सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

588 मानमेयरहस्यश्लोकवार्तिके
तथाऽर्थवादाधिकृतौ सर्वोपनिषदामपि ।
नैराकाङ्क्ष्यं च कण्ठोक्तं क्रत्वर्थात्मोपपादनात् ॥
7 आपाततो विरोधोऽस्ति प्रबन्धे धीमतामपि ।
परिहाररहस्यं तु तैरेवात्रैव सूचितम् ॥
एवं ये युक्तिभिः प्राहुरित्युक्त्या भावगर्भया ।
अत्रायमाशयः वेदनित्यतास्थापनाय हि ॥
अतिवादाः कृता युक्त्या परमार्थोऽन्य एव यः ।
सच प्रोक्तस्स्फुटः तन्त्रवार्तिके त्विति निर्णयः ॥
8 एवं परिहारयुक्तौ स्फुटायां राणके पुनः ।
आत्मज्ञाने विरोधो यः विधानप्रतिषेधयोः ॥
संसार्यसंसार्यात्मोपलब्धिभेदात्स चोद्धृतः ।
यश्चाप्यभ्युदयश्रेयःफलभेदविकल्पना ॥
प्रत्युक्ता साऽपि सगुणनिर्गुणोपास्तिभेदतः ।
रीतिरेषा स्वसिद्धान्तवासनैकनिबन्धना ॥
9 तत्र भाट्टाशयविदां पन्थानः बहुधा स्थिताः ।
तथाऽप्येकं सूचयामि किंचिद्विस्तरकातरः ॥
संसारादुद्विजन्ते ये दृष्टलोकपरावराः ।
तेषामेवाधिकारस्स्यात् मुक्तिशास्त्रे मनीषिणाम् ।
तेनाभावात्मकत्वेऽपि मुक्तेर्नापुरुषार्थता ।
सुखदुःखोपभोगो हि संसार इति शब्द्यते ॥

भाट्टसिद्धान्तः 58
तयोरनुपभोगं तु मोक्षं मोक्षविदो विदुः ।
श्रुतिरप्येवमेवाह भेदं संसारमोक्षयोः ॥
न ह वै सशरीरस्य प्रियाप्रियविहीनता ।
अशरीरं वाव सन्तं स्पृशतो न प्रियाप्रिये ॥
सुषुप्तावप्रकाशेन नात्मनस्स्वप्रकाशता ।
दुःखाभावाद्यवहृतिः सुखरूप इति स्थितम् ॥
आनन्दात्मकमात्मानं ये वदन्ति स्वयंप्रभम् ।
तन्मतेऽपि च संसारान्मुक्तेरेतावती भिदा ॥
आत्मा ह्यानन्दरूपोऽसौ संसारेऽपि प्रकाशते ।
तावानेव स मोक्षेऽपि नाधिक्यं तस्य किंचन ॥
अथ संसारवेलायामानन्दो न प्रकाशते ।
नह्यप्रकाशनं युक्तं स्वप्रकाशस्य वस्तुनः ॥
यद्यसौ न प्रकाशेत किं तर्ह्यन्यत्प्रकाशते ।
आत्मस्वरूपमितिचेन्ननु चानन्द एव तत् ॥
तच्चेत्प्रकाशते नूनमानन्दोऽपि प्रकाशते ।
तेन शब्दादिविषयजन्ययोस्सुखदुःखयोः ॥
निवृत्तिरेव संसारादपवर्ग इतीर्यते ।
सुखदुःखविहीनस्तु मुक्तः स्वस्थोऽवतिष्ठते ॥
तस्मान्मोक्षो निरानन्दः दुःखलोपात्पुमर्थता ।
पार्थसारथिमिश्राणामाहैवं शास्त्रदीपिका ॥

