मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
५०] धूपशाललक्षणम् ३३१
नवाङ्गुलं समारभ्य पञ्चविंशाङ्गुलान्तकम् ।
पूर्ववन्नवधा प्रोक्तं विशालं तुङ्गं पूर्ववत् ॥ १२४॥ 248
विस्तारं तु समाश्रं स्याद् गोधारैः(रस्य) पञ्जरान्वितम् ।
सार्धहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ॥ १२५॥
अर्धाधिकं त्रिहस्तान्तं कन्यसादि त्रयं त्रयम् ।
नवधा व्याघ्रनीडं स्याद्विस्तारं परिकीर्तितम् ॥ १२६॥ 252
उत्सेधं पूर्ववत्कुर्यात्समाभ्रं तद्विशालकम् ।
चतुरश्रैकभित्तिः स्याच्चतुःस्तम्भसमन्वितम् ॥ १२७॥
मध्यद्वारं तु संकल्य कवाटं चैकमेव च ।
उत्सेधे तु षडंशं स्यात्पादुकं चैकभागिकम् ॥ १२८॥ 256
पादोशं तु युगांशं स्यादेकांशं चोर्ध्वपट्टिका ।
अथवाष्टांशतुङ्गे तु चैकांशं पादुकं द्वयम् ॥ १२६॥
षड्भागं पादतुङ्गं स्यादेकांशमूर्ध्वपट्टिका ।
चतुष्कं च चतुर्द्वारु पादुकं चोर्ध्वपट्टिका ॥ १३०॥ 260
कुर्यात्कर्करि(रिं) कोष्ठे तु पादमूलाग्र(ग्रे) योजयेत् ।
ऊर्ध्वाधो निर्गमं शूले त्रियंकीलं प्रयोजयेत् ॥ १३१॥
एकद्वित्रिचतुर्मात्रं पादविष्कम्भमिष्यते ।
द्वित्रिवेदचतुष्पञ्चषट्सप्ताङ्गुलकं तथा ॥ १३२॥ 264
पट्टिकोपानविस्तारं यथायुक्त्या प्रयोजयेत् ।
ऊर्ध्वाधश्च चतुर्दिक्षु वातायनं समुद्भवत् ॥ १३३॥
तरङ्गे(तुङ्गे च) वेत्रसंयुक्तं कुञ्जराद्यैरलंङ्कृतम् ।
पादानां चतुरश्रं वा चोक्तवत्समलङ्कृतम् ॥ १३४॥ 268
तदेव चोर्ध्वदेशे तु कृत्वा चक्राकृतिस्तथा ।
सर्वालङ्कारसंयुक्तं कुर्यात्तु सर्वनिीडकम् ॥ १३५॥
चातकस्य चकोरस्य दण्डकाकृतिवद् भवेत् ।
द्वितृतीये(तय) चतुष्पञ्च वासं कुर्यात्तु दीर्घके ॥ १३६॥ 272
शेषं प्रागुक्तवत्कुर्यात्सर्वालङ्कारसंयुतम् ।
शुकस्य पञ्जरे तुङ्गे चाष्टभाग(गं) विभाजिते ॥ १३७॥
has a curve like २!
Wait, look at line 16: ॥ २४५ ॥ or ॥ १४५ ॥? It has the same curve!
Wait, look at line 19: ॥ २४६ ॥!
Wait, look at the margin numbers on the right:
Line 2: 276
Line 6: 280
Line 10: 284
Line 14: 288
Line 18: 292
Line 22: 296
Line 26: 300
These margin numbers count lines of the text in the chapter!
Line 276 is line 2!
Line 280 is line 6!
Line 284 is line 10!
Line 288 is line 14!
Line 292 is line 18!
Line 296 is line 22!
Line 300 is line 26!
This means the lines are continuous within the chapter! This is all ONE chapter!
And why did the verse numbers jump from 145 to 246?
Because the typesetter made a HUGE typo: they switched from 14x to 24x!
In fact, line 12 is printed as २४३ (types
५०] भूषणलक्षणम् ३३३
ब्रह्माविष्णुमहेशशक्रसकलैः दिक्पालकैः किन्नरैः
गन्धर्वैरपि सर्वदेवनिकरैः दुर्गाशचीगौरीभिः । 304
चामुण्डादि(दैः) सरस्वतीगणपतेः षाण्मातुरस्यापि तत्
संख्यातं सकलं विभूषणगणा[नि] नित्यादिनैमित्तिकैः ॥ २४६ ॥
राजाधिराजैरपि राजसर्वैः
वर्णांश्च तस्तै(त्रिभि)रपि देवदेव्याः । 308
विहङ्गमैः (नानां) पञ्जरमेवमुक्तम्
कृतं श्रियेत्यन्यदलक्ष्मि(च्मी)हेतुः ॥ २५० ॥
इति मानमारे वास्तुशास्त्रे भूषणलक्षणविधानं नाम पञ्चाशदध्यायः ॥
त्रिमूर्तिलक्षणम्
ब्रह्माविष्णुमहेशानां लक्षणं वक्ष्यतेऽधुना ।
हिरण्यरजतेनैव ताम्रेणैव शिले वापि(लया वा) ॥ १ ॥
दारुजे[न] सुधे वापि[घया च] शर्कराभासमृत्तिका(द्विश्च) ।
एतैस्तु नवधाद्रव्यैः चो(श्रो)त्तमादि त्रयं त्रयम् ॥ २ ॥ 4
चलं वाप्यचलं चापि नवद्रव्यैस्तु निर्मितः ।
