मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)
Manasara on Architecture and Sculpture by P.K. Acharya
मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा
पश्चिमोत्तरतः स्थाप्यं चाश्विनीदेवतालयम् ।
वायुकोणे प्रदेशे तु सरस्वत्यालयं भवेत् ॥ १२ ॥
वायुचन्द्रद्वयोर्मध्ये ममो(न ङ)न्मन्यालयं भवेत् ।
चन्द्रस्थाने धनेशस्य चालयं कल्पयेद्बुधः ॥ १३ ॥
सोमई(मै)शानयोर्मध्ये जनार्दनालयं भवेत् ।
ईशे च क्षेत्रपालं च वटुकं वा प्रतिष्ठयेत् ॥ १४ ॥
ब्रह्मा-ईशानयोर्मध्ये भास्करस्यालयं भवेत् ।
अथवा वायुकोणे तु षण्मुखालयं भवेत् ॥ १५ ॥
परिवारं षोडशकमेवं प्रोक्तं मुनीश्वरैः ।
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ॥ १६ ॥
इन्द्रे च वृषभं स्थाप्य सत्यके नन्दिकेश्वरम् ।
भृङ्गेशं (ङ्गे चेशं) भुवनेशं च कुर्यादन्तरिक्षके ॥ १७ ॥
आग्नेये च धनस्थानं पूषा(ष)स्थाने तु चेन्दिराम् ।
विदथे(तथे) चैकदन्तं स्यात् मुने(जले)शं स्याद्गृहक्षते ॥ १८ ॥
याम्ये चामुण्डिकां स्थाप्य गन्धर्वे पुष्पमण्डल(प)म् ।
भृङ्गराजपदे चैव नैवेद्यार्पणवेश्मकम् ॥ १९ ॥
मृपे(शे) च वक्त्रालयं स्यान्नैर्ऋत्ये तु विनायकम् ।
दौवारिकपदे चैव मूर्तिशूलं समर्पयेत् ॥ २० ॥
सुग्रीवे च त्रिमूर्तिं स्यात्स्थापयेदेकहर्म्यके ।
पुष्पदन्तपदे चैव पुष्पबन्धनमण्डपम् ॥ २१ ॥
वरुणस्य पदे स्थाप्य(व्यं) चार्धनारीश्वरालयम् ।
असुरस्यपदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २२ ॥
देवानां भूषणावासं स्थापयेच्छेषभागिके ।
पुस्तकावासनं कुर्याद् रोगस्य च पदे तथा ॥ २३ ॥
षण्मुखस्यालयं कुर्याद्वायुकोणे विचक्षणः ।
नागस्य च पदे चैव कुर्यात्तु रत्नमण्डपम् ॥ २४ ॥
देवानां भूषणावासं स्थाप्यं च मुख्यदेशके ।
अथवा पार्वती स्थाप्या भल्लाटस्यपदेऽपि च ॥ २५ ॥
१६४ मानसार [अध्यायः
सोमे च विष्णुं संस्थाप्य मनोजस्यालयं तु वा ।
मृगे च स्थापनार्थं च गन्धद्रव्यादिमण्डपम् ॥ २६ ॥ 52
अदिते दक्षिणामूर्तिमुदिते चान्तदानक(व)म् ।
ईशे च स्थापयेदेकं रुद्रमूर्त्तेस्तथालयम् ॥ २७ ॥
अथवा यज्ञशालां च स्थापयेद् भोगमण्डपम् ।
पर्जन्ये मज्जनार्थाय जलपूरितमण्डपम् ॥ २८ ॥ 56
अथवा रुद्रदेवस्य यागमण्डपमेव च ।
जयन्ते भास्करं स्थाप्य चेशे पाशुपतं तथा ॥ २९ ॥
अथवा कामकोष्ठं स्यादाbase -> लयं कल्पयेत्सुधीः ।
द्वात्रिंशन्मूर्त्तिरेवं स्यात्कुर्यात्तु परिवारकम् ॥ ३० ॥ 60
तृतीये सौम्यभागे तु पानीयस्य जलं क्षिपेत् ।
भृशे वाथ महेन्द्रे वा भक्तरूपं प्रतिष्ठयेत् ॥ ३१ ॥
छत्रं च चामराकारं जयन्तस्य पदे तथा ।
तण्डुलं(ल)मण्डपं याम्ये पावके पचनालयम् ॥ ३२ ॥ 64
गृहक्षते धान्यशाला ई(चे)शे च यागमण्डपम् ।
गन्धर्वे भृङ्गराजे च स्थापकान्यथा(नामाल)यम् [स्यात्] ॥ ३३ ॥
पूषे च वितथे चैवमालये परिवारकान् ।
सोमे भल्लाट(टे) मुख्ये च कल्पयेत्कोशमण्डपम् ॥ ३४ ॥ 68
पुष्पदन्ते सुकरी च(मृगे चैव) शखमण्डपसंयुक्तम् ।
वरुणे वासुरे वापि वस्तुनिक्षेपमण्डपम् ॥ ३५ ॥
नागे वापि मृगे वापि देवभूषणमण्डपम् ।
आ(अ)दितौ चोदितौ वापि शयनार्थं च मण्डपम् ॥ ३६ ॥ 72
आस्थानमण्डपं चैव चतुर्दिक्षु विदिक्षु च ।
स्नापनार्थमण्डपं चापि स्नानमण्डपमेव च ॥ ३७ ॥
गृहक्षते यमे वापि वाहनस्थानमण्डपम् ।
मर्यादि(दा)भित्तिकस्यान्तं मण्डपं वा नरालयम् ॥ ३८ ॥ 76
अङ्गलिङ्गं तथा स्थाप्य यथा दिक्षु विदिक्षु च ।
अनन्तानिलकोष्ठे वा स्थापत्यालयमेव च ॥ ३९ ॥
३२] परिवारविधानम् १६५
सत्यके वा चान्तरिक्षे वाद्यकरालयं भवेत् ।
पूषे(ष्णि) च वितथे चापि नाट्या(ट्य)कारालयं भवेत् ॥ ४० ॥ 80
गृहक्षते मृष(श)श्रा(स्या)न्तं गणिकादीनां तथालयम् ।
नैऋ(र्ऋ)त्यादावरुणान्तं च गणिकस्यालयं भवेत् ॥ ४१ ॥
वरुणाद्वायुपर्यन्तमारामकारकालयम् ।
वायुकोणादिसोमान्तं नित्यकर्मकरालयम् ॥ ४२ ॥ 84
सोमादीशानपर्यन्तं गान्धर्वालयमेव च ।
ईशादेरिन्द्रपर्यन्तं संधि(संगी)तार्थं च मण्डपम् ॥ ४३ ॥