1 अथातो मोक्षशास्त्रस्य वर्णाश्रमविशेषतः ।
अधिकारिविकल्पोऽयं संक्षेपादवधार्यताम् ॥
अथात्र प्राञ्च आचार्याः बादरिप्रमुखाः पुनः ।
इच्छन्ति वेदशास्त्रादिं नरमात्राधिकारिकम् ॥
2 अपशूद्राधिकारास्तु वेदाः जैमिनिसम्मताः ।
तथैवचोपनिषदः बादरायणसम्मताः ॥
3 तमेतमिति शास्त्रे च ब्राह्मणग्रहणात्तथा ।
अथ ब्राह्मण इत्यत्र ब्राह्मणग्रहणादपि ॥
न कर्मणेत्यादिशास्त्रे त्यागसंन्यासकीर्तनात् ।
संन्यासिनो ब्राह्मणास्स्युरिह मोक्षाधिकारिणः ॥
तत्साधने मोक्षशास्त्रेऽप्येत एवाधिकारिणः ।
इति सिद्धान्तयामासुः प्राञ्चः केचन सूरयः ॥
4 सर्वेषां च द्विजातीनां तथैवाश्रमिणामपि ।
अधिकारं विदुर्धीराः सुरेश्वरमुखाः परे ॥
श्रुतिस्थब्राह्मणपदमुपलक्षणमित्यपि ।
व्याख्याय चापशूद्राणामधिकारं विदुर्हि ते ॥
ज्ञानमात्रे तु सर्वेषामधिकारोऽस्ति यद्यपि ।
संन्यासनिष्ठा विद्यैव मोक्षसाधनमिष्यते ॥
यल्लिङ्गं गृहिणां विद्यासंप्रदायादिकर्तृता ।
न तत् स्थितन्यायबाधं कर्तुमुत्सहते क्वचित् ॥

अधिकारी ५

न हि शास्त्रशतेनापि क्वचिद्ध्वान्तप्रकाशयोः ।
संभवः शक्यते कर्तुं लिङ्गैः किमुत केवलैः ॥
इति मुण्डकभाष्यस्थः श्रीशाङ्करविनिर्णयः ।
अत्र श्रीरामकृष्णार्यवाक्यमेतन्निशम्यताम् ॥
केचित्तु भिक्षवः स्वीयमाश्रमं केवलं पुनः ।
मोक्षाश्रममिति भ्रान्ताः ख्यातिपूजापरायणाः
गृहस्थादिकृताष्टाङ्गप्रणामाद्यैश्च केवलम् ।
आत्मानमधिकंमन्याः तेषु प्रद्वेषमात्रतः ॥
तेषां ब्रह्मविचाराधिकारो नास्तीति मन्वते ।
तथा वसिष्ठजनकरैक्वाद्याख्यायिका अपि ॥
प्रच्छादयन्तो दृश्यन्ते इत्युक्तिरवलोक्यते ।
५ अथापि केचिद्विबुधाः धीरोदारा भवन्ति ये ॥
निर्गुणब्रह्मविद्यायां शूद्राणामपि ते स्फुटम् ।
स्ववर्णधर्मानुष्ठानादधिकारं प्रचक्षते ॥
इतिहासपुराणाभ्यामर्थितैतेषु युज्यते ।
अपित्वध्ययनोपात्तज्ञानमूला निषिध्यते ॥
विद्योत्पत्तिस्तु विमलदेहद्वारा भविष्यति ।
तस्माच्छूद्रोऽपि विद्यार्थं कर्म कर्तुमिहार्हति ॥
६ एवं संन्यासाश्रमोऽपि पापभेदविनाशकृत् ।
चित्तशुद्धिमुखात्कैश्चिद्विद्यायामङ्गमिष्यते ॥

