सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 181, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 181

१४६ मानमारे [अध्यायः
तदूर्ध्वं ग्रोवमंशेन पूर्ववत्समलङ्कृतम् ।
अथवा मनुभागं तु हर्म्यतुङ्गं(ङ्ग) विभाजते ॥ ४० ॥ 80
सत्रिपादमधिष्ठानं तदूर्ध्वं चाङ्घ्रि भाजिते(तम्) ।
तदर्धं प्रस्तरोत्सेधं युगांशांघ्रि(शं ग्रीव)तुङ्गकम् ॥ ४१ ॥
तदर्धं शिखरोत्तुङ्गं तदूर्ध्वं स्तूपिकमंशकम् ।
ग्रीवमञ्चोर्ध्वमंशेन यथेष्टाधिष्ठानसंयुतम् ॥ ४२ ॥ 84
तदूर्ध्वं च द्विभागेन कर्णहर्म्यादिमण्डितम् ।
शेषं च कन्धरं प्रोक्तं पूर्ववत्समलङ्कृतम् ॥ ४३ ॥
अथवा हर्म्यतुङ्गे तु षोडशांशं विभाजिते ।
अधिष्ठानं द्विभागं स्यात्पादतुङ्गं युगांशकम् ॥ ४४ ॥ 88
प्रस्तरं चाश्विनीभागं चोर्ध्वं भागं विशेषतः ।
मनु(मञ्च)भागं(गो) युगांशं स्यात्प्रस्तरं च द्विभागिकम् ॥ ४५ ॥
तत्समं ग्रीवतुङ्गं स्याद्युगांशं शे(शि)खरोदयम् ।
तदर्धं स्तूपिकोत्तुङ्गं चाष्टवर्गमिति(मतः) स्मृतम् ॥ ४६ ॥ 92
मूलहर्म्यविशाले तु चाष्टभागं विभाजिते ।
षड्भागमूर्ध्वतले कुर्यात्तद्विस्तारमिति स्मृतम् ॥ ४७ ॥
ऊर्ध्वाङ्गं पूर्व(हर्म्य)वत्कुर्यात्सर्वालङ्कारसंयुतम् ।
तदेवाष्टांशकं चोर्ध्वं पादतुङ्गं द्वयांशकम् ॥ ४८ ॥ 96
तदर्धं मञ्चतुङ्गं स्यात्तत्समं कन्धरोदयः ।
द्वयर्धांशं शिखरोत्तुङ्गं चाप्यर्थाशं शिरो(र ङ)दयः ॥ ४९ ॥
ऊर्ध्वं पादोदये बन्धुभागमेकांश(शं) वेदिकम् ।
शेषं पूर्ववत्कुर्यादष्टवर्गविदो विदुः ॥ ५० ॥ 100
वेदवृद्धाष्टभागं स्यान्जन्मादिस्तूपिकान्तकम् ।
अधिष्ठान(नं) युगांशं स्यात्पादा(दम)धिक(कं) पाल(लि)कांशकम् ॥ ५१ ॥
प्रस्तरोर्ध्वं युगांशं स्यादूर्ध्वं पादं शरांशकम् ।
तदूर्ध्वं द्व्यंश(शं) मञ्चं स्याद्वेदिकोर्ध्वं शिवांशकम् ॥ ५२ ॥ 104
ग्रीवतुङ्गं द्विभागं स्याच्छिखरोशं वेदभागिकम् ।
स्तूपिकोचं द्विभागं स्यात्कर्णहर्म्यादिमण्डितम् ॥ ५३ ॥