लोहजैमृत्(श्च) सुधा चै(घयै)व शर्कराभासमृत्तिका(द्विश्च) ॥ ३ ॥
चलद्रव्यमिति प्रोक्तमन्येषां च(वा)चलं विदुः ।
चित्राङ्गमर्धचित्राङ्गमाभासाङ्गं त्रिधोच्यते ॥ ४ ॥ 8
सर्वाङ्गं द्रव्य(दृश्य)मानं यच्चित्रमेवं प्रकथ्यते ।
अर्धाङ्गद्रव्य(दृश्य)मानं च तदर्धचित्रमिति स्मृतम् ॥ ५ ॥
अर्धार्धदर्शनं(दृश्य)मानमाभासमिति कथ्यते ।
आभासं पञ्चवर्णेन पट्टवित्येव(भित्तौ वा) कल्पयेत् ॥ ६ ॥ 12
चित्रं यत्नोत्तमं प्रोक्तमर्धचित्रं तु मध्यमम् ।
आभासमधमं प्रोक्तं कुर्याद्देवं तु सर्वदा ॥ ७ ॥
उत्तमं सर्वसिद्धिः(द्धि) स्यान्मध्यमं भोगमोक्षकम् ।
अधमं भोगसिद्धिः(द्धि) स्यादीश्वरेणैव कीर्तितम् ॥ ८ ॥ 16
स्थावरं जङ्गमं चैव द्विविधं बेरमुच्यते ।
जङ्गमं चोत्सवं भवेत्सर्व(वं) स्थाबरमिष्यते ॥ ९ ॥
उत्तमं लोहजं बिम्बं पीठाभासं तु चोत्स(त्त)मम् ।
स्थानकं चासना(नं) शयनं वैशाखं वैष्णवं तथा ॥ १० ॥ 20
नृत्तादिसर्वबेराणां द्रव्यमुक्तं सनातनम् ।
तत्तद्द्रव्यैस्तु बिम्बानां भिन्नपीठं प्रकल्पयेत् ॥ ११ ॥
अध्यायः ५१] त्रिमूर्तिलक्षणम् ३३५
लम्बासने च शयने शिलापीठं तु भिन्नकम् ।
एककाले कृतं सर्वं सुधासूटकटशर्करैः ॥ १२ ॥ 24
बेराणां द्रव्यमित्युक्तं मूर्त्तिध्यानं प्रवक्ष्यते ।
चतुर्भुजं चतुर्वक्त्रं द्विपादं चाष्टलोचनम् ॥ १३ ॥
अष्टकर्णसमायुक्तं तनूरुश्चैकाकृतिस्तथा ।
उत्तमं दशतालेन मानयेच्चाङ्गमानकम् ॥ १४ ॥ 28
स्थानकं चासनं वापि चीरवे(राम्ब)रधरं तथा ।
वरदाभयहस्तं च जटामकुटमण्डितम् ॥ १५ ॥
कुण्डिका चाक्षमाला च वामे वामे करे क्रमात् ।
स्रुक्स्रुवधारणं वापि प्राग्वरदाभयान्वितम् ॥ १६ ॥ 32
मकरलाञ्छितं पुष्पं कुण्डलं वाथ कर्णयोः ।
यज्ञसूत्रोत्तरीयादि मात्रायोदरबन्धनम् ॥ १७ ॥
हारोपग्रीवसंयुक्तं बाहुमालाविभूषितम् ।
केयूरकटकाद्यैश्च कुर्यात्तु मणिबन्धनम् ॥ १८ ॥ 36
कटकत्रयसंयुक्तं नलका(क)कटकान्वितम् ।
कटिसूत्रादिपट्टं स्यान्नीव्यं चलनसंयुतम् ॥ १९ ॥
रत्नाङ्गुलीयकैः हस्तौ पादं जालसरत्नकम् ।
ललाटे वृत्ततिलकं स्याच्चन्दनागुरुमेव च ॥ २० ॥ 40
सर्वाङ्गं हेमवर्णी स्यात्तलकान्तं तु चीरयुक् ।
पार्श्वयोः शक्तिकोपेतं दक्षिणे तु सरस्वती ॥ २१ ॥
वामपार्श्वे तु सावित्री सर्वारणभूषितम् ।
एवं पितामहं प्रोक्तं कुर्याच्छिल्पविद्विबुधः ॥ २२ ॥ 44
चतुर्भुजं द्विनेत्रं च किरीटमकुटान्वितम् ।
पीताम्बरधरं युक्तं श्यामवर्णाङ्गशोभितम् ॥ २३ ॥
सर्वे(वै)वक्षःस्थले कुर्यात्तदूर्ध्वे श्रीवत्स लाञ्छनम् ।
उत्तमं(म)दशतालेन चाङ्गमानं च मानयेत् ॥ २४ ॥ 48
कटकं वा गदाधा(ध)रं चोर्ध्वमाश्रितमेव वा ।
अथवा वरदहस्तं स्यात्पुरते वामहस्तके ॥ २५ ॥
३३६ मानसारे [अध्यायः
दक्षिणो त्वभयं पूर्वं सव्ये चापर(रे) चक्रयुक् ।
अपरे वामहस्ते तु पाञ्चजन्यावधारणम् ॥ २६ ॥ 52
तत्समं कर्णपत्रं स्यात्कुर्यान्मकरकुण्डलम् ।
प्रसन्नवदनं तुङ्गं नासि दीर्घाक्षिशोभितम् ॥ २७ ॥
हारोपग्रीवसंयुक्तं यज्ञसूत्रोत्तरीयकम् ।
रत्नोदरबन्धं स्याद् बाहुमालाविभूषितम् ॥ २८ ॥ 56
कटकं कटिसूत्रं च केयूरं रत्नपूरितम् ।
रत्नाङ्गुलीयकैर्युक्तं पादजालविभूषितम् ॥ २९ ॥
नलकान्तं चलान्तं स्यात्पीताम्बरविलम्बनम् ।
शिरश्चक्रं शिरःपृष्ठे युक्तं सर्वाङ्गभूषणम् ॥ ३० ॥ 60
द्वयोर्जङ्घावसानं स्याद् वनमालामनोहरम् ।
एवं तु विष्णुमूर्तिः स्याच्छक्तियुक्तं(क्ता) तु पार्श्वयोः ॥ ३१ ॥
त्रि(श्री)भूमिं
५१] त्रिमूर्तिलक्षणम् ३३७
मध्ये चान्वितवक्त्रं स्याल्ललाटे चैकनेत्रयुक् ।
ग्रीवस्य वामपार्श्वे तु कालकूटसमन्वितम् ॥ ४० ॥ 80
