद्विदण्डविवर्धनात् ।
सैकार्कत्रिं(त्रि)शतं दण्डाद्(ण्डं) त्रि(शत) सप्तद(विं) शविस्तृतम् ॥ १३ ॥
युग्मायुग्मं तु दण्डेन सर्वतोभद्रमेव च ।
भूसुरामरयोग्यं स्यात्तदायामविशालकम् ॥ १४ ॥ 28
नन्द्यावर्तं (न्दैकन्त्रि) ग्राम ग्राम (मे) द्विद्विदण्डविवर्धनम् ।
पञ्चषष्ठ्यधिकं पञ्चशतदण्डावसानकम् ॥ १५ ॥
एव(वं) पञ्चद्विशतं विशालं परिकीर्तितम् ।
विस्तारायामस्तत्तुल्यो [पादेनोऽर्धाधिकस्तथा] ॥ १६ ॥ 32
(विस्ता) रं द्विद्विदण्डेन वर्धयेद्द्विगुणान्तकम् ।
नन्द्यावर्तमिदं प्रोक्तं वर्तव्यं (वस्तव्यं) देवभूसुरैः ॥ १७ ॥
[अथायतः] पद्माकनामग्रामलक्षणमुच्यते ।
शतदण्ड(ण्डं) समारभ्य द्विद्विदण्डविवर्धनात् ॥ १८ ॥ 36
एकसहस्रदण्डान्तं(न्तो) विस्तारं तत् समं मतम् (रस्तत्समो मतः) ।
परमाधिकपञ्चाशच्चतुःशतविशालकम् ॥ १९ ॥
विप्रयोग्यं तथा पद्ममेवमुक्तं पुरातनैः ।
[एतच्चत्वारि] ग्रामविस्तारप्रमाणलक्षणम् ॥ २० ॥ 40
[अथ] स्वस्तिकविन्यास (विस्तार) मानलक्षणमुच्यते ।
एकद्विशतदण्डादौ विंशदण्डविवर्धनात् ॥ २१ ॥
द्विसहस्रे (स्रै) कदण्डान्तं (न्तो) विस्तारं (रः) परिकीर्तितम् (तः) ।
तस्मात्रिंशतिदण्डेन वर्धयेत्तत्समाधिकम् ॥ २२ ॥ 44
तस्यायाममिदं (मो द्वयं) प्रोक्तं (क्तः) स्वस्तिकं भूपयोग्यकम् ।
[अतःपरं] प्रस्तरविन्यास (विस्तार) लक्षणमुच्यते ॥ २३ ॥
त्रिशतदण्डमारभ्य शतदण्डविवर्धनात् ।
सहस्रद्वयदण्डान्तं प्रस्तरं विस्तृतं भवेत् ॥ २४ ॥ 48
सपञ्चषष्टिदण्डादौ द्विद्विदण्डविवर्धनात् ।
युग्मायुग्मं तथा वाऽपि दण्डं पञ्चशतान्तकम् ॥ २५ ॥
एतत् (एष) कार्मुकविस्तारं त(रस्त) स्यायाममि (म इ) होच्यते ।
तस्मात्तु शतदण्डेन वर्धनाद्द्विगुणान्तकम् ॥ २६ ॥ 52
5
एवं तु वैश्यकानां तु योग्यं तत्कार्मुकं भवेत् ।
त्रिंशद्दण्डं समारभ्य त्रित्रि(द्विद्वि)दण्डविवर्धनात् ॥ २७॥
शतदण्डावसानं(नः) स्याद्विस्तारं(रः) परिकीर्तितम्(तः) ।
तत्तत्त्रित्रि(द्वि)द्विदण्डेन वर्धयेन्मु(गु)ख्यान्तकम् ॥ २८॥ 56
एवं चतुर्मुखं प्रोक्तं शूद्राणामेव योग्यकम् ।
मुख्यगेहप्रदेशान्तं विस्तारायाम(मं) कल्पयेत् ॥ २६॥
तद्वृद्धिः परितः कुर्यात्तत्सा तु तदनन्तरे ।
दशादिशतदण्डान्तं द्विद्विदण्डेन वर्धनात् ॥ ३० ॥ 60
एवं ग्रामं(म)प्रसारं च तद्वृद्धिप्रसंयुतम् ।
परितः परिखा(खां) बाह्ये कुर्याद्ग्रामेषु सर्वशः ॥ ३१ ॥
एतेषां ग्रामरूपाणामायामादिलक्षणं तथा ।
नन्दायामसमूहे वा जायते वाऽथ विस्तरे ॥ ३