592 मानमेयरहस्यश्लोकवार्तिके
जनकप्रमुखा ये तु विद्यावन्त इति श्रुताः ।
तेषां प्राग्जन्मसंन्यासाद्विद्यावाप्तिं विदुर्हि ते ॥
इच्छन्ति केचिच्छ्रवणाद्याधिकारिविशेषणम् ।
संन्यासमित्यतो विद्यासाधनत्वेन स श्रुतः ॥
अनन्यव्यापारतया श्रवणाद्यनुतिष्ठतः ।
दृष्टद्वारैव विद्यायामस्याङ्गत्वं विदुः परे ॥
संन्यस्य श्रवणं कुर्यादित्येष नियमे विधिः ।
यतश्च श्रवणाद्यर्हः कर्मच्छिद्रेषु गृह्यपि ॥
द्विजानामविशेषेण संन्यासः श्रूयते ततः ।
श्रवणं निर्निरोधं स्यात् अत्र क्षत्रियवैश्ययोः ॥
केचित्तु ब्राह्मणस्यैव संन्यासाश्रमशास्त्रतः ।
विट्शूद्रयोस्तु श्रवणं तदनङ्गं प्रचक्षते ॥
अन्ये संन्यासिनां मुख्यमधिकारं प्रचक्षते ।
इतरेषां तु गौणं तं क्रामिकं विधुरादिवत् ॥
7 सर्वाश्रमपरित्यागो ब्राह्मण्यमिति केचन ।
नग्नचर्येषु संवर्तदुर्वासःप्रभृतिष्वपि ॥
विद्यासंदर्शनात्सर्वाश्रमिष्वत्याश्रमिष्वपि ।
अधिकारं विदुर्ब्रह्मविद्यायास्तत्र च स्मृतिः ॥
यं न सन्तं नवा सन्तं नाश्रुतं न बहुश्रुतम् ।
न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥

अधिकारी 59.
गूढधर्माश्रितो विद्वानज्ञानचरितं चरेत् ।
अन्धवज्जडवच्चैव मूकवच्च महीं चरेत् ॥
8 इत्येवं मतभेदे च स्थिते केचिद्विपश्चितः ।
स्वातन्त्र्येण विचार्येत्थमुल्लिखन्ति सिराग्रहाः ॥
छान्दोग्योपनिषन्निष्ठाः ये चैकाश्रम्यवादिनः ।
गृहस्थ एव विद्यायामधिकारीति तन्मतम् ॥
ये वाज्युपनिषन्निष्ठाः ते तु संन्यासिलक्षणः ।
ब्राह्मणस्सोऽधिकारीति यथाश्रुत्याऽभिमेनिरे ॥
इतरेषु प्रबन्धेषु परस्परविनिन्दया ।
सर्वेषामधिकारोऽपि ज्ञायते तत्रतत्र हि ॥
ज्ञानकर्मविवादोऽयं जगतस्सदसत्त्वतः ।
दृष्टिमूलः यतो बन्धोऽप्यास्ते सदसदात्मकः ॥
9 अथान्ये ब्रह्मविद्यायां सर्वेषां मोक्षसाधने ।
अधिकारं विदुर्धीराः तद्विशेषव्यवस्थया ॥
ब्रह्मविद्या द्विधा भक्तिः प्रपत्तिश्चेति शास्त्रतः ।
आद्यायामधिकारस्तु यज्ञदानाद्युपस्कृतः ॥
अपात्याश्रमिणां सर्वाश्रमिणां च द्विजन्मनाम् ।
अत्याश्रमी नग्नचर्यो बाह्य इत्येव तन्मतम् ॥
आनुकूल्याद्युपकृता प्रपत्तिर्या त्वनन्तरा ।
तस्यां हि प्राणिमात्रस्य स्यादसाविति निर्णयः ।
M.R. 75

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥
अपिचेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
भक्त्या परमया वापि प्रपत्त्या वा महामुने ॥
प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्य लिप्सुभिः।
इत्याह भगवान् साक्षात्सर्वस्य शरणं सुहृत् ॥
प्रपत्त्या भजमानास्तु यादृशास्तादृशा अपि ।
भगवान् सर्वपापेभ्यो मोक्षयिष्यत्यसंशयम् ॥
भक्तिमार्गोऽपि सर्वेषां यद्यपि श्रूयते तथा ।
विशिष्टदेहावच्छिन्नप्रारम्भोऽसौ न दुष्यति ॥
धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते ।
वर्णावरत्वे संप्राप्तास्संसिद्धिमिति निर्णयः ॥
शूद्रार्चनादिप्रसङ्गे श्रीकृष्णमुनिभिः पुनः ।
उक्तैषा प्रतिबन्दीति वेदान्तार्यैरुदाहृतम् ॥