यज्ञसूत्रोत्तरीयं च सर्वरत्ना(त्न)ङ्गुलीयकै ।
स्थानकं चासनं वापि पाद(दं) नूपुरशोभितम् ॥ ४१ ॥
एवं तु रुद्रमूर्तिः स्याद् वामभागे तु पार्वती ।
उत्तमं(म)दशतालेन मानयेत्स्वङ्गमानकम् ॥ ४२ ॥ 84
देवीनामपि सर्वेषां मध्यमं दशतालकम् ।
पद्मपीठं महापीठं त्रिमूर्तीनां च योजयेत् ॥ ४३ ॥
प्रभाव(पा च) तोरणं वापि कल्पवृक्षं च संयुतम् ।
एवं तु रुद्रविष्णूनां(ष्णोः) कुर्यात्तत्तु विधिवत्ततः ॥ ४४ ॥ 88
सर्वालङ्कारसंयुक्तं देवं ध्यात्वा त्रिमूर्तिनम् ।
अन्यान्य(न्यम)नुक्तं सर्वेषां शास्त्रमार्गेण योजयेत् ॥ ४५ ॥
उत्तमं(म)दशतालवशात्तु यत्
ब्रह्मविष्णुशिवसकलाङ्गकैः । 92
स्थावरे च जङ्गमकै [यदुक्तं]
शिल्पिभिः कुरु वाक्त(वोक्तं) मुनिवरैः ॥ ४६ ॥
इति मानमारे वास्तुशास्त्रे त्रिमूर्तिलक्षणविधानं नाम एकपञ्चाशदध्यायः ॥
42
लिङ्गविधानम्
लिङ्गमानविधिं(धिः) सम्यगलक्षणं वक्ष्यतेऽधुना ।
शैवं पाशुपतं चैव काला(ला)मुखं महावृ(व्र)तम् ॥ १ ॥
वामं च भैरवं चैव लिङ्गबा(स्वा) मान(नाम) षड्विधम् ।
समकर्ण वर्धमानं शिवाङ्कं स्वस्तिकं तथा ॥ २ ॥
एतच्चतुर्विधं लिङ्गं विप्रादीनां च योग्यकम् ।
समकर्ण भूसुराणां भूपानां वर्धमानकम् ॥ ३ ॥
वैश्यानां च शिवाधिक्यं(वाङ्कं च) परेषां स्वस्तिकं भवेत् ।
विप्राणां सर्वलिङ्गं च कुर्याद्दोषो न विद्यते ॥ ४ ॥
शिवाधिकं(वाङ्कं च) स्वस्तिकं प्रोक्तं लिङ्गं भूपस्य योग्यकम् ।
स्वस्तिकं च शिवाधिक्य(वाङ्कं च) वैश्यानामपि योग्यकम् ॥ ५ ॥
शुद्धगर्भगेहे द्वारे प्रासादस्य विशालकम् ।
अधिष्ठानोदये पादं तुङ्गमानं तथैव च ॥ ६ ॥
हस्तमानाङ्गुलेनैव यजमानोदयेन च ।
एतत्तत्तद्विधि(धिः) प्रोक्तं प्रत्येकं बहुधा भवेत् ॥ ७ ॥
श्रेष्ठादीनि कनिष्ठान्तं प्रत्येकं त्रित्रिमानकम् ।
गर्भे नन्दविभागे तु ए(चै)कैकं लिङ्गतुङ्गकम् ॥ ८ ॥
केचित्तदेकभागे तु नवभाग(गं) विभाजिते ।
तदेकाशीति लिङ्गस्य (ङ्गं स्यात्) कन्यसादुत्तमान्तकम् ॥ ९ ॥
प्रत्येकं तन्त्रिधामानमेकैकं लिङ्गतुङ्गकम् ।
कन्यसा गर्भतारार्धं(र्ध) त्रिपादं मध्यमं भवेत् ॥ १० ॥
गर्भतारसमं श्रेष्ठं त्रिविधं लिङ्गतुङ्गकम् ।
गर्भगृहे तु माने स्याल्लिङ्गतुङ्गं प्रकल्पयेत् ॥ ११ ॥
अध्यायः ५२] लिङ्गविधानम् ३३६
शुद्धद्वारोदयं नन्दभागं कृत्वा विशालकम् ।
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादीनि पूर्ववत् ॥ १२ ॥ 24
प्रत्येकं तु त्रिधा मानं साष्टादश (चैकाशीति) च लिङ्गकम् ।
प्रासादस्य विशाले तु गर्भगृहेो (हमु) क्तवद्भवेत् ॥ १३ ॥
अधिष्ठानसमं श्रेष्ठं त्रिपादं मध्यमं भवेत् ।
तदधं कन्यसं प्रोक्तं त्रिविधं लिङ्गमीरितम् ॥ १४ ॥ 28
अथवा नवभागं स्यान्नवलिङ्गमुदाहृतम् ।
कन्यसाद्युत्तमान्तं स्यात्प्रत्येकं पूर्ववद् भवेत् ॥ १५ ॥
पादोदयं नवांशं नवधा लिङ्गमानकम् ।
तदेवं चैकभागे तु चतुर्भाग (गं) विभाजितै ॥ १६ ॥ 32
एकैकं लिङ्गतुङ्गं स्यात्षट्त्रिंशं लिङ्गतुङ्गकम् ।
कन्यसाद्युत्तमान्तं स्यात्सर्वं प्रागुक्तवन्नयेत् ॥ १७ ॥
हर्म्यतुङ्गं दे(न) वांशं स्यात्कन्यसादि त्रयं त्रयम् ।
एवं तु नवलिङ्गं स्यान्नवभेदोदयं भवेत् ॥ १८ ॥ 36
केचिद्धिमानतुङ्गे तु नन्दनन्दांशकं भवेत् ।
एकैकं लिङ्गतुङ्गं स्यान्नन्दनन्दोदयं भवेत् ॥ १९ ॥
कन्यसाद्युत्तमान्तं स्यात्पूर्ववल्लिङ्गमिष्यते ।
एकहस्तं समारभ्य हस्तैकेन प्रवर्धयेत् ॥ २० ॥ 40
एकैकं लिङ्गतुङ्गं स्यान्नवहस्तावसानकम् ।
एवं तु नवतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ॥ २१ ॥
