सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

568 मानमेयरहस्यश्लोकवार्तिके

एवमेष महान् धर्मः स ते पूर्वं नृपोत्तम ।
कथितो हरिगीतासु समासविधिकल्पितः ॥
नूनमेकान्तिधर्मोऽयं श्रेष्ठो नारायणप्रियः ।
सहोपनिषदान् वेदान् ये विप्रास्सम्यगास्थिताः ॥
पठन्ति विधिमास्थाय ये चापि यतिधर्मिणः ।
तेभ्यो विशिष्टां जानामि गतिमेकान्तिनां नृणाम्।
समुपोढेष्वनीकेषु कुरुपाण्डवयोर्मृधे ।
अर्जुने विमनस्के च गीता भगवता स्वयम् ॥
आगतिश्च गतिश्चैव पूर्वं ते कथितं मया ।
गहनो ह्येष धर्मो वै दुर्विज्ञेयोऽकृतात्मभिः ॥
7 एवमेकं सांख्ययोगं वेदारण्यकमेवच ।
परस्पराङ्गन्येतानि पञ्चरात्रं तु कथ्यते ॥
इत्यादीनि प्रमाणानि प्रसिद्धानि विपश्चिताम् ।
तत्र चान्तिमपद्येन शास्त्रसारार्थ उद्धृतः ॥
तस्यायमर्थश्श्रीभाष्ये तर्कपादे निरूपितः ।
पञ्चविंशतितत्त्वानि सांख्योक्तानीति विश्रुतम् ।
योगोक्तश्वापि साष्टाङ्गयोगस्संयमलक्षणः ।
वेदोदितं च कर्मापि यागहोमादिलक्षणम् ॥
आरण्यकं परं ब्रह्म प्रतिपादयति स्फुटम् ।
परस्पराङ्गता तावत् तत्त्वं ब्रह्मात्मकं स्वतः ॥

भक्तिः 56
ब्रह्मोपासनरूपश्च योगः कर्मापि कृत्स्नशः ।
तदाराधनरूपं चेत्येतदत्राभिधीयते ॥
तत्पञ्चरात्रे प्रख्याते शास्त्रेऽस्मिन्विशदीकृतम् ।
इति नारायणेनैव स्वयं हि कथितं त्विति ॥
8 एवमेतच्छास्त्रतत्त्वं संग्रहादिह सूचितम् ।
तच्छास्त्रमनुरुद्ध्यैव कर्मब्रह्मात्मनोरपि ॥
शास्त्रयोस्संधिरुदितस्सांकर्षे चात्र मन्यमे ।
प्रतिपाद्यमिदं तत्र पूर्वाचार्यनिरूपितम् ॥
स्वरूपमादौ तद्भेदस्तदुपासनपूर्वकम् ।
फलं च देवताकाण्डे देवतानां तु कथ्यते ।
ततश्च संहितं शास्त्रमेतद्विंशतिलक्षणम् ।
इति वृत्तिकृतां वाक्यमेतत्तात्पर्यगर्भितम् ॥
एतेन कर्ममीमांसासिद्धान्ते जडविश्रुतः ।
निर्देववादो निस्संविद्देववादोऽप्यपाकृतः ॥
तं च संकर्षकाण्डं तु काशकृत्स्नविनिर्मितम् ।
प्राहुः केचिद्बुधास्त्वन्ये विदुः जैमिनिनिर्मितम् ॥
समाख्ययोल्लिखन्त्यन्ये संकर्षणविनिर्मितम् ।
सर्वथा पाञ्चरात्रस्य सिद्धान्तमनुवर्तते ॥
स्पन्दप्रदीपिका नाम भट्टोत्पलविनिर्मिता ।
तत्र चोदाहृतं ग्रन्थजातमेतन्निशम्यताम् ॥
M.R. 72