अधिकारी ५
हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः ।
निर्वाहः क्रियते तद्वत् शास्त्रस्यास्यापि नान्यथा
10 स्त्रीणां निर्वाणदीक्षा च स्थापिता जैनपण्डितैः ।
तथा मोक्षाधिकारश्च प्रयासेन समर्थितः ॥
स्त्रीणां च ब्रह्मविद्यायां वेदाचार्येण बोधितः ।
अधिकारश्रुतो ब्रह्मवादिनीनां क्वचित्क्वचित् ॥
स्त्रीणां तु पारिव्राज्यायामधिकारो निरूपितः ।
बोधायनेनेति पुनः मस्करी प्राह धर्मवित् ॥
स्त्रीणां तथैव शूद्राणां दीक्षा आगमबोधिताः ।
तथाच सर्वे सर्वानुग्रहणैकधियो बुधाः ॥
11 एवंविचारे द्विविधो मार्गो निष्कृष्य लभ्यते ।
एकस्त्विदानीं सर्वेषां यथाशक्त्यधिकारकृत् ॥
विशिष्टदेहे विद्यायाः निष्पत्तिमभिधित्सति ।
अन्यो विशुद्धं जन्मैव विद्यारम्भेऽभिवाञ्छति ॥
समाप्तैः फलसिद्धेश्च नियमं नाभिधित्सति ।
अपि मार्गद्वयं सर्वानुग्रहैकप्रवृत्तिमत् ॥
अयं विशेषस्त्वनयोः कल्पयोरवधार्यते ।
तारतम्यव्यवस्थाऽद्ये प्रायस्साम्यमनन्तरे ॥
12 अत्र तत्त्वमिदं बोध्यमधिकारनिरूपणे ।
अधिकारनिषेधोऽयं न स्वभावनिबन्धनः ॥

596 मानमेयरहस्यश्लोकवार्तिके
आचार्यानुग्रहाभावमूलशास्त्रनिबन्धनः ।
इति प्राहुर्महाचार्याः पाराशर्यजये स्फुटम् ॥
मानं रहस्याम्नायस्थं असूयायाः परस्परम् ।
प्रादुर्भावप्रकरणं इति तत्त्वविदां मतम् ॥
तस्मिन् प्रकरणे सर्वाधिकारं ज्ञानमुच्यते ।
ज्ञानपर्युत्थानकर्मा शूद्र इत्यंशदर्शनात् ॥
न पर्युत्थास्याम इति यदाऽवोचन्नसूयया ।
न वो वक्ष्याम इतिच ब्राह्मणा अपिचाब्रुवन् ॥
पर्युत्थानं हि शुश्रूषा तत्तस्मादाभ्यसूयकम् ।
दूरीकरणमित्येवं रहस्यं प्रकटीकृतम् ।
अधिकारविचारोऽयं गम्भीरोऽपि निरूपितः ।
सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥
(119) कर्मज्ञानतत्त्वम्.
1 अथ कर्मज्ञानतत्त्वं सूक्ष्मदृष्ट्या विचार्यते ।
लौकिका हि विदुः कर्मज्ञानयोर्महदन्तरम् ॥
परीक्षकास्तु तत्त्वज्ञाः प्रविवेकं न कंचन ।
परिभाषामन्तरेण न निरूपयितुं क्षमाः ॥
ज्ञानं कर्मैव सूक्ष्मं स्यादान्तरं स्फुरणं हि तत् ।
बाह्यं तु स्फुरणं लोके क्रिया कर्मेति कथ्यते ॥