करं(र) त्रिपादमारभ्य सप्तमेन विवर्धनात् ।
पादोनसप्तहस्तान्तं पूर्ववन्नवलिङ्गकम् ॥ २२ ॥ 44
अथवा हस्तमारभ्य सा(चा)र्धहस्तेन वर्धनात् ।
सार्धवेदकराधं(न्तं) स्यान्नवलिङ्गोदयं भवेत् ॥ २३ ॥
पादहस्तं समारभ्य पादहस्तेन वर्धनात् ।
पादाधिकद्विहस्तान्तं नवलिङ्गं तु पूर्ववत् ॥ २४ ॥ 48
जातिक्र्छन्दं विकल्पं च आ(तु चा)भासं तु चतुर्विधम् ।
एकहस्तवशात्सर्वं कन्यसादि त्रयं त्रयम् ॥ २५ ॥
३४० मानमारे [अध्यायः
ळ्म्दादीनां तु मानं स्यात्षट्त्रिंशल्लिङ्गतुङ्गकम् ।
एकादशाङ्गुलामारभ्य द्व्यङ्गुलविवर्धनात् ॥ २६ ॥ 52
सप्तविंशाङ्गुलान्तं स्यान्नवधा लिङ्गतुङ्गकम् ।
द्वादशाङ्गुलामारभ्य षट्षडङ्गुलवर्धनात् ॥ २७ ॥
षष्ट्यङ्गुलावसानं स्यान्नवधा लिङ्गमानकम् ।
पञ्चविंशाङ्गुलामारभ्य षट्षडङ्गुलवर्धनात् ॥ २८ ॥ 56
त्रिसप्ततित्रिमात्रान्तं नवधा लिङ्गतुङ्गकम् ।
सर्वेषां कन्यसं श्रेष्ठं पर्यन्ता(न्तम्)ङ्गुजमानकम् ॥ २९ ॥
यजमानस्य मेढ्रान्तं नाभ्यन्तं हृदयान्तकम् ।
स्तनान्तं बाहुसीमन्तं हन्वन्तं नासिकान्तिकम् ॥ ३० ॥ 60
नेत्रान्तं समतुङ्गं स्यात्प्रणवलिङ्गोदयं भवेत् ।
अथवा तुङ्गमाने तु नवभाग(गं) विभाजिते ॥ ३१ ॥
एकैकं लिङ्गतुङ्गं स्यात्कन्यसादि त्रयं त्रयम् ।
नव्यंशविधं लिङ्गं यस्स(ज)मानवशाद्विदुः ॥ ३२ ॥ 64
बहुधा स्थाप्यलिङ्गं वा नवलिङ्गं परिसंख्या ।
अथ हस्ताद्य(दि)मानं [च] सर्वलिङ्गेषु कल्पयेत् ॥ ३३ ॥
पञ्चादशाङ्गुलं मानं यन्मानं नवलिङ्गके ।
सप्ता(प्त)दशाङ्गुलान्तं च पञ्चा(ञ्च)दशाङ्गुलमारभेत् ॥ ३४ ॥ 68
स्थापयेत्पञ्चलिङ्गे तु इ(चे)त्यूर्ध्वे न तु कारयेत् ।
तन्त्रिपादकरादुध्वं चाधिकं सर्वतुङ्गके ॥ ३५ ॥
सर्वधां चैकहर्म्यं तु ए(चै)कैकलिङ्गे तु संमतम् ।
बहुधा सर्वलिङ्गेषु तन्त्रिकर्णं न कारयेत् ॥ ३६ ॥ 72
द्विकर्णं बहुलिङ्गे तु त्रिकर्णं चैकलिङ्गके ।
लिङ्गतुङ्गमिनि प्रोक्तं तद्विशालमिहोच्यते ॥ ३७ ॥
त्रिचतुष्पञ्चाङ्गुलान्तं स्यादङ्गुलिङ्गे तु विस्तृतम् ।
अथवा तुङ्गमाने त्रिचतुष्पञ्चभागिकम् ॥ ३८ ॥ 76
तत्तदेकांशविस्तारं बहुलिङ्गविशालकम् ।
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ३९ ॥
५२] लिङ्गविधानम् ३४१
षट्सप्ताष्टाङ्गुलं चैकलिङ्गतारमिति स्मृतम् ।
नवपङ्किरुद्रमात्रं स्यात् समलिङ्गविशालकम् ॥ ४० ॥ 80
भानूए(सै)काङ्गुलं चैव चतुर्दशाङ्गुलमेव च ।
एवं तु चैकलिङ्गं स्याद्वि(ङ्गस्य वि)स्तारं परिकीर्तितम् ॥ ४१ ॥
पञ्चा(ञ्च)दशाङ्गुलं चैव षोडशाङ्गुलमेव च ।
विस्तार(') दशाङ्गुलं चैव लिङ्गानामिति विस्तृतम् ॥ ४२ ॥ 84
अष्टादशाङ्गुलं चैव नवपङ्क्त्यङ्गुलान्तकम् ।
विंशत्यङ्गुलं चैव लिङ्गतारं त्रिधा मतम् ॥ ४३ ॥
एकविंशत्यङ्गुलं चैव द्वाविंशतिकाङ्गुलम् ।
त्रयोविंशाङ्गुलं चैव त्रिधा लिङ्गविशालकम् ॥ ४४ ॥ 88
चतुर्विंशाङ्गुलं चैव पञ्चविंशाङ्गुलं तथा ।
षड्विंशाङ्गुलं चैव विशालं त्रिविधं मतम् ॥ ४५ ॥
सप्तविंशाङ्गुलं चैव अ(चा)ष्टविंशाङ्गुलं तथा ।
नवविंशतिमात्रं स्याल्लिङ्गतारमिति स्मृतम् ॥ ४६ ॥ 92
अथवा त्रिंशदङ्गुल्यमेकत्रिंशतिमात्रकम् ।
द्वात्रिंशाङ्गुलं चैव लिङ्गतारमिति स्मृतम् ॥ ४७ ॥
कन्यसाद्युत्तमान्तं स्यात्प्रत्येकं त्रित्रिमानकम् ।
एवं तु नवधा लिङ्गं प्रत्येकं नागरादिभिः ॥ ४८ ॥ 96
अथवा तुङ्गमानं तु चतुष्पञ्चषडंशकम् ।
तत्तदंशैकभागेन चैकलिङ्गविशालकम् ॥ ४९ ॥
नागरं द्राविडं चैव वेसरं च त्रिधा मतम् ॥ ५० ॥
इष्टायामे द्विशंसत्रिंशदंशम् 100
कृत्वा क्रमादधिकं तदंशकम् ।
विस्तारं तत्कन्यसादि त्रिधा