तद्बाह्ये तत्प्रदेशे वा गोशालां परिकल्पयेत् ।
ईशस्थाने तु कूपं स्यात्तटाकं वा प्रकल्पयेत् ॥ ४४ ॥ 88
चतुष्कोणे तपस्वी(स्वि)नां सत्रावासमठं भवेत् ।
समीपे वीरभद्राणां गृहक्षेत्रां च कल्पयेत् ॥ ४५ ॥
महामर्यादि(दा)देशे तु वर्णानां वासयोग्यकम् ।
पश्चिमे विप्रसङ्ग(ङ्गः) स्याद्दक्षिणे क्षत्रियस्य च ॥ ४६ ॥ 92
उत्तरे वैश्यसङ्गः(ङ्गः) स्यात्पूर्वे तु शूद्रसद्मकम् ।
तद्बाह्ये सर्वजातीनामालयं कल्पयेत्सुधीः ॥ ४७ ॥
द्वारस्य वामभागे तु गजाश्वादेस्तथालयम् ।
उदिते चेशकोणे तु कल्पयेद्धर्ममण्डपम् ॥ ४८ ॥ 96
वायुकोणे तु बाह्ये वा पुष्पोद्यानं तु कल्पयेत् ।
प्राकारद्वार(रे) सर्वेषां कल्पयेद् वृषभालयम् ॥ ४९ ॥
वृषभस्योपरि भागे तु कल्पयेद् बलिपीठकम् ।
गोपुरस्य बहिर्वापि स्थापयेद् बलिपीठकम् ॥ ५० ॥ 100
प्रासाद(द्वाद्)दण्डमानेन चैकं वा द्वित्रिदण्डकम् ।
गोपुराद् बलिपीठान्तं सान्तरं मानयेत्सुधीः ॥ ५१ ॥
एकद्वित्रिचतुष्पञ्चहस्तं पीठविशालकम् ।
प्रासादार्थं त्रिभागैकं पञ्चभागत्रिभागिकम् ॥ ५२ ॥ 104
अथवा द्वित्रिभागं स्यात्पीठविस्तारमेव च ।
पीठतारसमोच्चं वा पादार्थाधिकमेव च ॥ ५३ ॥
१६६ \qquad\qquad\qquad\qquad\qquad\qquad मानमारे \qquad\qquad\qquad\qquad\qquad [अध्यायः
उपानादिपट्टिकान्तं स्यात्पीठतुङ्गमुदीरितम् ।
पीठतुङ्गोदयार्धेन पद्मतुङ्गं प्रकल्पयेत् ॥ ५४ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 108
वप्रे वा पट्टिके वापि विस्तारं (निर्गमं) परिकल्पयेत् ।
विस्तारे पञ्चभागे तु वेदार्थं पद्मविस्तृतम् ॥ ५५ ॥
पद्मातारत्रिभागैकं कर्णिकाविस्तृतं भवेत् ।
विस्तारसममुत्सेधं वृत्तं वा पट्टमेव वा ॥ ५६ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 112
भद्रं वा पद्मसंयुक्तं तुङ्गं प्रागुक्तवन्नयेत् ।
वृत्तं वा चतुरश्रं वा मूलप्रासादवद् भवेत् ॥ ५७ ॥
अधिष्ठानाकारवत्पीठं हर्म्याधिष्ठानवद् भवेत् ।
द्वादशाङ्गुलविस्तारमुत्सेधं क्षुद्रविस्तारम् ॥ ५८ ॥ \qquad\qquad\qquad\qquad\qquad\qquad\quad 116
उपाब्जं करिकर्णायुक्तं कुर्यात्तत्क्षुद्रपीठकम् ।
वृषभस्यालयं(य) मानं पूर्ववत्परिकल्पयेत् ॥ ५९ ॥
मण्डपाकारवत्कुर्याद्विम्बानां मनोरम्यमानकम् ॥ ६० ॥
\qquad\qquad\qquad\quad विष्ण्वालयपरिवारम्
विष्ण्वालयपरिवारलक्षणं वक्ष्यतेऽधुना । \qquad\qquad\qquad\qquad\qquad\qquad\qquad\quad 120
पञ्चसालमहाद्वारे द्वारदेवान्प्रकल्पयेत् ॥ ६१ ॥
द्वारस्य दक्षिणे स्थाप्य चण्डराक्षसरूपकम् ।
वामे प्रचण्डसंयुक्तं रूपं राक्षसमेव च ॥ ६२ ॥
दक्षिणे चक्रसंयुक्तं वामे तत्पाञ्चजन्यकम् । \qquad\qquad\qquad\qquad\qquad\qquad\qquad 124
दक्षिणे च गणेशं च वामे कात्यायनीं तथा ॥ ६३ ॥
दक्षिणे भास्करं चैव वामभागे निशापतिम् ।
दक्षिणे च भुजङ्गे च(शं) द्वारवामे दिवः(वस्)पतिम् ॥ ६४ ॥
प्रथमादिपञ्चमान्तं स्यात्स्थापयेद् द्वारपञ्चके । \qquad\qquad\qquad\qquad\qquad\qquad\quad 128
एवं तु दशधा देवान्द्वाराणामुदितं(तान्) क्रमात् ॥ ६५ ॥
प्रमुखे वैनतेयः स्यात्सालाच्छालाभान्तरा भवेत् ।
प्रमुखे चोत्तरे देशे विष्वक्सेनालयं भवेत् ॥ ६६ ॥
अन्तर्मण्डलदेशे तु पूर्ववद् बलिपीठकम् । \qquad\qquad\qquad\qquad\qquad\qquad\qquad\quad 132
द्वारस्य दक्षिणे पार्श्वे हर्म्यं कुर्याद्विहस्पतेः ॥ ६७ ॥
यथैवाग्निकोणे तु मृगैः(गाणामा)लयमेव च ।
याम्ये कात्यायनी प्रोक्तं नैर्ऋत्ये तु विनायकम् ॥ ६८ ॥
पश्चिमे दिञ्च्वनन्तं स्याद्वायौ वासिष्टकालयम् । 136
उत्तरे धनदं चैव ई(त्वी)शान्ये भास्करं तथा ॥ ६६ ॥
कात्यायनी(नीं) बिना याम्ये कुर्याद्वाथ पितामहः(हम्) ।
धनदं च बिना सौम्ये शङ्करस्यालयं तु वा ॥ ७० ॥
एवं चाष्टपरीवारं षोडशं परिवारकम् । 140
पूर्वोक्तदेवतासङ्गैः किञ्चित्किञ्चिद्विशिष्यते ॥ ७१ ॥
आग्नेये च गणेशं स्यान्नैर्ऋत्ये तु गुहं क्षिपेत् ।