कर्मज्ञानतत्त्वम् ५
२ आत्मनः परिणामोऽयं ज्ञानमित्याह जैमिनिः ।
आत्मनः स्रवणं ज्ञानमित्यर्हत्प्रमुखा विदुः ॥
अन्तःकरणवृत्तिस्स्यादिति कापिलपद्धतिः ।
आत्मनोऽनुभवो नाम तस्य स्फुरणमुच्यते ॥
स्फुरणं स्फुरतो धर्मः नित्यो वह्न्युज्ज्वलत्ववत्
तमेव मार्गं प्रायेण द्वैताद्वैतविदो विदुः ॥
आत्मनो धर्मभूतं च नित्यं द्रव्यान्तरं स्थितम् ।
तस्य च प्रसरः ज्ञानं विशिष्टाद्वैतसम्मतम् ॥
बुद्धिनित्यत्ववादश्च योऽसौ शाबरसंमतः ।
स पर्यवस्यत्यत्रेति प्रायो मीमांसका विदुः ॥
ज्ञानं विषयभेदेन भिन्नं व्यापारलक्षणम् ।
तस्याश्रयो बुद्धिरेका नित्येति च समर्थिता ॥
सा च प्रमात्रात्मिकेति न्यायरत्नाकरोदिता ।
यदि बुद्धिः प्रमातृस्था शक्तिरेकेति कथ्यते ॥
तादात्म्यानभ्युपगमे विशिष्टाद्वैतनिर्णयः ।
अत्यन्ताभेदपक्षे तु स्यादद्वैतविनिर्णयः ॥
तादात्म्यपक्षः भाट्टेष्टः शक्तिशक्तिमतोरपि।
स च भर्तृप्रपञ्चेष्टो वादस्स्यादिति निर्णयः ॥
एवं स्थिते विनाशं चाप्युद्भवं च निरन्वयम् ।
आहुर्ये न्यायनिपुणाः ते ज्ञानं गुणमब्रुवन् ॥

मानमेयरहस्यश्लोकवार्तिके
न तेन कश्चिद्विकृतिरात्मनामिति मेनिरे ।
अन्ये कर्मापि विकृतिर्न स्यादिति विदुर्बुधाः ॥
अतो भूतपरिस्पन्दं भूतचैतन्यवादिनः ।
ज्ञानधातुं विजानन्ति स स्पन्दः पारिणामिकः ॥
३ ज्ञानानां कर्मशब्देन ज्ञानशब्देन कर्मणाम् ।
प्रयोगस्य व्यतिकरः प्रायेणाभेदगोचरः ॥
प्रचोदयाद्धिय इति धीशब्दः कर्मवाचकः ।
जातवेदाश्चेति वेदशब्दः कर्मार्थको मतः ॥
जानात्यर्थः करोतिश्च सूत्रितश्शब्ददर्दुरे ।
गत्यर्थाश्चापि बुद्ध्यर्था इति न्यायोऽपि सम्मतः ॥
योऽश्वमेधेन यजते य एनं वेद चेत्यपि ।
समप्रधाननिर्देशस्स्थूलसूक्ष्मनिबन्धनः ॥
तं समन्वारभेते द्वे ये विद्याकर्मणी इति ।
वेदान्तवादोऽप्यत्रैव संधिमिच्छति तत्त्वतः ॥
प्राकट्यं व्यवहारो वा संवित्तिर्विषयस्य वा ।
तथाऽऽवरणभङ्गो वा ज्ञानस्य फलमुच्यते ॥
तथाच तदवच्छिन्नव्यापारो धातुबोधितः ।
ततश्च पाकादितुल्यं ज्ञानं स्यात्सर्वसंमतम् ॥
वाचिकैः पक्षिम्गता मानसैरन्त्यजातिताम् ।
शरीरजैः कर्मदोषैः याति स्थावरतां नरः ॥

प्रत्यक्षप्राबल्यवादः 59
इत्यत्र मानसं कर्म ज्ञानं हि मनुनोदितम् ।
उपासनात्मके कर्मणीतिच क्वचिदुच्यते ॥
4 ततः कर्माङ्गकं ज्ञानं ज्ञानाङ्गं कर्म चेत्यपि ।
विवादोऽपि स्थूलसूक्ष्मभेदात्प्राधान्यलिप्सया ॥
ततश्च विस्तरस्तस्य स्फुट एवाहि धीमताम् ।
इत्थं तत्त्वं सूक्ष्मदृष्ट्या सूचितं बुद्धिकर्मणोः ॥
अनाग्रहदृशामत्र सामरस्यं निराकुलम् ।
परिज्ञानाद्भवेन्मुक्तिरेतदालस्यलक्षणम् ॥
आक्षिपात्रं भवेद्विद्वान् कर्मणामिति कीर्तनम् ।
प्राधान्यतोऽतिवादास्स्युरिति सर्वं समंजसम् ॥
(120) प्रत्यक्षप्राबल्यवादः.
1 प्रमाणानां विरोधो हि मिथस्संपरिदृश्यते ।
प्रत्यक्षयोरागमयोः तथाचैवानुमानयोः ॥
प्रत्यक्षागमयोश्चापि तथाऽध्यक्षानुमानयोः ।
तथाऽनुमानागमयोः अन्यत्राप्येवमूह्यताम् ॥
तत्र प्राबल्यदौर्बल्यचिन्तेत्थं तीर्थकृन्मता ।
तत्र प्रत्यक्षैकमानवादिसिद्धान्तसंग्रहः ॥
प्रत्यक्षं हि प्रमाणानां प्रथमं सर्वसम्मतम् ।
तत्रापि दुष्टकरणमूलं नार्हति मानताम् ॥