युक्त्या धीमान् वेसरादीनि कुर्यात् ॥ ५१ ॥
बहुलिङ्गोदये सर्वे(र्वस्मिन्) ब्रह्मभागं विनोदयम् । 104
द्विभागं समकन्यंस्याद्वि(न्यसं वि)ष्णुरुद्रांशं तत्समम् ॥ ५२ ॥
३४२ मानमारे [अध्यायः
अथवा तुङ्गनवमं स्याद्वेद(दं) नारायणोदयम् ।
पञ्चांशं शिवोदयं स्याद् वर्धमानमिति स्मृतम् ॥ ५३ ॥
अष्टादशांशकं तुङ्गे वैष्णवं चाष्टभागिकम् । 108
दशांशं शिवोदयं स्याच्छिलाधिकं(वाङ्गं) लिङ्गमिरितम् ॥ ५४ ॥
उस्सेधे दशभागे तु विष्णोस्तुङ्गं षडंशकम् ।
वेदांशं शिवांशं स्यात्स्वस्तिकं बहुलिङ्गके ॥ ५५ ॥
कमलजहरिहरांशं तत्समं चैकलिङ्गे 112
मनु(मुनि)वसुनवभागैस्तुङ्गमष्टत्रि(त्र)याङ्गकम् ।
कमलजहरिहरांशं सर्वतोभद्रलिङ्गम्
द्विजकुलनृपतिपूज्यं वर्धमाना(नमपि) चैव ॥ ५६ ॥
पञ्चपञ्चाशदंशकोन्नतम् 116
ब्रह्माविष्णुशिवभाग(नं) तत्क्रमात् ।
तुङ्गमष्टयुगांशके कृते
तच्छिलाधिक(कं) [वैश्य]योग्यकम् ॥ ५७ ॥
स्वस्तिकस्य शतषट्(ष्टि) शिरो(वो)न्नतम् 120
षोडशांशविधि(धिर) वैष्णवं तथा ।
भ(रु)द्रभागविधिवत्समाचरेत्
संपदा(द)र्थमेव शूद्रयोग्यकम् ॥ ५८ ॥
वेदाश्राभं ब्रह्मभागे च मूले 124
चाष्टाश्राभं मध्यमे विष्णुभागे ।
वृत्ताकारमग्रके तच्छिलांशम्
कुर्यात्तु सर्वं चर्तुलि(चैकलि)ङ्गमेतत् ॥ ५९ ॥
वेदाश्रं वस्त्रश्रकं [वा] वृत्तं चैवम् 128
प्रोक्तानेकलिङ्गाग्र(अ) मूले [मध्ये] ।
वृत्ताकारं चाग्रके रुद्रभागे
कुर्याद्देवं शिल्पिविद्वद्भिरेव ॥ ६० ॥
एकानैकं चोक्तलिङ्गे शिवांशे 132
कुर्याद्धारा(रां) षोडशादिक्षयेन ।
५२] लिङ्गविधानम् ३४३
वृद्ध्या धारयत्(यां) सङ्ख्यावधा(सा)नम्
धारालिङ्गे चैवमुक्तं तन्त्रैः ॥ ६१ ॥
पञ्चषड्मुनिर(न्य)ष्टविस्तृते [च] 136
द्विद्विभाग(गं) शिर(रो)मानतुङ्गकम् ।
तत्तदङ्गकृततच्छिरो(र ङ)दये
द्यंशयुग्मधि(धा)रोपमानकम् ॥ ६२ ॥
वर्तिकस्त(श)मिव तच्छिखं बुधैः 140
युदार्ध(कुर्यात्तु) त्रिपुरुषा(रघा)कृतिस्तथा ।
अर्धचन्द्रमिति चित्रवद् भवेत्
शिल्पिभिः प्रवर(रैः) व(क)र्णतः क्रमात् ॥ ६३ ॥
पूजांशे तन्तुङ्गमष्टद्वयांशम् 144
कृत्वांशेन द्वित्रिवेदाम्विसृज्य ।
तस्याधस्तात्तत्तयोद्धारशेषम्
शिल्पिः(ल्पी) कुर्यान्नागरादिः(दीन्) त्रिधैव ॥ ६४ ॥
यत्तच्चैकार्धभागं मध्यभागम्(गे) 148
विस्तारं स्यात्तत्तयोद्धारखे च ।
अमे चैकद्यंशत्रि(द्वयं)शेन तुङ्गम्
तस्मात्पार्श्वे भ्रामयेत्पुच्छकान्तम् ॥ ६५ ॥
कुर्यादेकां पिण्डिकां तंतु(तस्य) पार्श्वे 152
चैकद्वित्र्यंशकं चान्तरं च ।
पृष्ठे युक्त्या कारयेद् विष्णुकान्तम्
एवं युक्त्या नागरादिक्रमं स्यात् ॥ ६६ ॥
एकानेकलिङ्ग[स्य] धारणांशे 156
कुर्याल्लिङ्गे मूर्ध्निवत्कुद्ममलं वा ।
छत्राकारं वाथ मूर्ध्निप्रदेशे
युक्त्या धीमानुद्धरेद्ध(द)धस्तात् ॥ ६७ ॥
लिङ्गादीनां(न) स्थापयेत्सर्वहर्म्ये प्रागुक्तवत्क्रमात् ॥ ६८ ॥ 160
शुद्धगर्भमृहे मध्ये सप्तभाग(गं) विभाजितं ।
मध्ये ब्रह्मपदं चैव परितश्चाष्टदिवौकसः ॥ ६६ ॥
मानुषांशं तु तद्वाह्ये परितः षोडशांशकम् ।
चतुर्विंशांशकं बाह्ये परितः पैशाचमेव च ॥ ७० ॥ 164
मध्ये ब्रह्मपदे सप्तसप्तभाग(गं) विभाजितं ।
ब्रह्मांशे मध्यमे ब्रह्मसूत्रं तत्परिकल्पयेत् ॥ ७१ ॥
तद्वामे विष्णुसूत्रं स्यात्तद्वाह्ये परिकल्पयेत् ।
तत्सूत्रात्(त्र)द्वयोर्मध्ये शिवसूत्रं प्रकल्पयेत् ॥ ७२ ॥ 168
ब्रह्म[स्व]विष्णुसूत्रं [च] स्यान्मध्ये च शिवसूत्रकम् ।
एवं तु चैकलिङ्गं स्यात्स्थापयेच्छिल्पि(ल्प)वित्तमः ॥ ७३ ॥
बहुलिङ्गप्रतिष्ठा चेत्तत्तदेका(क)पदोक्तवत् ।
कुर्यादेव पदे विष्णुं(ष्णो) ब(र्व)हुधा चैकमेव वा ॥ ७४ ॥ 172