वायव्ये तु महालक्ष्मीं वैशान्ये च सुदर्शनम् ॥ ७२ ॥
सोमई(मे)शानयोर्मध्ये शङ्करालयमेव च । 144
वायुसोमोभयोर्मध्ये विष्णुदुर्गं तथालयम् ॥ ७३ ॥
प्रत्यङ्नैर्ऋत्ययोर्मध्ये चक्रमूर्तेस्तधालयम् ।
याम्ये च बलभद्रं स्यादनन्तं च जयन्तके ॥ ७४ ॥
नैर्ऋत्ये तु बौद्धं स्याज्जयन्ते पैत्रिकालयम् । 148
शेषं प्रागुक्तवत्स्थाप्य षोडशं परिवारकम् ॥ ७५ ॥
द्वात्रिंशत्परिवारस्य लक्षणं वक्ष्यतेऽधुना ।
चतुर्विंशतिमूर्तीनां दिक्पालक(कैः) सहैव च ॥ ७६ ॥
एकानावरशैः स्थाप्य चावतारान्दशा[न]पि । 152
मत्स्यः(त्स्यं) कूर्म(र्मं) विना कुर्यात्तत्क(दिक्पा)लानां(न्) विना तथा ॥ ७७ ॥
पूर्वोक्तमण्डपानां च (चो)क्तदेवान् यथेष्टवत् ।
कुर्याद्दिष्णुपरीवारं शेषं प्रागुक्तवन्नयेत् ॥ ७८ ॥
बौद्धं च जिनकं चैव तत्तच्छास्त्रोक्तमार्गवत् । 156
तत्तद्वाह्नं स्थाप्यं बलिपीठं च पूर्ववत् ॥ ७६॥
यच्च(च्चो) यतीञ्च(च) तीर्थानि कुर्यात्तत्परिवारकम् ।
अन्याञ्च(न्येषां च) क्षुद्रदेवानां देवीनां परिवारकम् ॥ ८० ॥
तत्तद्वाहनपूर्वा(र्वं) च भूतपैशाचकं तथा । 160
गणेशं(शानि) क्षेत्रपालादीन् कुर्यात्तत्परिवारकम् ॥ ८१ ॥
१६८ मांनसारे [अध्यायः ३२]
अन्तर्बहिश्च बल्यर्थं कुर्यात्पीठं तु पूर्ववत् ।
चामुण्डालय(ये) शङ्करालय(ये) महाविष्णोस्तथालये ॥ ८२ ॥
बौद्धस्यालये तज्जैनालयम(येऽ)पि क्षुद्रालये सर्वशः । 164
शास्त्रस्यालयतोरणे कथितं तत्परिवारकं कुर्वीत ॥ ८३ ॥
श्रममनु ते क(के)पि विना कृत्वा तु संपद् भवेत् ॥ ८४ ॥
यन्मूलहर्म्ये वृषभादि विष्णोरा(ष्ण्वा)दि
मण्डपादि गरुडादि [च] गोपुरादीन् । 168
तन्मूलहर्म्यपरितः स्थित(तान्) प(दृ)श्यते अ(चा)स्मिन्
कुर्यात्तु सर्वपरिवारमिदं प्रशस्तम् ॥ ८५ ॥
इति मानमारे वास्तुशास्त्रे परिवारविधानं नाम द्वात्रिंशोऽध्यायः ॥
गोपुरविधानम्
तैत(ति)लानां नृपाणां च गोपुराणां च लक्षणम् ।
मानानां सार(रं) संगृह्य शास्त्रे संक्षेपतः क्रमात् ॥ १ ॥
तैत(ति)लस्योक्तमानं यन्मानुषाणां न कारयेत् ।
नराणां योग्यमानं यत्तैत(ति)लानां तु योग्यकम् ॥ २ ॥
क्षुद्रे [च] क्षुद्रमानो(नमु)क्तं मुख्ये मुख्यं तु मानकम् ।
अज्ञानाद्विपरीतं चेत्स्थाननाशं धनक्षयम् ॥ ३ ॥
तस्मात्तु गोपुरैर्मा(रमा)नं परित्येत्यो(गृह्यो)क्तवत्कुरु ।
आद्यके द्वारशोभं तु द्वारशाला द्वितीयेके ॥ ४ ॥
द्वारप्रासाद(दो) मध्ये च द्वारहर्म्यं मयाधिके ।
महामर्यादि(दादि)कुड्ये [च] महागॊपुरमीरितम् ॥ ५ ॥
एवं तु कारयेच्छिल्पी सालानां द्वारके तथा ।
त्रिपञ्चसप्तकरान्तादेकादशकरं तु वा ॥ ६ ॥
एवं तु द्वारशोभस्य विशालं पञ्चधा स्मृतम् ।
पञ्चारत्नि समारभ्य त्रयोदशकरान्तकम् ॥ ७ ॥
द्वारशाळाविशालं च पञ्चधा परिकीर्तितम् ।
सप्तहस्तं समारभ्य पञ्चत्रिंशत्करान्तकम् ॥ ८ ॥
द्वारप्रासादविस्तारं पञ्चभेदविदो विदुः ।
नवहस्तं समारभ्य द्विद्विहस्तविवर्धनात् ॥ ९ ॥
सप्ता(प्र)दशकरान्तं स्याद् द्वारहर्म्यविशालता ।
एकादशकरा(रमा)रभ्य नवपङ्क्तिकरान्तकम् ॥ १० ॥
पञ्चधा विपुलं प्रोक्तं महागॊपुरमेव च ।
पादाधिकम(कं) तदध(र्धं च) पादोनं तत्समाधिकम् ॥ ११ ॥
(न्द) विभाजिते->अ(तु चा)ष्टनन्द(न्द) विभाजिते ॥ १९ ॥`.
Line 17:
एवं तु द्वारशाले तु विस्तारे तत्प्रकल्पयेत् ।
Line 18 (marked 40 on right):
सप्ताष्टनवभागं च पङ्किरेकादशस्तथा ॥ २० ॥
Wait, look at पङ्कि: is it पङ्क्ति or पङ्कि?
In the image: प ङ्कि र् or प ङ्कि?
It is पङ्किरेकादशस्तथा or पङ्क्तिरेकादशस्तथा?
Look at पङ्कि: प then ङ्कि with a virama under ङ्? No, it's ङ्कि (ङ with क subjoined, i-matra): पङ्कि or पङ्क्ति?
Let's look at line 22: नवपङ्किसभागं -> clearly पङ्कि (a common manuscript spelling for पङ्क्ति).
Wait, let's look at पङ्कि in line 18: पङ्किरेकादशस्तथा or पङ्क्तिरेकादशस्तथा? It has ङ्कि. Let's transcribe exactly as printed: पङ्किरेकादशस्तथा.