70 मानमेयरहस्यश्लोकवार्तिके
पाञ्चरात्रश्रुतिः पाञ्चरात्रोपनिषदोऽपि च ।
संकर्षणस्य सूत्राणीत्यादिकं विविधं तु तत् ॥
तत्सूत्रस्थं वाक्यमेकमिदं तावदुदाहृतम् ।
येनेदं दृश्यते विश्वं द्रष्टा सर्वस्य यस्सदा ॥
दृश्यश्चराचरत्वे यः स विष्णुरिति गीयते ।
एतेन विष्णुपारम्यसिद्धान्तोऽयमिति स्थितम् ॥
तत्सूत्रमनुसृत्यैव काशकृत्स्नेन वाऽथवा ।
कृतं जैमिनिना सूत्रं देवताकाण्ड इष्यते ॥
पूर्णप्रज्ञैरनुव्याख्याप्रबन्धे देवकाण्डगः ।
द्वितीयलक्षणश्शेषप्रणीत इति भाषितम् ॥
स एष संकर्षकाण्डः मीमांसाभाष्यकर्तृभिः ।
आचार्यशबरैः पूर्वाचार्यैश्च समुदाहृतः ॥
अन्ते हरौ स विष्णुश्च तं ब्रह्मेति च सूत्रणात्
अथातो ब्रह्मजिज्ञासा चेति शास्त्रं सुसङ्गतम्
१ तत्र शारीरकं शास्त्रं बादरायणनिर्मितम् ।
स बादरायणो व्यास इत्याहुर्बहवो बुधाः ॥
श्रीमद्रामानुजाचार्यः बादरायणनिस्वनम् ।
भाष्ये स्वे सूत्रकृत्त्वेन व्यासत्वेनाप्यभाषत ॥
तथा श्रीयामुनाचार्यस्सिद्धित्रयनिबन्धने ।
उपक्रमे प्राह सूत्रं बादरायणनिर्मितम् ॥

भक्ति: 57
श्रीशाङ्करे भास्करेऽपि चान्त्यसूत्रावतारणे ।
सूत्रकर्तेति विस्पष्टो भगवान् बादरायणः ॥
स्मरन्ति चेत्यादिसूत्रे व्यासादय इतीरणात् ।
कृष्णद्वैपायनो नासाविति भङ्ग्याऽत्र सूच्यते ॥
स्मृतेश्चेत्यादिसूत्रेषु गीतावचनलेखनात् ।
ब्रह्मसूत्रपदैश्चेति गीतायामपि दर्शनात् ॥
परस्परगृहीतिस्तु विरोधायेति दृष्टितः ।
ब्रह्मसूत्रपदं वेदमौळिवाक्यपरं कृतम् ॥
इत्युल्लिखन्ति कतिचित् न तत्तु विदुषां मतम् ।
कृष्णद्वैपायनस्सूत्रकर्ता भारतकृच्च सः ॥
द्वीपे बदरिकामिश्रे बादरायणमच्युतम् ।
पराशरात्सत्यवती लेभे पुत्रं परंतपम् ॥
तस्यैव सूत्रकर्तृत्वं पूर्णप्रज्ञैरुदाहृतात् ।
स्कान्दवाक्यादपि स्पष्टं निर्णयन्ति यथा पुनः ।
अवतीर्णो महायोगी सत्यवत्यां पराशरात् ।
उत्सन्नान् भगवान् वेदान् उज्जहार हरिस्स्वयम्
चतुर्धा व्यभजत्तांश्च चतुर्विंशतिधा पुनः ।
शतधा चैकधा चैव तथैवच सहस्रधा ॥
कृष्णो द्वादशधा चैव पुनस्तस्यार्थवित्तये ।
चकार ब्रह्मसूत्राणि येषां सूत्रत्वमञ्जसा ॥

श्रुतप्रकाशिकातत्त्वटीकयोरप्युदाहृतम् ।
वचस्त्विदं तथा वाचस्पतिवाक्यं निशम्यताम् ॥
ब्रह्मसूत्रकृते वेदव्यासायापरवेधसे ।
ज्ञानशक्त्यवताराय नमो भगवते हरेः ॥
इत्यन्यत्र प्रपञ्चोऽथ गीताकर्ताऽप्यसौ मतः ।
यतो भारतकर्ता सः, यद्गीतासूत्रयोर्मिथः ॥
ग्रहणं ब्रह्मसूत्रेति स्मृतेश्चेत्यातिशङ्कितम् ।
तत्रेदमवधातव्यं निर्णीतं तत्त्वटीकया ॥
ब्रह्मसूत्रपदैश्चेति भाविदृग्भगवद्वचः ।
सूत्रपश्चाद्भावि वा स्यात् न्यबध्नाद्भारते स्वयम् ।
सूत्रस्य विषयत्वेन वाक्यरूपा कृतिः पुनः ।
प्राक्तनी भाविनी वाऽत्रचोदाह्रियत इत्यतः ॥
न परस्परसंबाधः न प्रसिद्धार्थनिह्नवः ।
अथवाऽनादिसिद्धत्वात् स्मृतिसूत्रप्रवाहयोः ॥
परस्परगृहीतिस्तु न विरोधाय कल्पते ।
प्रवाहानादिवादोऽयं यं शास्त्रशरणा विदुः ॥
10 परीक्षकमतिस्त्वेषा यादृगद्योपलभ्यते ।
शास्त्रमेतत्तथैवादेः कालादिति न निश्चयः ॥
सर्वे भावाः प्रतिकलं परिणामिन इत्यपि ।
श्रूयते दृश्यते चापि प्रबन्धे तु विशेषतः ॥