गर्भगेहस्थले धारणील(णीय)मध्ये समं भवेत् ।
अज्ञानादधिकं चेन्निम्नं चेत्सर्वदोषदम् ॥ ७५ ॥
तस्मात्परिहरेत्सर्वदेवतास्थापनं बुधः ।
बेरस्यैकशिला प्रोक्तं(क्ता) लिङ्गानां तत्ततुःशिला ॥ ७६ ॥ 176
नन्द्यावर्त(र्ता)कृतिः(तिं) स्वाप्य(पयित्वा) तथा चैकाश्मना भवेत् ।
अधो(ध) पाषाणकूर्माख्यं चोर्ध्व(र्ध्वा)धारमिति स्मृतम् ॥ ७७ ॥
इत ऊर्ध्वं शिलादौ [तु] पीठके वापि चोद्धयम् ।
उक्तवत्कल्पयेच्छिल्पी हीनाधिक्यं न कारयेत् ॥ ७८ ॥ 180
स्थापयेल्लिङ्गबेरै(रां)श्च स्थपतिः स्थापकैः सह ।
लिङ्गानां पीठकानां च देवदेव्याश्च हर्म्यके ॥ ७६ ॥
शिलासंग्रहणं(शस्य) सम्यग्लक्षणं वक्ष्यतेऽधुना ।
पर्वते वा वने वापि स्थपतिः स्थापकैः सह ॥ ८० ॥ 184
प्रभाते तु समुत्थाय कर्ता चानुचरैः सह ।
मार्गके चोक्तवत्सर्वं पार्श्वे तु शकुनानि वै ॥ ८१ ॥
सुमुहूर्ते सुलग्ने च शिलासंग्रहणं भवेत् ।
भक्तवच्च रथा(थमा)रोप्य शिल्पशालां प्रविश्य(श्य)वि ॥ ८२ ॥ 188
५२] लिङ्गविधानम् १४५
पत्रावलीढकाश्मं च अ(चा)मलावटे कदाशमना ।
आतपेनावलीढं चेद् वर्जयेत्सा शिला भवेत् ॥ ८३ ॥
यत्पूर्वोत्तराग्रं ज्ञात्वा मूलं दक्षिणपश्चिमे ।
अधोभागा(गे) मुखं ज्ञात्वा शयने चापरोर्ध्वकम् ॥ ८४ ॥ 192
पूर्वाग्रं(ग्राश्) च शिला(लाः) सर्वे(र्वा) दक्षिणे सव्यपार्श्वके ।
उत्तरे वामभागं स्यादुत्तराग्रशिले(ल्लायां) विदुः ॥ ८५ ॥
पूर्वे तु दक्षिणं पार्श्वं पश्चिमे वामपार्श्वकम् ।
ईशानामशिलानां तु मूले(लं) नैर्ऋत्यदेशके ॥ ८६ ॥ 196
अन्यकोणेषु सर्वेषु मूलमग्रं न विद्यते ।
दिक्षु दीर्घशिला सर्वाः पुंशिलानां(ञ्च) प्रकीर्तितम्(ताः) ॥ ८७ ॥
चतुष्कोणेषु दीर्घं स्याच्छिलाषण्डः प्रकीर्तितः ।
प्रभूतं च स्थिता(तं) सर्वं पृथिव्याकाशायतं तथा ॥ ८८ ॥ 200
ऊर्ध्वाग्रमध्यो मूलं [च] प्रागुक्तदिक् तथैशके ।
तत्तदुन्नतवक्रं च यदि स्थापने भवेत् ॥ ८९ ॥
तत्पार्श्वं पूर्ववज्ज्ञात्वा तस्याकारमिहोच्यते ।
मूलमग्रं च मध्यं च समाकारं तु पुंशिला ॥ ९० ॥ 204
स्थूलमूलं कृशाग्रं स्यात्स्त्रीशिला तु प्रकाशिता ।
स्थूलाग्रं च कृशं मध्ये स्थूलं नपुंसकं शिला ॥ ९१ ॥
चतुरश्रं पुंशिला प्रोक्तं वृत्तं स्याद् वनिता शिला ।
बहुधा गृह्य(चाम्र)शृङ्गं स्यान्नपुंसकं तमु(दु)दाहृतम् ॥ ९२ ॥ 208
कांस्यकाञ्चननिनादं स्यात्स्त्रीशिला तु प्रकीर्तिता ।
रत्नभाण्डध्वनिनादं शिला च पुरुषं स्मृतम् ॥ ९३ ॥
निर्ध्वनि च शिला सर्वं नस्त्री नपुमान् विदुः ।
तालध्वनिनादं स्याच्छिला वल्याः(स्रो) प्रकीर्तितम्(ता) ॥ ९४ ॥ 212
महिषध्वनिसंयुक्ता शिला वृत्ताः प्रकीर्तिता ।
पूर्वोक्तध्वनी(कार्धानि)नादं यावना च शिला भवेत् ॥ ९५ ॥
शिलासर्वेषु वृत्तं च शिलारूच्छा[लाँ] विवर्धयेत् ।
पुंशिखेन(लया) पुमान्(मांसं) लिङ्गं कुर्याद्रेखां विवर्जयेत् ॥ ९६ ॥ 216
43
शक्तीनां पीठकानां च स्त्रीशिलासंग्रहं (हो) भवेत् ।
प्रासादादीनि (नां) सर्वेषां नपुंसकशिला भवेत् ॥ ९७ ॥
श्वेतरक्तं च पीतं च शिला कृष्णं यथाक्रमात् ।
द्विजातीनां च वर्णानां कुर्याल्लिङ्गादिना (दीन्) बुधः ॥ ९८ ॥
सर्वेषामपि वर्णानां सा शिला कृष्णमेव वा ।
सर्वेषां वर्णपाषाणे कृष्णरेखां विसर्जयेत् ॥ ९९ ॥
श्वेतं च स्वर्णरेखं च सर्वसंपत्करं शुभम् ।
शिलासंग्रहणं प्रोक्तं शेषमर्हमागमोक्तवत् स्मृतम् ॥ १०० ॥
स्वयम्भुलिङ्गसर्वेषां लक्षणं वक्ष्यतेऽधुना ।
उद्भूतं दैवकं चैव मानुषं गाणवं तथा ॥ १०१ ॥
एवं चतुर्विधं लिङ्गं स्वयम्भुरिति कीर्तितम् ।