Line 19
३३] गोपुरविधानम् २०१
विस्तारात्पादहीनेन(दाधिकेन) विस्तारार्धावसानकम् ।
पञ्चषट्सप्तभागे तु द्विगुणं सार्थयुग्मकम् ॥ २६ ॥ 52
द्वििं(द्व्यं)शार्धार्धं गुणांशं वा द्वारं सर्वोदयं भवेत् ।
तत्तद्भागविशालं स्यात्तत्तत्तुङ्गावशेन हि ॥ २७ ॥
तदुत्सेधार्धविस्तारं द्वारगोपुर(रं) विन्यसेत् ।
अथवा चोप(र्ध्व)पीठं स्यान्मानं त्यक्त्वा तथोच्छ्रयम् ॥ २८ ॥ 56
शान्तिकात्(दि) पञ्चधोत्तुङ्गं चा(म)धुना वक्ष्यते क्रमात् ।
गोपुरस्य विशालार्धं तत्तत्पादाधिकोदयम् ॥ २९ ॥
तदर्धाधिकमुत्सेधं तन्त्रिभागाधिकोन्नतम् ।
तत्समं चाधिकोत्तुङ्गं द्विगुणात्पादाधिकोन्नतम् ॥ ३० ॥ 60
एवं तु पञ्चधा द्वारं(र)तुङ्गं सर्वेषु गोपुरे(रेषु) ।
अथवा हस्तमानेन द्वारमानं प्रवक्ष्यते ॥ ३१ ॥
एकहस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
द्विहस्तान्तं द्वारविस्तारं द्वारशोभं तु पञ्चधा ॥ ३२ ॥ 64
द्विहस्तादित्रिहस्तान्तं पञ्चधा द्वारविस्तृतम् ।
एवं तु द्वारशाले तु हस्तत्रय(यं) समारभेत् ॥ ३३ ॥
षट्षडङ्गुलवृद्ध्येन(द्वा च) चतुर्हस्तावसानकम् ।
पञ्चधा द्वारविस्तारं द्वारप्रासादमध्यमे ॥ ३४ ॥ 68
चतुर्हस्तं समारभ्य पञ्चहस्तावसानकम् ।
द्वारहर्म्ये प्रदेशे तु द्वारतारं तु पञ्चधा ॥ ३५ ॥
पञ्चहस्तं समारभ्य हस्तषट्कावसानकम् ।
गोपुरे द्वारविस्तारं पञ्चधा परिकीर्तितम् ॥ ३६ ॥ 72
अथवा द्वारशोभादिगोपुरान्तं यथाक्रमम् ।
एकद्वित्रिचतुष्पञ्चहस्तादौ [थ]रत्निवर्धनात् ॥ ३७ ॥
पञ्चषट्सप्तहस्तं च सा(चा)ष्टहस्तं नवान्तकम् ।
एतेभ्यो(र्वा) द्वारसर्वेषां विस्तारद्विगुणोन्नतम् ॥ ३८ ॥ 76
देवानां द्वारमेवोक्तं मानुषाणां विशेषतः ।
द्विगुणाष्टांशहीनं वा सप्तांशं चैकहीनकम् ॥ ३६॥
25
२७२ मानसार [अध्यायः
षडंशांशैकहीनं वा पञ्चाशं चैकहीनकम् ।
चतुर्भागैकहीनं वा द्वारतुङ्गं प्रकल्पयेत् ॥ ४० ॥ 80
उत्तराधो(धः) प्रदेशान्तं जन्मोर्ध्वं द्वारमारभेत् ।
द्वारोत्सेधमिदं कुर्यात्तस्यां तद्द्वारपट्टिका ॥ ४१ ॥
शेषं युक्त्या प्रयुञ्जीयात्(ञ्जीत) द्वारमेवं तु सर्वशः ।
मूलहर्म्यवशादुच्च्ये गोपुराणां च मानकम् ॥ ४२ ॥ 84
मूलप्रासादविस्तारं(र)समं वा पादमधिकम् ।
अथवात्य(ध्य)र्धविस्तारं पादोनद्विगुणं तु वा ॥ ४३ ॥
द्विगुणं वा प्रकर्तव्यं द्वारशोभादिविस्तारम् ।
प्रत्येकं पञ्चधा मानमायामं पूर्ववद्भवेत् ॥ ४४ ॥ 88
मूलाधिष्ठानपादस्य समाधिष्ठानपादकम् ।
अथवाधिष्ठानपादोच्चं(धं) वेदभूतषडंशकम् ॥ ४५ ॥
सप्तकाष्टांशकं कृत्वा तत्तदेकैकहीनकम् ।
शेषं तद्द्वारशोभादीन्(र्ना) पादाधिष्ठानतुङ्गकम् ॥ ४६ ॥ 92
उपपीठं विना कुर्याद् द्वारतुङ्गमिति स्मृतम् ।
शोभे(भके) चैकभूमिं(मिः) स्याद् द्वितीये द्वितलं भवेत् ॥ ४७ ॥
द्वारप्रासाददेशे तु त्रितलं चैव कारयेत् ।
हर्म्ये चतुस्तलं कुर्यात्तलं(ल)पञ्चक(कं) गोपुरम् ॥ ४८ ॥ 96
अन्येषां महता(ति) देशे षोडशान्तं तलान्वितम् ।
एकत्रिपञ्चभूमादौ द्विद्विभूमिविवर्धनात् ॥ ४९ ॥
त्रिविधं चैकभूमौ च ए(त्वे)कार्कतलसीमकम् ।
द्वित्रिवेदतलादौ च चतुर्दशतलान्तकम् ॥ ५० ॥ 100
द्वितले च त्रिविधं प्रोक्तं द्विद्विभूमिविवर्धनात् ।
त्रितलात् पञ्चत्र्यान्तं त्रितलं त्रिविधं प्रोक्तम् ॥ ५१ ॥
चतुःषडष्टभूमादौ षोडशान्तं तलसीमकम् ।
कन्यसं त्रिविधं प्रोक्तं कुर्यादेवं चतुस्तले ॥ २ ॥ 104
पञ्चसप्ततलं(ल)नन्दतलादौ द्विद्विवर्धनात् ।
सप्ता(ष्टा)दशतलान्तं स्यात्त्रिविधं पञ्चभूमिके ॥ ५३ ॥
३३] गोपुरविधानम् २०३
देवानां मूलहर्म्यं स्यादधिकं च (र्म्यस्य हीनाधिक्यं) समोन्नतम् ।
शोभादिगोपुरे सर्वे(र्वैस्मिन्) चैवमुक्तं पुरातनैः ॥ ५४ ॥ 108
नराणां मूलहर्म्यस्य समं हीनोन्नतं तु वा ।
मूलस्याधिकभूमिं चेद्राजराष्ट्रं विनश्यति ॥ ५५ ॥
एवं तु द्वारशोभे च चोक्तवत्कारयेत्सुधीः ।
अन्यथा द्वारदेशे तु यथाचोक्तवदाचरेत् ॥ ५६ ॥ 112
द्वारपादोदयो(ये) वेदभागं कुर्याद्विचक्षणः ।
एकांशं चोपपीठोक्तं तत्समं च मसूरकम् ॥ ५७ ॥