भक्तिः
कतैर् व हि स्वकं ग्रन्थं आवपत्युद्धपत्यपि ।
बहोः कालात्प्रवक्तॄणां संप्रदाये तु किंपुनः ॥
प्रवक्तारस्तत्रतत्र जैमिन्यादिपदैरपि ।
प्रकाशयन्ति तत्रत्याभिप्राय़ानिति युज्यते ॥
तथाच सर्वैराचार्यैः सम्प्रदायप्रवर्तने ।
परिष्कृतिप्रभेदेन व्यवहारो विकल्पताम् ॥
स्मृतिसूत्रप्रवाहोऽयमनादिरिति वर्णितम् ।
कालेकाले संभवतां प्रायस्संकोचविस्तरौ ॥
कर्मकाण्डः देवकाण्डः ब्रह्मकाण्ड इति त्रयम्
कृतं जैमिनिनैवेति चोल्लिखन्ति परे बुधाः ॥
प्रसिद्धिराद्ययोरस्ति तृतीयस्य पुनर्यथा ।
नैष्कर्म्यसिद्धौ नवतितमश्लोकस्थभारती ॥
जैमिनिस्सामगाचार्यस्सामवेदप्रवर्तकः ।
व्यासशिष्य इति स्पष्टं श्रूयते भारतादिषु ॥
कर्मकाण्डे सामवेदविचारः प्रायशस्ततः ।
छान्दोग्योपनिषत्सामशाखीयेति च विश्रुता ।
प्रायस्तदीयवाक्यानि सूत्राणां विषया इति ।
सूत्रभाष्यसमध्येतृविदुषामतिरोहितम् ॥
जैमिनीयं ब्रह्मसूत्रमावापोद्वापतः पुनः ।
पर्यष्कार्षीद्व्यास इति संदर्भेणोहितुं क्षमम् ॥

574 मानमेयरहस्यश्लोकवार्तिके
अनेकेषां मतं ब्रह्मसूत्रेषूदाहृतं ततः ।
ब्रह्मसूत्राण्यप्यनेकान्यासन्निति च कल्प्यते ॥
एवं प्रकल्पने प्रायः भाति सर्वं सुसंगतम् ।
किंकिं नसंभाव्यतेऽत्र संसारेऽनादिवाहिनि ॥
11 अथात्रैवेश्वरे वादविकल्पोऽपि विविच्यते ।
निर्देववादो निस्संविदैववादः पुरोदितः ॥
निरीश्वरो निर्विशेषेश्वरो वेति विकल्पना ।
कालं ब्रह्म विदुः केचित् स्फोटं ब्रह्म विदुः परे ।
कर्म ब्रह्म विदुः केचित् परेऽथ प्रकृतिं विदुः ।
प्रतिबिम्बैश्वर्यवादः प्रतिभासेश्वरस्तथा ॥
निष्व्यापारेश्वरः कश्चित् तथाऽन्यो निरनुग्रहः ।
प्रवाहेश्वरवादोऽन्यः नानेश्वर इतीतरः ॥
मूर्तित्रयेश्वरः कश्चित् तदन्यतम इत्यपि ।
तदुत्तीर्णविवादोऽन्यः शाक्तसौरादिकल्पनी ॥
कल्पना काचिदन्योन्यविभिन्नास्त्रय ईश्वराः ।
ये सत्त्वादिगुणोन्मेषभिदुरेष्वधिकारिणः ॥
कल्पेषु ते चक्रनेमिनीत्या निम्नोन्नतश्रियः ।
एवं बहुविधा वादाः दृश्यन्ते खल्वपीश्वरे ॥
द्विलिङ्गो द्विविभूतिश्च विष्णुर्नारायणो हरिः ।
श्रीपाञ्चरात्रसिद्धान्ते ह्येष ईश्वरनिर्णयः ॥