तत्स्थाप्य(प्यं) स्वयमुद्भूतं स्वयम्भुरिति कीर्तितः ॥ १०२ ॥
देवैश्च स्थापितं लिङ्गं दैविकं लिङ्गमुच्यते ।
मानुषैः रचितं लिङ्गं मानुषं चेति कथ्यते ॥ १०३ ॥
अन्येषु (न्यैः) रचितं लिङ्गं चार्षञ्चैव कथ्यते ।
गणैश्च पूजितं लिङ्गं गाणं चेति प्रकथ्यते ॥ १०४ ॥
उद्भूतं श्वेतवर्णं चे (कुर्या) द् दैविकं रक्तवर्णकम् ।
मानुषं पीतवर्णाभं कृष्णवर्णं च गाणक (व) म् ॥ १०५ ॥
आर्षं युक्तसूत्रं स्यात्स्वस्तिकाकृतिरे (मे) व वा ।
उद्भूतं शङ्कराकारं रुद्राक्षरं [च] दैविकम् ॥ १०६ ॥
नगर्दभं (गोपमं) गाणवं स्याल्लिङ्गाकारमिहोच्यते ।
उद्भूतस्ता (तं स्थू) लमूलं स्यात्कृशाग्रं वा समाधिकम् ॥ १०७ ॥
अन्यथा सर्वलिङ्गानां स्थूलाग्रं कृशमूलकम् ।
दैविकं डिण्डिमाकारं मानुषाद्रैपुषा (धं स्नुकस्रुवा) कृतिः (तिम्) ॥ १०८ ॥
उद्भूतं पर्वताकारं कूश्मा (कुष्मा) ण्डाकार (रं) गाणवम् ।
पुण्यनद्यद्रिदेशे तु लिङ्गसंग्रहणं भवेत् ॥ १०९ ॥
एवं परार्थं लिङ्गं स्याच्छेषमागमतो (मो) क्तवत् [स्यात्] ।
आत्मार्थं लिङ्गपीठस्य लक्षणं पठ्यतेऽधुना ॥ ११० ॥
५२१ लिङ्गविधानम् ३४७
पीठतुङ्गं समं वाथ त्रिपादं सार्धमेव वा ।
लिङ्गायाममिति प्रोक्तं नाभं(हं) पीठविशालवत् ॥ १११ ॥
नदीपर्वतदेशे तु लिङ्ग(पीठ)संग्रहणं भवेत् । 248
श्वेतरक्तं च पीतं च कृष्णवर्णं चतुष्टयम् ॥ ११२ ॥
भूसुरादिचतुर्णां तु वर्णानां लिङ्गतः क्रमात् ।
अथवा कृष्णवर्णं च तत्सर्वं सार्विकं भवेत् ॥ ११३ ॥
अतिकर्ष(र्षि)तलिङ्गं यद्भूदेव्यं च शम्भुरुच्यते । 252
तन्न स्वयम्भुलिङ्गे तु विरूपं च विशेषतः ॥ ११४ ॥
सम्यक् सूत्रे च संकुर्याद्यावल्लक्षणमुच्यते ।
तल्लिङ्गं मानुषं प्रोक्तं तत्पर्वतालिन्द्र(वालिन्द)के [च] ॥ ११५ ॥
रेखाबिन्दुकलङ्काङ्कं वर्जयेत्तद् विशेषतः । 256
सौवर्णीबिन्दुरेखाढ्यं सर्वसंपच्छुभावहम् ॥ ११६ ॥
ईषत्तुङ्गतं लिङ्गं हर्म्यवत्स्वयंभुलिङ्गकम् ।
वृत्तं वायतवृत्तं वा नाभे(भेः) चरणा[भा]यते ॥ ११७ ॥
किञ्चित्तुङ्गतं वर्त(र्तुं) निम्नं तत्पृष्ठ(पीठ)मिष्यते । 260
स्थूलाग्रं यत्कृशं मूले लिङ्गं सर्वं निशा(जा)कृति ॥ ११८ ॥
स्वभावदन्तोष्ठाद्युक्तं चेलिङ्गं तन्मानुषं भवेत् ।
सिकतारोपणं ज्ञात्वा चैवं स्वयम्भुलिङ्गकम् ॥ ११९ ॥
विनारक्तं विनाकृष्णं सैकते लिङ्गमिष्यते ।
सर्वं(र्व) स्वयम्भुलिङ्गेषु आ(चा)त्मार्थं च परार्थके ॥ १२० ॥ 264
नसंधे(घे)षु च रक्तेषु लिङ्गस्योक्ते(क्ता)र्चनं भवेत् ।
उक्तलिङ्गप्रकारेण शेषमागमतो(मो)क्तवत् [च] ॥ १२१ ॥
आत्मार्थार्चनलिङ्गस्य वक्ष्यते पीठलक्षणम् ।
कर्तृनाशं परित्यज्य किञ्चिच्चैव शिला भवेत् ॥ १२२ ॥ 268
जलानलातपवातस्पृष्टाश्मानि विवर्जयेत् ।
पृथ्वीगर्भस्थितं स्निग्धं बिन्दुरेखां(खं) विवर्जयेत् ॥ १२३ ॥
कल्पितं चैकभागं स्यात्स्त्रीशिला तु प्रकीर्तितम्(ता) ।
सपूरं(पुंसं) सूक्ष्मदष्ट्रं च [नपुंसकं] शिला भवेत् ॥ १२४ ॥ 272
सम्यक्कृष्णा नीलाः प्रोक्ताः वर्णमन्यं विवर्जयेत् ।
कर्षपाषाणवत्स्वर्णरेखालोपखमिष्यते ॥ १२५ ॥
एवं परि(री)क्षिते पश्चात् शि(च्छि) लासंग्रहणं भवेत् ।
एवं लक्षणयुक्तस्य शिलापीठं प्रकुर्वते ॥ १२६ ॥ 276
कर्तुर्दैक्षिणहस्तस्य मध्यमाङ्गुलमध्यमे ।
पर्वता(र्वा) यतनस्ता(ना) दमङ्गुली त्रिविधं भवेत् ॥ १२७ ॥
यवेन कल्पिते वापि चाङ्गुलेवा(ना)पि कल्पयेत् ।
कर्तुर्नक्षत्रमित्रं(श्रं) हि मानं युक्त्या प्रयोजयेत् ॥ १२८ ॥ 280
परार्थे वा स्वयम्भूनां मानाङ्गुलवशेन वा ।
आयाममिति षड्वर्गाभित्थं पीठोदयं भवेत् ॥ १२९ ॥
लिङ्गमानं वियुक्तं चेत्कुर्यात्तु मानुषादीनाम् ।