द्विभागं पादतुङ्गं स्यात्कारयेल्लक्षणान्वितम् ।
द्वारपादोदये धातुपाङ्क्तिभागं विभाजिते ॥ ५८ ॥ 116
उपपीठं शरांशं च वेदभागं मसूरकम् ।
अधिष्ठानं(न) द्विगुणाङ्घ्रितुङ्गमर्धं प्रकल्पयेत् ॥ ५९ ॥
द्वारपादोदये नन्दभागं कुर्याद्विचक्षणः (तन्त्रिभागिकम्) ।
उपपीठोदयं चाङ्घ्रिभागमेव(वं) मसूरकम् ॥ ६० ॥ 120
तद्द्वयं पादतुङ्गे च कुर्यादेकोनविंशतिम् ।
भागं तद्द्वारपादोच्चे सप्तभागोपपीठकम् ॥ ६१ ॥
वेदभङ्ग(भाग)मधिष्ठानमष्टभागाङ्घ्रितुङ्गकम् ।
द्वारपादोदये चैव षड्भागमेवं विभाजिते ॥ ६२ ॥ 124
उपपीठोदयं चित्रं भागमंश(शं) मसूरकम् ।
तस्मात्तु(योस्तु) पादतुङ्गं च द्विभागं(गुणं) चैव कारयेत् ॥ ६३ ॥
द्वारपादोदयं(ये) चैव(क)विंशद् भागं विभाजिते ।
उपपीठोदयं चैव नवभागं प्रकल्पयेत् ॥ ६४ ॥ 128
अधिष्ठानं वेदभागं तु वसुभागा(गम)ङ्घ्रितुङ्गकम् ।
एकादशविभागे तु द्वारपादोदयं भवेत् ॥ ६५ ॥
पञ्चांशं चोपपीठोक्तं द्व्यंशा(शम)धिष्ठान(नं) मानतः ।
पादतुङ्गं चतुर्भागमथवा द्वारपादके ॥ ६६ ॥ 132
तुङ्गे च त्रयोविंशद् भागमेवं विभाजिते [तु] ।
एकांशो(शमु)पपीठं च चतुर्भागं मसूरकम् ॥ ६७ ॥
१०४ मानहारे [अध्यायः
वसुभागा(गम)ङ्घ्रितुङ्गं स्यात्षड्भागं तु विभाजिते ।
त्रिभागं चोपपीठं तु शिवभाग(गं) मसूरकम् ॥ ६८ ॥ 136
द्विभागं पादतुङ्गं स्यात्तदूर्ध्वं प्रस्तरादिकम् ।
शिखान्तं चोर्ध्वमाने तु वलानामधुनोच्यते ॥ ६९ ॥
अधिष्ठानसमं मञ्च(ञ्चं) तत्समं गलतुङ्गकम् ।
गलोच्चद्विगुणं प्रोक्तं शिखरस्योदयं न्यसेत् ॥ ७० ॥ 140
शिखरोर्ध्वं(रार्धं) शिखातुङ्गं स्तूपित्रयसमे(ममे)व च ।
एवमेकतलं प्रोक्तं द्वितलादितले(लमे)व च ॥ ७१ ॥
क्षुद्रमध्यं च मुख्यानां गोपुरे तु विशेषतः ।
प्रस्तरादिशिखान्तं स्याद् गण्यमानं प्रवक्ष्यते ॥ ७२ ॥ 144
यस्याविष्ठानमानं च तत्समानबशो(शादु)च्यते ।
मसुरोच्चसमं वापि तदष्टांशोनमेव वा ॥ ७३ ॥
पञ्चषट्सप्तहीनं वा प्रस्तरोदयमेव च ।
ऊर्ध्वभूमाङ्घ्रिकोत्तुङ्गमधः पादवशो(शादु)च्यते ॥ ७४ ॥ 148
अष्टसप्तकषट्पञ्चभागमेकोनमेव वा ।
तत्तद्भागेनमानं तु ऊ(चो)र्ध्वोर्ध्वचरणोदयम् ॥ ७५ ॥
तले तले प्रस्तराणां तु कारयेदेव मानतः ।
क्षुद्रगोपुरमेवं तु कारयेद् गण्यमानकम् ॥ ७६ ॥ 152
नवमेकादशैकार्कमधिष्ठानोदयं भवेत् ।
तत्तद्भागार्धभागेन शेषं तत्प्रस्तरोदयम् ॥ ७७ ॥
अध(धः)पादोदयं तत्तद्भागेनं चोर्ध्वपादकम् ।
प्रस्तरं(रस्य) चैव मानं तु कारयेत्तु तले तले ॥ ७८ ॥ 156
यस्य मानाद्वस्या(सा)नान्तं चोत्तरात्तं विधीयते ।
तदूर्ध्वं प्रस्तरं युक्तं तस्यार्धं(र्धा) चोर्ध्ववेदिका ॥ ७९ ॥
तदूर्ध्वं गलतुङ्गं स्यात्तत्प्रस्तरोच्चद्वयं शिरः ।
शिखरार्धं शिखोतुङ्गं तेषां गोपुरमेव च ॥ ८० ॥ 160
एवं तु मध्यमानं तु गोपुराणां तु गण्यकम् ।
मुख्यगोपुरगण्यं तु वक्ष्यते विधिनाधुना ॥ ८१ ॥
३३] गोपुरविधानम् २०५
पूर्ववच्चैकभूमो(ममु)क्तं द्वितलादि विशेषतः ।
द्वारपादोदयं चैव द्वारविस्तारमानकम् ॥ ८२ ॥ 164
उपपीठोदयं मानं मसूरकाङ्घ्रितुङ्गकम् ।
शेषं प्रागुक्तवत्कुर्यादूर्ध्वमानं प्रबध्यते ॥ ८३ ॥
अधिष्ठानत्रिपादं [तु] च ऊ(चो)र्ध्वपादं च(दस्य) तुङ्गकम् ।
अधो(धः)पादत्रिपादं [तु] च ऊ(चो)र्ध्वपादोदयं भवेत् ॥ ८४ ॥ 168
अधोमञ्चत्रिपादं [तु] च उ(चो)परि प्रस्तरं भवेत् ।
अथवा भूतषट्सप्तकाष्टनन्ददशांशकम् ॥ ८५ ॥
तत्तदेकैकहीनं वा चोर्ध्वपादाधिकोदयम् ।
तदर्धं वेदिकातुङ्गं तदूर्ध्वं ग्रीवतुङ्गकम् ॥ ८६ ॥ 172
ग्रीवतुङ्गोदयं चैव शिखरस्योदयं भवेत् ।
तदर्धं तच्छिखोत्तुङ्गं द्वितले पञ्चकं शिखम् ॥ ८७ ॥
प्रस्तरं पूर्ववन्मानमादिपादादि पूर्ववत् ।
प्रस्तरोदयमानं यत्तदर्धं वेदिकोदयम् ॥ ८८ ॥ 176
वेदिकाश्चो(चो)र्ध्वकान्तं(न्ता) स्यात्पूर्ववत्परिकल्पयेत् ।
द्वितुङ्गे त्रिद्विनेत्रं वा सप्तनेत्रं समन्वितम् ॥ ८९ ॥
एवं त्रितलमाख्यातं चतुर्भूम्यादि(दी)होच्यते ।
अधाधिष्ठानमानं यत्षड्भागं च विभाजिते ॥ ९० ॥ 180
समं वा पादशरांशं वा प्रस्तरोदयमीरितम् ।