प्राप्यः परमभाग्यत्वात् निषेव्यः स्वामिभावतः ।
शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥
बहिरन्तश्च तद्व्याप्तिः तत्र यत्रोभयं भवेत् ।
विभोरणोश्च न बहिर्नान्तः तस्मान्न सा तयोः ॥
प्रयोजनस्य विरहान्न कर्तैश इति ब्रुवन् ।
तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः ॥
निरपेक्षस्वतन्त्रस्य सहकारिमत्तस्सदा ।
अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥
तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः ।
इच्छासंतत्यनादित्वात् न च मूलक्षयः क्वचित् ॥
12 सर्वात्मैक्यं विदुः केचिद्देवैक्यं परे विदुः ।
मूर्तित्रयैक्यं कतिचित् साम्यमेके प्रचक्षते ॥
तेष्वेवान्यतमस्यान्ये विबुधाः परतां विदुः ।
त्रिमूर्त्युत्तीर्णपरतावादिनोऽप्यपरे बुधाः ॥
स हि व्योमातीतवाद इति शास्त्रात्प्रतीयते ।
तत्स्वरूपं किंचिदत्र प्रसङ्गात्प्रतिपाद्यते ॥
उपादानं तु भगवान्निमित्तं तु महेश्वरः ।
इति व्योमातीतवादः दह्रविद्यानिरूपितः ॥
तस्मिन्यदन्तरित्यादौ तच्छब्दो व्योमतत्परः ।
स चाकाशो नामरूपनिर्वोढा विष्णुरुच्यते ॥

576 मानमेयरहस्यश्लोकवार्तिक
तदतीतस्तदन्तस्थः स सदाशिव उच्यते ।
इति वादो निराकारि श्रीभाष्यादिषु सूरिभिः ॥
अतएव निमित्तत्वमुपादानत्वमित्यपि ।
नारायणस्यैवैकस्य श्रुत्याद्येषूपपादितम् ॥
वेदान्तवेद्यो भेदो वाऽभेदो वा द्वयात्मकताऽपिवा ।
कोऽर्थस्समर्थित इति चेत्सर्वं च समर्थितम् ॥
सर्वप्रकारं ब्रह्मैवावस्थितं देहिभावतः ।
अभेदोऽतो रक्षितस्स्यात् एवं ब्रह्मैकवस्त्वपि ॥
नानात्मचिदचिद्वस्तुप्रकारत्वादनेकधा ।
अवस्थितमतो भेदाभेदश्चापि समर्थितः ॥
चिदचिद्वस्त्वीश्वराणां वैलक्षण्यादसंकरात् ।
स्वरूपेण स्वभावेन भेदश्चापि समर्थितः ॥
वेदार्थसंग्रहे त्वस्य विस्तरः प्रतिपादितः ।
स व्योमातीतवादोऽपि तत्रैव सुनिरूपितः ॥
(115) प्रपत्तिः.
1 श्रुतिस्मृतीतिहासेषु प्रपत्तिर्नाम विश्रुता ।
तेषां तु तपसां न्यासमतिरिक्तं ततः श्रुतम् ॥
ब्रह्मणे त्वा महस ओमित्यात्मानं नियोजयेत् ।
अहं मुमुक्षुश्शरणं प्रपद्य इति च श्रुतम् ॥

प्रपन्न इन्द्र शरणं सर्वस्य शरणं सुहृत् ।
इत्यादयः श्रुतिशतं विश्रुतं शरणागतौ ॥
स्मृतीतिहासवचनमनन्तं प्रथितं विदाम् ।
अतस्त्रैवर्णिकत्वादेः भावोऽभावोऽपि कस्य चित् ॥
नाधिकारः प्रपत्तौ स्यादार्किंचन्यमनाश्रितः ।
येषां तु भगवद्गीता प्रमाणमिति सम्मता ॥
प्रपत्तिस्साधनं मुक्तेरिति तैरखिलैर्मता ।
सा परंपरया हेतुरिति सर्वैर्विनिश्चिता ॥
साक्षादपि भवेद्धेतुरिति श्रीवैष्णवा विदुः ।
प्रपत्तिः द्विविधा तस्मात् स्वतन्त्राङ्गविभेदतः ॥
यद्येन कामकामेन न साध्यं साधनान्तरैः ।
तेनतेनाप्यते तत्तन्न्यासेनेव महामुने ॥
परमात्मा च तेनैव साध्यते पुरुषोत्तमः ।
भक्त्या परमया वाऽपि प्रपत्त्या वा महामुने ॥
प्राप्योऽहं नान्यथा प्राप्यः मम कैङ्कर्यलिप्सुभिः ।
इत्यादिकं वचोऽनन्तं भगवच्छास्त्रविश्रुतम् ॥
2 अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् ।
तदेकोपायतायाञ्चा प्रपत्तिश्शरणागतिः ॥
मुनिना भरतेनेत्थं प्रपत्तेर्लक्षणं कृतम् ।
त्वमेवोपायभूतो मे भवेति प्रार्थना मतिः ॥
M.R. 73

