सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 180, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 180

१९] एकतलविधानम् १४५
तत्समं शिखरोत्तुङ्गं तदधं तच्छिखोदयम् ।
प्रस्तरोपरि चैकांशं(शेन) कर्णहर्म्यं प्रकल्पयेत् ॥ २६ ॥ 52
तदूर्ध्वं पूर्ववद्ग्रीवं युक्त्या चांशेन योजयेत् ।
कर्णहर्म्यस्य विस्तारं पङ्भागं(गे) तु विभाजिते ॥ २७ ॥
एकांशं कर्णकूटं स्यान्मध्ये शाला द्वयांशकम् ।
एकं वा द्वित्रिदण्डेन निर्गमं भद्रमेव वा ॥ २८ ॥ 56
शालाकूटद्वयोर्मध्ये चैकह्वारा सपञ्जरम्(रा) ।
तत्तुङ्ग(ङ्गं) सप्तभागं स्यादेकांशं वेदिकोदयम् ॥ २९ ॥
तदूर्ध्वऽध्यर्धभागेन गलं त्र्यंशकं मस्तकम् ।
तदधं स्तूपिकोत्तुङ्गं कर्णहर्म्यमिति स्मृतम् ॥ ३० ॥ 60
तदेवाधिष्ठानसंयुक्तं कर्णहर्म्यं विना तथा ।
तदूर्ध्वं वेदिकांशेन कर्णाकम्पाब्जकम्पयुक् ॥ ३१ ॥
अथवा वेदिकोत्तुङ्ग(ङ्गं) शेषं भागमिहोच्यते ।
तदेव वेदिकांशेन नवभाग(गे) विभाजिते ॥ ३२ ॥ 64
द्विभागं वाजनं मूले चोर्ध्वं कर्णं गुणांशकम् ।
तदूर्ध्वं कम्पमेकांशं दल(लं) द्वयंशेन वाजनम् ॥ ३३ ॥
वेदितारं चतुर्भागं मध्यकोष्ठं शिवांशकम् ।
नासिकायुक्तकोष्ठं वा नासिकापञ्जरान्वितम् ॥ ३४ ॥ 68
शेषं प्रागुक्तवत्कुर्यात्सर्व्वाङ्कारसंयुतम् ।
अथवा हर्म्यतुङ्गे तु द्वादशांशं विभाजिते ॥ ३५ ॥
सार्धतुङ्गमधिष्ठानं पाददीर्घ(दैर्घ्यं) गुणांशकम् ।
तदर्धं प्रस्तरोत्सेधं ग्रीवोधं तु गुणांशकम् ॥ ३६ ॥ 72
शिखरोधं द्विभागं स्यात्स्तूपिकोर्ध्वं शिवांशकम् ।
प्रस्तरोर्ध्वे द्विभागेन चान्तरं प्रस्तरान्वितम् ॥ ३७ ॥
उत्सेधदशभागे तु वेदितुङ्गं शिवांशकम् ।
पादतुङ्गं गुणांशं स्यात्त्रिपादांशक(कं) मध्व(स्त)कम् ॥ ३८ ॥ 76
वेदिकोर्ध्वं तु (स)पादांशं कन्धरोधं शिवांशकम् ।
शिरस्तुङ्गा(ङ्गम) थिनीभागे चोर्ध्वं कुम्भं शिवांशकम् ॥ ३९ ॥
18