भूतषड्विंशकं वापि चोर्ध्वपादोदयं तथा ॥ ९१ ॥
आदिप्रस्तरमानं तु त्रिपादं चोर्ध्वमञ्चकम् ।
वेद(दं) सार्धं(र्ध) शरांशं तु चोर्ध्वपादोदयं भवेत् ॥ ९२ ॥ 184
सत्रिभागं द्विभागं स्याच्चोर्ध्वपादोर्ध्वमञ्चकम् ।
गुणासार्थं चतुर्भागमूर्ध्वपादमथापि वा ॥ ९३ ॥
सार्धद्विभागं मञ्चं च वेदिकाञ्चा(चम)र्धभागिकम् ।
तदूर्ध्वं गलतुङ्गं स्यात् शि(च्छि)र(शे)भागं गलस्(लं) तथा ॥ ९४ ॥ 188
शिर(रस्)तुङ्गार्धभागं तु स्तूपितुङ्गं प्रकल्पयेत् ।
नवसंख्या शिखा प्रोक्तं(क्ता) द्वितलं तु च पूर्ववत् ॥ ९५ ॥
२०६ मानमारे [अध्यायः
अथवा चतुरश्रं च स्तूपिरे(मे)कं चतुर्मुखम् ।
एवं चतुःस्थ(स्त)लं प्रोक्तं पञ्चभूम्या(मम)धुनोच्यते ॥ ९६ ॥ 192
पूर्ववद् भागमानेन प्रस्तरं पूर्ववद् भवेत् ।
सार्धभूतांशकं चैवमुपरिष्टा(त्ता)दुन्मित्युक्तकम् ॥ ९७ ॥
द्वितीयं प्रस्तरोतुङ्गं सत्रिभागं द्विभागिकम् ।
ऊर्ध्वपाद(दं) शरांशं तु तृतीयं प्रस्तरोदयम् ॥ ९८ ॥ 196
सार्धद्विभागमानेन ऊ(चो)र्ध्वपाद(दं) युगांशकम् ।
चतुर्थं प्रस्तरोत्सेधं सपादद्वयांशकं भवेत् ॥ ९९ ॥
सदूर्ध्वाङ्घ्रियुगांशं तु पञ्चभाग(प्रस्तरं च) द्विभागिकम् ।
वेदिकोर्ध्वं शिवांशं स्याद् ग्रीवांशं तु द्विभागिकम् ॥ १०० ॥ 200
द्विभागं शिखरतुङ्गं स्यात् शि(च्छि
३३| गोपुरविधानम् २०७
एवमेकतलं प्रोक्तं द्वितले भागमुच्यते ।
कृत्वा द्विरष्टभागं यद्भूवांशं चोर्ध्वपादकम् ॥ ११० ॥ 220
द्विभागं प्रस्तरोत्तुङ्गमेकांशं वेदितुङ्गकम् ।
कोलकं गलतुङ्गं स्याद्द्वेदांशं मस्तकोदयम् ॥ १११ ॥
तदर्धं स्तूपिकोत्सेधं शेषं तु पूर्ववद् भवेत् ।
तदूर्द्ध्वे(र्ध्वे) पञ्चविंशांशं कृत्वा च त्रितलं विदुः ॥ ११२ ॥ 224
द्वितीयाङ्घ्र्योच्चं षड्भागं सार्धद्वयंशकं प्रति ।
तदूर्ध्वे सार्धपञ्चांशं पादायामं तृतीयकम् ॥ ११३ ॥
अन्तिमं च द्विभागं स्याद् वेदिकोदयमीरितम् ।
ग्रीवस्तुङ्गंकलाभागं शिखरोच्चं युगांशकम् ॥ ११४ ॥ 228
स्तूपितुङ्ग(ङ्गं) द्वयं प्रोक्तं प्रत्यूर्ध्वादिशिखान्तकम् ।
नवाधिक्यं दशांशं तद्विभजेत्तु चतुस्थ(स्त)ले ॥ ११५ ॥
तदंशे सार्धबन्धां(न्ध्वं)शं पादोच्चं तद्वि(वृद्धि)तीयकम् ।
अर्धाधिकशिवांशांस्तं तदूर्ध्वे प्रस्तरमानकम् ॥ ११६ ॥ 232
सार्धत्रिभाग(नं) पादोच्चं सपादांश(शं) कपोतकम् ।
सत्रिपादद्वया(यम)ङ्घ्रिश्च(च) प्रस्तरोच्चं शिवांशकम् ॥ ११७ ॥
वेदिकोच्चं तदर्धं स्याद् ग्रीवोच्चं सार्धभागिकम् ।
तद्द्वयं शिखरोत्तुङ्गं तदर्धं तच्छिखोदयम् ॥ ११८ ॥ 236
प्रस्तरस्योपरिष्टात्तु स्तूपिकान्तोदयं तथा ।
षट्पञ्चभागिकं कृत्वा भूतांशं पादतुङ्गकम् ॥ ११९ ॥
नेत्रांशं प्रस्तरोत्तुङ्गं सार्धवेदा(दम)ङ्घ्रितुङ्गकम् ।
त्रिपादोपेतमेकांशं प्रस्तरोदयमीरितम् ॥ १२० ॥ 240
सपादवेदा(दम)ङ्घ्रितुङ्गं स्यात्सार्धभागो(गमू)र्ध्वमञ्चकम् ।
सार्धबन्ध्वा(न्ध्व)ङ्घ्रितुङ्गं च (स)पादांशं प्रस्तरोदयम् ॥ १२१ ॥
तदूर्ध्वे वेदि तुङ्गार्धं कन्धरं सार्धभागिकम् ।
तद्द्वयं शिखरतुङ्गं स्यात्पादांशं तच्छिखोदयम् ॥ १२२ ॥ 244
एवं पञ्चतलं प्रोक्तं शेषं प्रागुक्तवद् भवेत् ।
अथवा द्वारशोभादि पादुकान्तं शिखान्तकम् ॥ १२३ ॥
२०८ मानमारे [अध्यायः
भागमानवशाद् गण्यमानं यत्त्रोच्यते बुधैः ।
पूर्वैस्तु तुङ्गमानं तद्दशभागाद्विभाजिते ॥ १२४ ॥ 248
द्विभागं चोपपीठोच्चं तस्मादेकांश(शं) कुट्टिमम् ।
तद्द्वयं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ॥ १२५ ॥
तत्समं ग्रीवतुङ्गं स्यात्तद्द्वयं शिखरोदयम् ।
एकांशं तच्छिखोदय शेषमानं तु पूर्ववत् ॥ १२६ ॥ 252
एवमेकतलं प्रोक्तं द्वितलं(ल)भागमुच्यते ।
जन्मादिपूर्वपर्यन्तं नवपङ्क्त्यंशकं भवेत् ॥ १२७ ॥
त्र्यंशं चोपपीठोच्चं कुट्टिमं च द्विभागिकम् ।
पाददीर्घ(दैर्घ्यं) युगांशं स्यात्सत्रिपादांश(शं) मञ्चकम् ॥ १२८ ॥ 256
सत्रिपादद्वयांशं च मूलपादोदयं तथा ।
कपोतप्रतिरेकांशं वेदितुङ्गं तदर्धकम् ॥ १२९ ॥
ग्रीवाष्टमेकभागं स्याच्छिखरेशं कलांशकम् ।