७८ मानमेयरहस्यश्लोकवार्तिके
शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ।
आत्मात्मीयभरं सर्वं स्वात्मानं च समर्पयेत् ॥
इत्यादिवचनानां च परामर्शेन देशिकैः ।
निष्कृष्यात्रायमेषोऽर्थः विशदीक्रियते यथा ॥
आकिञ्चन्यभरन्यासोपायत्वप्रार्थनात्मनाम् ।
त्रयाणां सौहृदं सूक्ष्मं यः पश्यति स पश्यति ॥
मुमुक्षुमात्रसामान्यं स्वरूपादिसमर्पणम् ।
अकिंचने भरन्यासस्त्वधिकोऽङ्गितया स्थितः ॥
अत्र रक्षाभरन्यासस्समस्सर्वफलार्थिनाम् ।
स्वरूपफलनिक्षेपस्त्वधिको मोक्षकाङ्क्षिणाम् ॥
स्वनिर्भरत्वपर्यन्तरक्षकैकार्थ्यभावनम् ।
त्यक्तरक्षाफलस्वाम्यं रक्ष्यस्यात्मसमर्पणम् ॥
भरन्यासप्रधानो यस्सर्वान्वयविवर्जितः ।
तच्छेषत्वानुसंधानविशेषः शरणागतिः ॥
३ साधनं भगवत्प्राप्तौ स एवेति स्थिरा मतिः ।
साध्यभक्तिस्थता चैव प्रपत्तिरिति गीयते ॥
उपायो भक्तिरेवेति तत्प्राप्तौ या तु सा मतिः ।
उपायभक्तिरेतस्याः पूर्वोक्तैव गरीयसी ॥
उपायभक्तिः प्रारब्धव्यतिरिक्ताघनाशिनी ।
साध्यभक्तिस्तु सा हन्त्री प्रारब्धस्यापि भूयसी

प्रारब्धकर्मावधिको मोक्ष उक्त उपासितुः ।
दृप्तस्य देहावधिकः आर्तस्यार्त्यवधिर्मतः ॥
इयं केवललक्ष्मीशोपायत्वप्रार्थनात्मिका ।
स्वहेतुत्वधियं रुन्धे किंपुनस्सहकारिणाम् ॥
शास्त्रार्थज्ञानवेलायामुपायत्वेन निश्चितः ।
अनुष्ठानदशायां तूपायबुद्धिं परित्यजेत् ॥
4 फलं संगं च कर्तृत्वमुपायत्वं च संत्यजेत् ।
सात्त्विकत्याग एष स्यात् इति श्रीभगवान् जगौ ॥
साङ्गं ससात्त्विकत्यागं कुर्याद्भरसमर्पणम् ।
अन्यथा विधिकोपस्स्यात् चेतनोऽचेतनो भवेत् ॥
सर्वज्ञोऽपि हि विश्वेशस्सदा कारुणिकोऽपि सन् ।
संसारतन्त्रवाहित्वात् रक्ष्यापेक्षां प्रतीक्षते ॥
आनुकूल्यस्य संकल्पः प्रातिकूल्यस्य वर्जनम् ।
रक्षिष्यतीति विश्वासः गोप्तृत्ववरणं तथा ॥
कार्पण्यं चेति पञ्चाङ्ग आत्मनिक्षेप इष्यते ।
पञ्चानामपिचाङ्गानामिदं विवरणं मतम् ॥
चराचराणि भूतानि सर्वाणि भगवद्वपुः ।
अतः तदानुकूल्यं मे कर्तव्यमिति निश्चयः ॥
अन्तःस्थितस्स भगवान् सर्वेषामिति निश्चयात्
सर्वभूतेषु च सदा प्रातिकूल्यं विवर्जयेत् ॥