सितगुरुशशिबुधवारमेवं शुभं भवेत् ।
शुभयोगं(गो) भवेच्च(रुचे)त्तु वारदोषो न विद्यते ॥ ४१ ॥
सौरवारादिहारेषु वारयुक्तं चतुर्दिने ।
गणैस्तु विशाखादिस्वातिकान्तं क्रमात्ततः ॥ ४२ ॥
गण्डं च मृत्युयोगं च सिद्धियोगमिदं(ति) विदुः ।
अमावस्या[म]ष्टमी चैव(च) नवमीं च विवर्जयेत् ॥ ४३ ॥
अन्यथा शुभदं सर्वं तिथिरथैव प्रशस्यते ।
अष्टमं(म)राशिवर्जं च अन्ये(तथान्ये) शुभराशयः ॥ ४४ ॥
गणे वा(चाऽऽ)सुरमानुष्यं विना अन्ये(न्यो) गणे(णो) शुभम् (भः) ।
सौरादियदि(शनि)वारान्तं तत्सर्वं त्रिगुणा[स]समम् ॥ ४५ ॥
अश्विन्यादिदिनं हत्वा तच्छेषं नयनं भवेत् ।
प्रथमं चैकनेत्रं च द्वितीयं च द्विनेत्रकम् ॥ ४६ ॥
[L
३६ मानसारे [अध्यायः
उपद्वारो(रमु)क्त्वकुर्याद्विष्णुधिष्ण्यं तु पश्चिमे ।
तद्ग्रामस्य बहिर्वाऽपि वरुणे च पदे तथा ॥ ५५ ॥
मित्रे चैव पदे चापि विष्णुमूर्तिर्यथेष्टकम् ।
ईशे शङ्कर(रं) संस्थाप्य पर्जन्ये चोदिते तथा ॥ ५६ ॥ 112
अन्तर्वाऽपि बहिर्वाऽपि यथेष्टकं(ष्टं) शिवहर्म्यकम् ।
एतद्दण्डकमित्युक्तं भूसुराणां तु योग्यकम् ॥ ५७ ॥
द्वादशीथिं(शद्वि)प्रसंघं वा चतुर्विंशतिभूसुरान् ।
पञ्चाशद्द्विजसंघैश्च अ(ष्टा)द्योत्तरशतं तु वा ॥ ५८ ॥ 116
त्रिंशत्द्विजसंघैर्वा द्वादशं चेति मौनिनाम् ।
वनान्तरे पर्वते वा तथा चाश्रममीरितम् ॥ ५९ ॥
चतुर्विंशतिसंघं चेद्यतीनां ग्रामयोग्यकम् ।
एतत्तु नदीतीरे वा
९] ग्रामलक्षणम् ३७
अथवा कृतकुल्या च कर्णयुक्तम(का त्ता)थापि च ।
ईशानादिचतुष्कर्णे मठं वा मण्डपं तु वा ।। ६६ ।।
तत्रैव सत्रशाला वा आ(चाऽऽ)ग्नेये पानीयमण्डपम् ।
अन्यधर्मालयं सर्वं यथेष्टं दिशितो( तु ) भवेत् ।। ७० ।। 140
अन्तरस्थे चतुष्कर्णे गुरोरेवं मठं भवेत् ।
रक्षार्थं वप्रसंयुक्तं परितः परिखान्वितम् ।। ७१ ।।
चतुर्दिक्षु महाद्वारो(रमु )पद्वारमुक्तवद्भवेत् ।
महारथ्या[या]मालयं कुर्यात्सर्वकर्मोपजीविनाम् ।। ७२ ।। 144
दक्षिणे वैश्यशूद्राणामालयं(य)श्रेणिरेव च ।
इन्द्रे(न्द्रश् )चाग्नि(ग्निस्र् )तयोर्मध्ये गोपालश्रेणिरेव च ।। ७३ ।।
तद्बहिश्चैव गोशाला रक्षार्थं वप्रसंयुतम् ।
पितृवारुणयोर्मध्ये वस्त्रकर्मकरालयम् ।। ७४ ।। 148
तद्बहिः सूचिकहर्म्यं तत्र चर्मकरालयम् ।
वायुवरुणयोर्मध्ये कर्मकरालयं भवेत् ।। ७५ ।।
तद्बहिश्शालयं कुर्यान्मत्स्यमांसोपजीविनाम् ।
सौम्ये(म्यो ) वायु(युस् )तयोर्मध्ये श्रीकराणामालयं भवेत् ।। ७६ ।। 152
तत्र वैद्यालयं वाऽपि भ्र(चा)म्बष्ठकालयमेव च ।
