सामग्री पर जाएँ
सर्वकोश
मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

मानसार शिल्पशास्त्र (प्रसन्ना कुमार आचार्य - प्राचीन भारतीय स्थापत्य, नगर-नियोजन व मूर्ति-शिल्प महाकोश)

Manasara on Architecture and Sculpture by P.K. Acharya

मानसार ऋषि (अनुवादक: डॉ. प्रसन्ना कुमार आचार्य) द्वारा

DevanagariHindipublished856 पृष्ठ

पृष्ठ 182, कुल 856 में से

संदर्भ में पढ़ें
पृष्ठ 182

१९] एकतलविधानम् १४७
एतदष्टविधं प्रोक्तमेकभूमिविधानके ।
विमानं सम[ल]यं हर्म्यं चालयं वा चाधिष्ण्यकम् ॥ ५४॥ 108
प्रासादं भवनं क्षेत्रं मन्दिरा(रमा)यतनं तथा ।
वेश्म च गृहमावासं चयं धाम सनातनम् ॥ ५५ ॥
वासं गेहमागारं वा सदनं वसितं गृहम् ।
निलयं तल्ल(लं) कोष्ठं च स्थानं पर्यायवाचकम् ॥ ५६ ॥ 112
विमानस्य तु विस्तारे त्रिभागं वांशकं गृहम् ।
हर्म्यंतारे तु भूतांशं त्रियं(त्रयां)शं गर्भगेहकम् ॥ ५७ ॥
गेहतारे तु सप्तांशं नालीतारं युगांशकम् ।
नालीतारं युगांशं स्याच्छुद्रांशं गृहविस्तृतम् ॥ ५८ ॥ 116
चयं(य)व्यासं च रुद्रांशं षड्भागं कोष्ठविस्तृतम् ।
सैकार्कभागविस्तारे सप्तांशे नालिके गृहम् ॥ ५९ ॥
पञ्चादशांशकं तारे साष्टांशं गर्भगेहकम् ।
विस्तारे च द्विभागे तु चैकांशं तुङ्गविस्तृतम् ॥ ६० ॥ 120
शेषं कुड्य(ड्य)विशालं स्याद्गर्भगेहावृतं तथा ।
भदावल(भाद्वादश)भूरपि कोस्तास(कोष्ठं) विवलान्तं मूलगृहम् ॥ ६१ ॥
अत्र(न्तः)गृह(हं) विमानविधिमाशाप(मशेषं) गृहं नालिकाविक(दिक्) ।
विमानमिदमुक्त(क्तं) स्याद् यमागतारानां(थागतं) गृहतारम् ॥ ६२ ॥ 124
यत्तत्कुड्य(ड्य)विशालं तु द्वादशांश(शे) विभाजिते ।
पञ्चांशं तु बहिःकुर्यात् सा(चा)न्त(न्तः) सप्तांशकं त्यजेत् ॥ ६३ ॥
तद्भूयोर्मध्यदेशे तु (च) वारथा(द्वारपाद)स्य मध्यमे ।
एतद्वृद्धि(हिः) स्थितस्तम्भं तदुच्चान्तरितो(तमु)च्यते ॥ ६४ ॥ 128
तत्पादमध्यमोक्त्यान्तमङ्गुला(न्तं क्षुद्रा)ङ्घ्रिमध्यमम् ।
एवं तु मध्यमं श्रेष्ठं हर्म्यं द्वारस्य योगतः(योग्यकम्) ॥ ६५ ॥
क्षुद्रहर्म्ये तु युक्त्या च कुर्यात्तु शिल्पि(ल्प)वित्तमः ।
अन्तस्तम्भ(म्भं) विना वापि कुर्याद्वाह्यास्तु पादकम् ॥ ६६ ॥ 132
विभजेत्पञ्चषष्टाष्ट(ष्ट) हर्म्यपादोदयं तथा ।
तत्तदेकांशाहीनं स्याच्छुद्धद्वारोदयं भवेत् ॥ ६७ ॥