80 मानमेयरहस्यश्लोकवार्तिके
कार्पण्येनाप्युपायानां विनिवृत्तिर्विवक्षिता ।
रक्षिष्यतीतिविश्वासात् अभीष्टोपायकल्पना ॥
गोप्तृत्ववरणं नाम स्वाभिप्रायनिवेदनम् ।
शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् ॥
पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ।
प्रपत्तिसंग्रहस्त्वित्थं अनुष्ठानक्रमस्त्वसौ ॥
5 अहं मद्रक्षणभरः मद्रक्षणफलं तथा ।
न मम श्रीपतेरेवेत्यात्मानं निक्षिपेद्बुधः ॥
न्यस्याम्यकिंचनः श्रीमन् अनुकूलोऽन्यवर्जितः ।
विश्वासप्रार्थनापूर्वमात्मरक्षाभरं त्वयि ॥
स्वामिन् स्वशेषं स्ववशं स्वभरत्वेन निर्भरम् ।
स्वदत्तस्वधिया स्वार्थे स्वस्मिन्न्यस्यसि मां स्वयम्
श्रीमन्नभीष्टवरद त्वामस्मि शरणं गतः ।
एतद्देहावसाने मां त्वत्पादं प्रापय स्वयम् ॥
त्वच्छेषत्वे स्थिरधियं त्वत्प्राप्त्येकप्रयोजनम् ।
निषिद्धकाम्यरहितं कुरु मां नित्यकिङ्करम् ॥
देवीभूषणहेत्यादिजुष्टस्य भगवंस्तव ।
नित्यं निरपराधेपु कैङ्कर्येषु नियुङ्क्ष्व माम् ॥
मां मदीयं च निखिलं चेतनाचेतनात्मकम् ।
स्वकैङ्कर्योपकरणं वरद स्वीकुरु स्वयम् ॥

त्वदेकरक्ष्यस्य मम त्वमेव करुणाकर ।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय ॥
अकृत्यानां च करणं कृत्यानां वर्जनं च मे ।
क्षमस्व निखिलं देव प्रणतार्तिहर प्रभो ॥
श्रीमान् नियतपञ्चाङ्गं मद्रक्षणभरार्पणम् ।
अचीकरत् स्वयं स्वस्मिन् अतोऽहमिह निर्भरः ।
वेदान्तदेशिकन्यासदशकं लिखितं न्विदम् ।
रहस्यत्रयसारे तु महीयान् न्यासविस्तरः ॥
(116) न्यायसिद्धान्तः.
1 प्रायः प्रपञ्चितस्सर्वैतरसिद्धान्तसंग्रहः ।
अथ नैयायिकोक्तीनां संग्रहोऽपि निशाम्यताम् ॥
न तद्व्यवसितं पुंसां न तत्कर्म न तद्वचः ।
न तद्भोग्यं समस्तीह यन्न दुःखाय जायते ॥
तत्त्वतश्चिन्त्यमानं हि सर्वं दुःखं विवेकिनः ।
विषसंपृक्तमधुमत् सर्वं दुःखीभवत्यदः ॥
सुखाधिगमलोभेन यतमानो हि पूरुषः ।
सहस्रशाखमाप्नोति दुःखमेव तदर्जने ॥
2 एवं सर्वमिदं दुःखमिति भावयतोऽनिशम् ।
सर्वोत्पत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥

582 मानमेयरहस्यश्लोकवार्तिके
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणादिद्वारो निश्श्रेयसोदयः ॥
यावदात्मगुणास्सर्वे नोच्छिन्ना वासनादयः ।
तावदात्यन्तिकी दुःखनिवृत्तिर्नावकल्पते ॥
धर्माधर्मौ निमित्तं हि संभवे सुखदुःखयोः ।
मूलभूतौ च तावेव स्तम्भौ संसारसद्मनः ॥
तदुच्छेदे तु तत्कार्यशरीराद्यनुपप्लवात् ।
नात्मनस्सुखदुःखे स्त इत्यसौ मुक्त उच्यते ॥
अनिष्टोपरमार्थस्स्युरपवर्गप्रवृत्तयः ।
सन्तः प्रयतमाना हि दृश्यन्ते व्याधिशान्तये ॥
चिरज्वरशिरोर्त्यादिव्याधिदुःखेन खेदिताः ।
सुखिनो वयमद्येति तदपाये प्रयुञ्जते ॥
3 मोक्षे नित्यसुखं येषां कामं देहेन्द्रियाद्यपि ।
नित्यं प्रकल्प्यतां तेषां मोक्षो रम्यतरो भवेत् ।
यदत्र किरणावल्यामुक्तं तदवधार्यताम् ।
सत्त्वशुद्धिमुखात्कर्म स्यादारादुपकारकम् ॥
ज्ञानं तु सन्निपत्योपकारकाङ्गमितीष्यते ।
तुल्यकक्षतया कर्मज्ञानयोर्न समुच्चयः ॥
4 इत्युक्तं, दुःखजन्मादेरुत्तरोत्तरनाशतः ।
अनन्तरापायमार्गादपवर्गसमुद्भवः ॥