तदर्धं स्तूपिकोत्तुङ्गं शेषं प्रागुक्तवन्नयेत् ॥ १३० ॥ 260
त्रितले पूर्ववत्तुङ्गं त्रिस्(त्रि)सप्तांश(शं) विभाजिते ।
चतुर्भागे(गमु)पपीठोच्चं सार्धांशं मसूरकम् ॥ १३१ ॥
गुणांशं पादतुङ्गं स्यात्कपोतं सार्धभागिकम् ।
सार्धद्वयांशं पादोच्चं प्रस्तरोच्चं शिवांशकम् ॥ १३२ ॥ 264
सपादद्व्यंशका जङ्घा मञ्चायामं त्रिपादकम् ।
तदूर्ध्वेऽर्धांशं वेद्युच्चं चोर्ध्वंग्रीव(वं) शिवांशकम् ॥ १३३ ॥
ग्रीवद्वयसमं मूर्ध्नि ग्रीवतुल्यं शिखोदयम् ।
शेषं प्रागुक्तवदुद्दिष्टं चतुस्तलमथोच्यते ॥ १३४ ॥ 268
जन्मादि स्तूपिपर्यन्तं कृत्वैकं(क)त्रिंशदंशकम् ।
षड्भागं चोपपीठोच्चं द्यंशा(शम)धिष्ठानमानकम् ॥ १३५ ॥
तद्द्वयं पाददीर्घ(दैर्घ्यं) तु सत्रिपादांश(शं) मञ्चकम् ।
सपादद्वि(त्र्यं)शकं पादं मञ्चतुङ्गं शिवांशकम् ॥ १३६ ॥ 272
पादायामं गुणांशं स्यात्सपादांशं कपोतकम् ।
पादोनत्रि(त्र्यं)शकं चोर्ध्वं पादायामं प्रकल्पयेत् ॥ १३७ ॥
[३] गोपुरविधानम् २०६
प्रस्तरं चैकभागं स्यात्तदर्धं वेदिकोदयम् ।
तदूर्ध्वं ग्रीवतुङ्गं स्याद् ग्रीवस्तुङ्गद्वयं शिरः ॥ १३८ ॥ 276
एकांशं स्तूपिकोत्तुङ्गं शेषं पूर्ववदाचरेत् ।
जन्मादिस्तूपिकान्तं च चत्वारिंशा(शद)ष्टभागिकम् ॥ १३९ ॥
तद्भागोपानमर्धांशं ग्रीव(सत्रि)पादाष्टकांशकम् ।
उपपीठमधिष्ठानं तुङ्गं सार्धद्वयांशकम् ॥ १४० ॥ 280
तदूर्ध्वं पादतुङ्गं स्यात्तदर्धं प्रस्तरोदयम् ।
सार्धवेदा(दम)ङ्घ्रितुङ्गं स्यात्सपादद्व्यंश(शं) मञ्चकम् ॥ १४१ ॥
पादाधिक्यं चतुर्भागं पाद(दं) मञ्च(ञ्चं) द्विभागिकम् ।
वेदांशं पादतुङ्गं च सत्रिपादांश(शं) मञ्चकम् ॥ १४२ ॥ 284
तदूर्ध्वं चरणोत्तुङ्गं सत्रिपादगुणांशकम् ।
प्रस्तरा(रम)न्य(न्य)र्धभागं तु वेदितुङ्गं त्रिपादकम् ॥ १४३ ॥
तदूर्ध्वं गलतुङ्गं स्याद् गुणांशं शिखरोदयम् ।
सार्धभागं शिखोत्तुङ्गं(ङ्ग)मेवं पञ्चतलं विदुः ॥ १४४ ॥ 288
शेषं च पूर्ववत्कुर्याद् द्वारशोभादि पञ्चधा ।
घने चाप्यघने चैव विन्यासमथ वक्ष्यते ॥ १४५ ॥
विस्तारयाम(मं) शोभादि(दौ) पूर्ववद् गोपुरान्तकम् ।
यन्मानं बहिरन्येन चूलिकामानसंमि(यु)तम् ॥ १४६ ॥ 292
एकं हस्तं समारभ्य षट्षडङ्गुलवर्धनात् ।
शोभादिगोपुरान्तायनिर्गमं(मः) पञ्चधा भवेत् ॥ १४७ ॥
अथवा भित्तिपादं(द्वात) स्याद् दण्डमानेन संयुतम् ।
एकदण्डं समारभ्य दशदण्डावसानकम् ॥ १४८ ॥ 296
यथा विमानसंयुक्तं तत्र दोषो न विद्यते ।
अज्ञान(नान्) मानविच्छेदं सर्वदोषकरं भवेत् ॥ १४९ ॥
तस्मात्परिहरेद्विद्वान्माननिर्गममेव च ।
यथातारे तु धातां(त्वं)शं गर्भगृहं गुणांशकम् ॥ १५० ॥ 300
एकमा(का)वृतभित्ति(त्तिः) स्यादेवमेकतलं भवेत् ।
द्वितले तार(रं) सप्तांशं वेदांशं गर्भगृहकम् ॥ १५१ ॥
26
२१० मानसारै [अध्यायः
परितस्(तः) सार्धभागेन भित्तिविष्कम्भमानकम् ।
तदंशे(दर्धांशं) कूटशाला[दि]मण्डितं भित्तितो न्यसेत् ॥ १५२ ॥ 304
तत्समं चान्तरालं स्यान्मध्यकोष्ठं गुणांशकम् ।
तस्मात्तु कूटयोर्मध्ये चान्तरालं प्रकल्पयेत् ॥ १५३ ॥
अन्तरालं विशेषेण पञ्जरादिविभूषितम् ।
एवं तु द्वितलं प्रोक्तं कारयेद् द्वारशालके ॥ १५४ ॥ 308
त्रितले ताररन्ध्रांशे गर्भगेहं गुणांशकम् ।
आवृतभित्तिरेकांशं तत्समानेनालिन्दकम् ॥ १५५ ॥
तद्वाह्यावृतशेन कूटकोष्ठादि पूर्ववत् ।
द्वारप्रासादमेवं तु द्वारहर्म्यो(र्म्यम)धुनोच्यते ॥ १५६ ॥ 312
विस्तारे दशभागे तु गर्भगेहं त्रियं(त्र्यां)शकम् ।
तद्वाह्ये(ऽऽ)वृतभित्तिश्च अं(स्तु चां)शेनावृतलिन्द्र(तालिन्द)कम् ॥ १५७ ॥
अंशेन कर्णहर्म्यादि परितोऽशेन कूटकम् ।
मुख(ख्य)शालैस्तु(लं तु) भूतांश शेषं [तु] चान्तरालकम् ॥ १५८ ॥ 316
एवं चतुस्तलं प्रोक्तं पञ्चभूमिरिहोच्यते ।
विस्तारे(रमे)कदशांशं तु नलिगेहं गुणांशकम् ॥ १५९ ॥
तद्वाह्यांशमेकेन वृधा(द्धा) कुड्यविशालकम् ।
तत्तद्वाह्यावृतांशेन कुर्यादालिन्द्र(दलिन्द)कं भवेत् ॥ १६० ॥ 320
एकांशं कूटशालादि कर्णहर्म्यावृतं तथा ।
एकांशं कूटविस्तारं महाशाला त्र्यां(गच्छां)शकम्(का) ॥ १६१ ॥