तस्य बाह्यप्रदेशे तु वल्कलैःक(लका)र्मणालकम् ।। ७७ ।।
तत्र तैलोपजीविनां गृहश्रेणिं प्रकल्पयेत् ।
ग्रामस्य वप्र(प्रं ) तद्बाह्ये किञ्चिद्दूरो(रे ऽ)त्तरे(रस्यां) दिशि ।। ७८ ।। 156
वैष्णव्याश्चाथ चामुण्डा[ या ] आ(चा)लयं कारयेद्बुधः ।
तस्माद्दूरे तु देशे च चण्डालकुटिकान्वितम् ।। ७६ ।।
जनावासमिदं प्रोक्तं ग्रामाद्बाह्यप्रदेशके ।
दक्षिणे पश्चिमे वाऽपि नैर्ऋत्ये वाऽपि देशके ।। ८० ।। 160
स्नानपानादिकं(क)योग्यं तटाकं कल्पयेत्ततः ।
शेषं तु शास्त्रमार्गेण कारयेच्छिल्पि(ल्प)वित्तमः ।। ८१ ।।
नन्द्यावर्तस्य विन्यासल्क्षणं वक्ष्यतेऽधुना ।
पूर्वोक्तदण्डमानेन विस्तारायामकल्पनम् ।। ८२ ।। 164
३८ मानमारे [अध्यायः
समविस्तारमायाममायाधिकमथापि वा ।
चण्डिताख्यपदं न्यासं [वाऽपि] मण्डूकं परिकल्पयेत् ॥ ८३ ॥
ग्रामे चायनविस्तारौ समे(मौ) चेत्कल्पयेत्सुधीः ।
आयाधिकं यथा ग्रामे नन्दनन्दपदं भवेत् ॥ ८४ ॥ 168
अथवा स्थण्डिलं न्यस्य(सेत्) समायाममित्यपि वा ।
पदं च चण्डित(तं) तन्मध्ये ब्रह्माख्यञ्च चतुष्पदम् ॥ ८५ ॥
तद्बहिः परितो भागे दैवंकं च (द्वा)दशांशकम् ।
तद्वाह्यं विंशतिपदं परितो मानुषं भवेत् ॥ ८६ ॥ 172
तद्बहिर्वाह्यतांशेन पैशाचं चाष्टविंशति(तिः) ।
एवं तु चण्डितं प्रोक्तं परमशायिकमुच्यते ॥ ८७ ॥
मध्ये नवपदं बाह्ये दैवंकं षोडशांशकम् ।
तद्बहिर्मानुषं चैव चतुर्विंशपदं भवेत् ॥ ८८ ॥ 176
पैशाचं बाह्यमावर्तं तत्रिंशकं पदम् ।
स्थण्डिलं(ल)पदमध्ये च ब्रह्माणास्यै(ण ए)कमात्त्रकम् ॥ ८९ ॥
दैवंकं चाष्टभागं स्यान्मानुषं षोडशांशकम् ।
तद्बहिश्च चतुर्विंशत्पदं पैशाचमेव च ॥ ९० ॥ 180
एषां पदैर्यथायोग्यं विन्यसेच्छिल्पि(ल्प)वित्तमः ।
तत्पैशाचपदं चोक्तं नन्द्यावर्ताकृतिर्भवेत् ॥ ९१ ॥
प्राचीरथ्योत्तरा(रमार)भ्य स्याद्दक्षिणायत(तं) निर्गमम् ।
दक्षिणावीथीपूर्वादिपश्चिमायतनिर्गमम् ॥ ९२ ॥ 184
पश्चिमवीथी(थ्याः) दक्षिणया(णा)दुत्तरायत(तं) निर्गमम् ।
उदग्वीथी(थ्याः) प्रतीच्यादितत्पूर्वायत(तं) निर्गमम् ॥ ९३ ॥
नन्द्यावर्तावृतावीथीमे(प)बमूह्यां(ह्या) विचक्षणैः ।
दक्षिणोदग्द्वयोर्वाऽपि प्राक्प्रत्यग्ववि(द्धि)तयो[र]पि [वा] ॥ ९४ ॥ 188
अन्तर्वीथीनां मूलाग्रौ(प्रयोः) चैकपचं प्रयोजयेत् ।
पार्श्वयोश्च द्विविधं स्यात् पक्षमुक्तं पुरातनैः ॥ ९५ ॥
एवं बाह्यवीथी स्यादन्तर्वीथिरि(थी त्वि)होच्यते ।
आयते दीर्घरथ्या स्याद्विस्तारे दीर्घमेव च ॥ ९६ ॥ 192