न्यायसिद्धान्तः 583
तत्त्वज्ञानेन मिथ्याधीवासनानाशसंभवः ।
तन्नाशेन विनश्यन्ति रागादिदोषलक्षणः ॥
पुण्यापुण्यात्मिका नश्येत्प्रवृत्तिस्तद्विनाशतः ।
अप्रवृत्तौ नैव जन्म देहसंबन्धलक्षणम् ॥
जन्माभावे च दुःखानामनुत्पाद इति स्थितम् ।
प्रशस्तपादभाष्यस्थसारांशोऽप्यवधार्यताम् ॥
फलाभिसन्धिरहितज्ञानपूर्वकधर्मतः ।
विशुद्धे हि कुले जन्म जिज्ञासा दुःखगोचरा ॥
ततश्चाचार्योपसत्तिः ततस्तत्त्वविनिर्णयः ।
मिथ्याज्ञाननिवृत्तेस्तु रागद्वेषविहीनता ॥
ततः प्रवृत्त्यनुत्पादः भोगात्संचितसंक्षयः ।
शरीरपरिखेदश्च सन्तोषसुखमेव च ॥
भोगस्स्यादैकभविकपक्षः प्रायोऽत्र सम्मतः ।
अनैकभविके पक्षे वैकल्यं सहकारिणः ॥
निवृत्तिलक्षणो धर्मः केवलः परमार्थजात् ।
दर्शनात्सुखमुत्पाद्य स्वयमेव निवर्तते ॥
शरीरादिनिवृत्तौ तु निर्बीजस्यात्मनस्तदा ।
पुनश्शरीरानुत्पत्तौ दग्धेन्धनकृशानुवत् ॥
दुःखस्योपशमो मोक्षः स्वयमेव भविष्यति ।
आत्मा विभुत्वद्रव्यत्वस्वरूपेणावतिष्ठते ॥

584 मानमेयरहस्यश्लोकवार्तिके
5 एकविंशतिधा दुःखं शरीरं प्रथमं मतम् ।
षडिन्द्रियाणि विषयाः षट् तथैव च बुद्धयः ॥
सुखं दुःखं चेति, तत्र श्रोत्रं नित्यं मनस्तथा ।
तथापि यादृग्रूपस्य दुःखता ध्वंसते हि तत् ।
दुःखासमानकालीनदुःखध्वंसोऽमृतं मतम् ।
विशेषणांशे तु तत्त्वसाक्षात्कारः प्रयोजकः ॥
तत्र नव्याः दुःखपदं दुःखसाधनतत्परम् ।
तत्साधनं च दुरितं तद्ध्वंसो ज्ञानसाधनः ॥
इत्याहुः दुःखविध्वंसस्तत्कारणनिबन्धनः ।
न तत्त्वज्ञानहेतुस्स्यादित्यन्येऽन्यत्र विस्तरः ॥
(117) भाट्टसिद्धान्तः.
1 भट्टपादीयसिद्धान्तः यः पुनस्तन्त्रवार्तिके ।
निरूपितो व्याकरणाधिक्रियायां निशम्यताम् ॥
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।
पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधारणा ॥
आत्मज्ञानं पुमर्थं च स्यात्संयोगपृथक्त्वतः ।
विना तेनामुष्मिकेषु प्रवृत्त्यादेरसंभवः ॥
2 आत्माऽपहतपाप्मेति तथा मन्तव्य इत्यपि ।
तथाऽऽत्मानमुपासीतेत्यात्मज्ञानं विधीयते ॥