एकैकं चान्तरालं स्यात्क्षुद्रशालैकभागिकम् ।
विस्तारद्विगुण्यान्येव भागमेकेन वर्धनात् ॥ १६२ ॥ 324
यथेष्टा(ष्टमा)यततार(रे) सर्वे कूटकोष्ठादि विन्यसेत् ।
पाद्यान्थान् भद्रसंयुक्तं देशेषु पद(पादं) विन्यसेत् ॥ १६३ ॥
प्रधाने चोर्ध्वदेशे वा कुर्याद् दोषो न विद्यते ।
एकदण्डं द्विदण्डं वा त्रिदण्डं भद्रनिर्गमम् ॥ १६४ ॥ 328
अन्येषां हर्म्यमानेन युक्त्या तत्रैव योजयेत् ।
एवं तद्द्वनमानो(नमु)त्तमघनं वक्ष्यतेऽधुना ॥ १६५ ॥
३३] गोपुरविधानम् २११
विस्तारायामभक्ति(क्तिः) स्यादुक्तवद्भुक्तितो न्यसेत् ।
द्वित्रिभाग(गं) विशाले(लं) तु आ(चा)यतं तत्प्रकल्पयेत् ॥ १६६ ॥ 332
भक्तित्रिभागमेकांशं भित्तिविस्तारमेव च ।
शेषं तद्गर्भगेहं तु मध्यभागे तु वेशनम् ॥ १६७ ॥
अथवा चायतं वेदभागं कुर्याद् विचक्षणः ।
हर्म्यार्धं भित्तिविस्तारं शेषं तु गर्भगेहके ॥ १६८ ॥ 336
भित्त्यर्थं परितोलिन्द्र(न्दस्य) द्वारदेशे विशालता ।
त्रिभागं भद्रविस्तारं सार्धभागं तु निर्गमम् ॥ १६९ ॥
नवपङ्क्त्यंशकं चापि रुद्रभागांशमेव च ।
एवं तु मध्यकोष्ठं च निर्गमं च द्विभागिकम् ॥ १७० ॥ 340
तस्य मध्ये तु भद्रं वा पञ्चषड्भागमेव वा ।
अथवा सप्तभागं तु वसुभागं तथैव च ॥ १७१ ॥
एकांशं निर्गमं कुर्यात्षट्सप्तांशमथापि वा ।
एवं तु चान्तरालं स्यान्मध्ये मध्यशालयुक् ॥ १७२ ॥ 344
द्विभागं वा त्रिभागं वा विस्तारं निर्गमांशकम् ।
तद्द्वयोरन्तरं कुर्याद्युक्त्या तत्रैव भूषितम् ॥ १७३ ॥
एकं वा कर्णकूटं तु तथैवान्तर्विशेषतः ।
भित्तिबाह्याष्टवांशेन कर्णकूटाद्वहिस्तथा ॥ १७४ ॥ 348
एवं जलस्थलं प्रोक्तमूर्ध्वाधोभूमि(मि) विन्यसेत् ।
शेषं तु पूर्ववत्कुर्यादेवं तु त्रितलं मतम् ॥ १७५ ॥
मध्यकोष्ठविशाले तु पूर्ववत्स्वांशमाधिकम् ।
शेषं प्रागुक्तवत्कुर्यात्सर्वं युक्त्या प्रयोजयेत् ॥ १७६ ॥ 352
द्वारप्रासादमेवं तु त्रितलेष्वेव कारयेत् ।
गोपुरे तु चतुर्भूमिविन्यासं च मयाधुना ॥ १७७ ॥
विस्तारे रुद्रभागं तु पूर्ववदायतं मतम् ।
अष्टांशाद्येकभागान्तं पञ्चधा विपुलं भवेत् ॥ १७८ ॥ 356
तत्तद्वि(वृद्धि)गुणसीमान्तं भाग(पाद)मेकेन वर्धनात् ।
एवं चायमिदं प्रोक्तं भित्तिगेहमिहोच्यते ॥ १७९ ॥
२१२ मानसारं [अध्यायः
त्रिचतुष्पञ्चषड्भागं सप्तांशं कुड्यविस्तारम् ।
शेषं तु नालगेहं तु पञ्चधा परिकीर्तितम् ॥ १८० ॥ 360
भित्तिबाह्यांशकारेण द्विभागं च तले तले ।
ललाटे भद्रमेकांशं विस्तारं निर्गमार्धकम् ॥ १८१ ॥
अन्तस्त्वलिन्द्र(न्द)कं वापि भित्तिकं वाङ्घ्रिकान्वितम् ।
तद्भूवालिन्द्र(न्द)कं(के) युक्त्या जालकाना(कम)ङ्घ्रिकान्तरे ॥ १८२ ॥ 364
धनं वाप्यधनं वापि भित्तिं कुर्याद् विचक्षणः ।
आयामे मध्यमे द्वारं भित्तिदेशे द्वयं न्यसेत् ॥ १८३ ॥
गेहे सङ्गललाटे च ड (तु चो)पपीठाकृतिस्(वि)तलम् ।
अथवा वप्रसंयुक्त्या यथेष्टमुत्सेध(धं) मानयेत् ॥ १८४ ॥ 368
स्तम्भयुग्मोपुरं ज्ञात्वा विस्तारे चोत्तरान्तकम् ।
तन्त्रिभागद्विभागं वा भित्तिरे(में)केन कारयेत् ॥ १८५ ॥
स्थापयेद् भागमेकं चेत्तत्सूत्राद्बहिराश्रितम् ।
अधो(न्तो)चरायते न्यस्य तिर्यक् तौलिं प्रकल्पयेत् ॥ १८६ ॥ 372
पादं वायते तौलिं कुर्याद्युक्त्या विचक्षणः ।
तदूर्ध्वं जयन्तिकं कुर्यात्तत्तत्प्रच्छादनान्वितम् ॥ १८७ ॥
अथवा त्रिचतुर्भागं विस्तारायामकं तथा ।
भित्तिस्तारार्धभागं तु शेषं तद्गेहमानकम् ॥ १८८ ॥ 376
तत्समं परितोलिन्द्रं(न्दं) शेषं तत्पूर्ववद्भवेत् ।
अथवा चायतं मानमेकभागाधिकं तथा ॥ १८९ ॥
पूर्ववद् भित्तिविस्तारमेकांशावृतालिन्द्र(न्द)कम् ।
त्रिभाग(गं) मध्यभद्रं च शेषं पूर्ववदाचरेत् ॥ १९० ॥ 380
चतुर्भागविशाले तु पञ्चभागायतं तथा ।
भागार्धं भित्तिविस्तारं शेषं गर्भगेहं भवेत् ॥ १९१ ॥
एकं च परितोद्वारं मध्यभद्रं त्रिभागिकम् ।
निर्गमं चैकभागेन तत्तद्भद्र(द्रं) द्विभागिकम् ॥ १९२ ॥ 384
एकांशं निर्गमोपेतं युक्त्या शेषं तु पूर्ववत् ।
चतुःपञ्चभागविस्तारमायामं प्रविधीयते ॥ १९३ ॥