तन्त्रिभिर्यवं समारभ्य द्वियङ्गुलविवर्धनात् ॥ १३० ॥ 284
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारमेव च ।
अङ्गुलत्रयमारभ्य द्वियङ्गुलविवर्धनात् ॥ १३१ ॥
पञ्चविंशाङ्गुलान्तं स्यात्पीठविस्तारं विधीयते ।
षड्वर्गा[या] दिशुभं कुर्याद्यथाभागादि संभवम् ॥ १३२ ॥ 288
तन्मानं पीठविस्तारं कृत्वा तु चतुरंशकम् ।
एकांशं लिङ्गमानं स्याच्छेषं तत्पीठतुङ्गकम् ॥ १३३ ॥
अथवा पञ्चभागांशं तल्लिङ्गोदयमीरितम् ।
शेषं तु पूर्ववत्पीठं तुङ्गं कुर्याद् विचक्षणः ॥ १३४ ॥ 292
पीठतारसमं लिङ्गं मध्यनालाग्रकान्तकम् ।
पीठतारं द्वयं कृत्वा ए(चै) कांशं नालविस्तृतम् ॥ १३५ ॥
तच्चतुर्भागिकैकांशं(शा) द्हीनं नालाग्रतारकम् ।
केचिद् द्वित्र्यंशमेवं स्यान्मूलाग्रान्तञ्चयं क्रमात् ॥ १३६ ॥ 296
तद्विशालत्रिभागैकं प्रणाले विस्तारमेव वा ।
पीठतारचतुर्थांशं त्रियं(त्र्यां)शं धृतवारिका ॥ १३७ ॥
पीठतारसमं चैव लिङ्गं तत्(ङ्कस्य) परिखाहकम् ।
एवमात्मार्थलिङ्गेषु स्वयम्भुवं परार्थके ॥ १३८ ॥ 300
५२] लिङ्गविधानम् ३४६
कुर्यादने कलिङ्गेषु चैकलिङ्गं न कारयेत् ।
पीठतुङ्गं त्रिधा कृत्वा ए(चै)कांशं गलतुङ्गकम् ॥ १३९॥
अथवा पञ्चद्वयांशं वा गलतुङ्गं विशेषतः ।
शेषं तु चोर्ध्वाधो बन्धं पट्टजन्मसरूरुहम् ॥ १४० ॥ 804
एकांशं जन्मतुङ्गं तु ए(चै)कभागैकं वेत्रकम् ।
तत्समं पङ्कजाग्रं स्यात्पद्मकुक्षिद्व यांशकम् ॥ १४१ ॥
तदष्टांशैकवेत्रं स्यात्तत्समं चोर्ध्ववेत्रकम् ।
पूर्ववत्कर्णसंयुक्तमूर्ध्वखण्डमधउक्तवत् ॥ १४२ ॥ 808
सपादंशाधिकं हीनं वा यन्मानोरम्यं मानयोः ।
पीठतारोदयं नालं दीर्घं प्रागुक्तवन्नयेत् ॥ १४३ ॥
वृत्ताकारं तु पीठं स्यादन्याकृतिं वर्जयेत् ।
पीठतुङ्गे तु गन्धं(रन्ध्रं) स्याल्लिङ्गमाहस्य सादृशम् ॥ १४४ ॥ 812
लिङ्गतुङ्गविशेषं स्याद्देशनं तन्नयेद्बुधः ।
मानयेद्बहुलिङ्गे तु चैकानेकादि[लिङ्ग]कैः ॥ १४५ ॥
एतत्तु सर्वलिङ्गेषु चात्मार्थं च परार्थके ।
तन्मध्ये स्थापयेल्लिङ्गमादौ रत्नानि विन्यसेत् ॥ १४६ ॥ 816
लिङ्गस्य परितो रन्ध्रे स्वर्णवस्त्रैर्निबन्धनम् ।
अभावे रजतेनैव ताम्रं वायसमेव च ॥ १४७ ॥
कारयेच्छिल्पिना सम्यग् लिङ्गपीठे दृढैः(द्यैः) सह ।
एकानेकलिङ्गानां परार्थे त्वष्टबन्धनम् ॥ १४८ ॥ 820
केचित्त्रिबन्धनं कुर्याद् द्रव्यैश्च गुग्गुलादिभिः ।
रत्नलिङ्गैश्च सर्वेषां व(स्व)र्णपीठं प्रकल्पयेत् ॥ १४९ ॥
अथवा रत्नपीठं वा रक्त(त्न)लिङ्गेषु पूर्ववत् ।
यद्यद्द्रव्येण लिङ्गं तत्तद्द्रव्येण पीठकम् ॥ १५० ॥ 824
नवरत्नैश्च संयुक्तं स्वर्णपीठं प्रकल्पयेत् ।
यत्तद्रत्नैश्च यल्लिङ्गे तत्तन्नाम्नैव नाम कम् ॥ १५१ ॥
पीठं(ठे) तु लिङ्गके वापि नवरत्नैर्विशेषतः ।
एककर्णं चैकलिङ्गं बहुभिस्त्वैकलिङ्गकम् ॥ १५२॥ 828
३५० भानसारे [अध्यायः
वज्रलिङ्गमिति प्रोक्तं रत्नानि मि(इ)ति कथ्यते ।
एकं वा बहुरत्नं वा नवरत्नैश्च संयुतम् ॥ १५३ ॥
लिङ्गं यदुक्तं स्वर्णेन पीठे रत्नानि योजयेत् ।
अथवा केवलं स्वर्णं पीठं वा कारयेद् बुधः ॥ १५४ ॥ 332
स्वर्णलिङ्गमिति प्रोक्तं लक्षणं पूर्ववद् भवेत् ।
आचार्यहस्तेन वा लिङ्गं शिष्यस्तु(स्य) नाहलिङ्ग(हाङ्गुल)वत् ॥ १५५ ॥
पश्चात्पूजां तथा कुर्यादाचार्योक्तोपदेशवत् ।
अथोक्तलिङ्गपूजायां(या) फलं वक्ष्ये यथाविधि ॥ १५६ ॥ 336
नदीपर्वतलिङ्गानां कैलासारोहणं भवेत् ।
इहलोकस्य पूज्यत्वं भुक्तिमुक्तिफलप्रदम् ॥ १५७ ॥
रत्नलिङ्गस्य पूजायां फलं मुक्तिप्रदायकम् ।
स्वर्णलिङ्गार्चनमे(चै)वं फलं स्वर्गापवर्गकम् ॥ १५८ ॥ 340