भाट्टसिद्धान्तः 58.
जिज्ञासामननोपास्तिभेदेन त्रिविधं त्विदम् ।
ज्ञायते फलसंबन्धः त्रिविधस्तदपेक्षितः ॥
3 स सर्वलोकानाप्नोति स संपन्नो महीयते ।
एष सर्वोऽप्यभ्युदयः तथा निःश्रेयसं पुनः ॥
स खल्वेवं वर्तयन्नित्याद्याभिश्च प्रतीयते ।
परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता ॥
4 कर्मणामुपयोगोऽपि तत्र त्वेवं भविष्यति ।
नित्यनैमित्तिकाभ्यां स्यादुपात्तदुरितक्षयः ॥
अथवाऽकरणाधीनप्रत्यवायपराभवः ।
5 नच ज्ञानविधानेन कर्मसंबन्धवारणम् ॥
नच तेषां फलं भिन्नं विभिन्ना पदवीत्यपि ।
न विकल्पोऽथ बाधो वा नाङ्गाङ्गित्वं मिथोऽथवा ॥
संभावनापदं यस्मात् श्रुतिस्स्पष्टोपरोध्यते ।
तस्मात्समुच्चयो न्याय्यः प्रामाण्याच्छास्त्रयोर्द्वयोः ॥
इत्थमत्र बृहट्टीकावाक्यं राणक उद्धृतम् ॥
ननु निःश्रेयसं ज्ञानात्, बन्धहेतोर्न कर्मणः ॥
नैकस्मादपि तत्किंतु ज्ञानकर्मसमुच्चयात् ।
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ॥
ज्ञानं च विमलीकुर्वन् अभ्यासेन च पाचयेत् ।
वैराग्यात्पक्वविज्ञानः कैवल्यं च व्रजेदिति ॥
M.R. 74

386 मानमेयरहस्यश्लोकवार्त्तिके
निषिद्धकाम्यकर्मभ्यः सम्यग्व्यावृत्तचेतसः ।
नित्यनैमित्तिकप्रायश्चित्तप्रध्वस्तदुष्कृतेः ॥
सुखदुःखानुभूतिभ्यां क्षीणप्रारब्धकर्मणः ।
ध्यायतः परमात्मानं मुक्तिस्स्यादिति निर्णयः ॥
6 इत्थं सिद्धान्तकर्तॄणामेतेषां श्लोकवार्त्तिके ।
योऽसावभिप्रायभेदः तत्संक्षेपोऽवधार्यताम् ॥
आत्मा ज्ञातव्य इत्येतन्मोक्षार्थं न च चोदितम् ।
कर्मप्रवृत्तिहेतुत्वमात्मज्ञानस्य लक्ष्यते ॥
विज्ञाते चास्य पारार्थ्ये याऽपि नाम फलश्रुतिः ।
साऽर्थवादो भवेदेव न स्वर्गादेः फलान्तरम् ॥
कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् ।
फलस्याल्पस्य दानं वा राजपुत्रापराधवत् ॥
सुखोपभोगरूपश्च यदि मोक्षः प्रसज्यते ।
स्वर्ग एव भवेदेषः पर्यायेण क्षयी च सः ॥
नहि कारणवत्किंचिदक्षयित्वेन गम्यते ।
तस्मात्कर्मक्षयादेव हेत्वभावेन मुच्यते ॥
नह्यभावात्मकं मुक्त्वा मोक्षनित्यत्वकारणम् ।
न च क्रियायाः कस्याश्चिदभावः फलमिष्यते ॥
तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ।
उत्तरप्रचयाभावाद्देहो नोत्पद्यते पुनः ॥

कर्मजन्योपभोगार्थं शरीरं न प्रवर्तते ।
तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥
प्रार्थ्यमानं फलं ज्ञातं न चानिच्छोर्भविष्यति ।
आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते ॥
सर्गप्रलयविज्ञानं समस्तजगदाश्रयम् ।
दैवप्रभावज्ञानार्थं धर्मानुष्ठानसिद्धये ।
तत्परत्वेऽप्युपाख्यानेष्वतीव विबुधोत्तमैः ।
नचैव कार्यस्तत्त्वाभिनिवेश इति निर्णयः ॥
तस्मादद्यवदेवात्र सर्गप्रलयकल्पना ।
समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका ॥
सर्वज्ञत्वनिषेध्या च स्रष्टुः सद्भावकल्पना ।
नच धर्मादृते तस्य भवेल्लोकादिशिष्टता ॥
नचाननुष्ठितो धर्मः नानुष्ठानमृते मतेः ।
नच वेदादृते सा स्यात् वेदो नच पदादिभिः ॥
तस्मात्प्रागपि सर्वेऽमी स्रष्टुरासन् पदादयः ।
स्यात्तत्पूर्वकता चास्य चैतन्यादस्मदादिवत् ॥
एवं ये युक्तिभिः प्राहुः तेषां दुर्लभमुत्तरम् ।
अन्वेष्यो व्यवहारोऽयमनादिर्वेदवादिभिः ॥