मानमेयरहस्यश्लोकवार्तिके
यादृच्छिकात्तु संवादाल्लिङ्गादौ मानताभ्रमः ।
वस्तुतस्तादृशी बुद्धिः प्रत्यक्षेऽन्तर्भवत्यपि ॥
औषधायस्सूर्यचन्द्रकान्तादिन्यायतोऽखिलः ।
विषघ्नमन्त्रयन्त्रादिफलसंवाद इष्यते ॥
प्रत्यक्षं तदधीनं चाप्यन्वयव्यतिरेकयोः ।
दर्शनं चावलम्ब्योत्थं शास्त्रं लोकायतं मतम् ॥
लोकसिद्धानुमानादौ क्वचित्प्रामाण्यमिष्यते ।
नैतावताऽतीन्द्रियाणामर्थानां सिद्धिसंभवः ॥
नीतिशास्त्रं स्तेयशास्त्रं कामशास्त्रं च तादृशम् ।
समन्वेत्यत्र सिद्धान्ते प्रत्यक्षैकावलम्बिनि ॥
नैवार्हतीदं प्रत्यक्षं बाधं केनापि हेतुना ।
प्रत्यक्षेण पुनर्बाधः प्रस्फुटस्सर्वसंविदाम् ॥
२ इति प्रत्यक्षसिद्धान्तेऽध्यक्षप्राबल्यनिर्णयः ।
ये पुनः कल्पनापोढनिर्विकल्पैकवादिनः ॥
तेषां तु निर्विकल्पस्य प्राबल्यं पूर्ववन्मतम् ।
तत्साधनं च लिङ्गेन निश्चयेनेत्यनूदितम् ॥
निर्विकल्पस्य विषयः स्वलक्षणमितीरितम् ।
शब्दलिङ्गेन्द्रियभवः विकल्पः दुर्बलो मतः ॥
निर्विकल्पस्य विषयं सन्मात्रं ये विदुर्बुधाः ।
शब्दादप्यस्य चोत्पत्तिं निर्बाधामुपयन्ति ते ॥

प्रत्यक्षप्राबल्यवादः 60
3 प्रत्यक्षा द्वैतसिद्धान्ते ऽध्यक्षप्राबल्यवर्णनाम् ।
हसन्ति लौकिका यस्मात्स्वयं स्वकुचमर्दनम् ॥
सर्वेष्वपि प्रमाणेषु नूनमाभाससंभवः ।
तस्य मूलं च करणदोष इत्यपि निर्णयः ॥
तद्विज्ञानं तु बाधादिनिबन्धनमिति स्थितम् ।
क्वचित्स्वारसिको बाधः कुत्राचिद्यौक्तिको मतः ।
प्रथमश्शुक्तिरूप्यादौ ज्वालाभेदे त्वनन्तरः ।
प्रायशो विभ्रमा एते सर्वेषामात्मसाक्षिकाः ॥
शुक्तिकारजतभ्रान्तिः मृगतृष्णाभ्रमस्तथा ।
पीतश्शङ्खः द्वौ च चन्द्रौ स्थाणुः पुरुष इत्यपि ।
अयो दहति वक्त्रं च मलिनं स्फटिकोऽरुणः ।
स्वप्नो माया च गन्धर्वनगरं चेति विभ्रमाः ॥
देहात्मविभ्रमः खे च तलमालिन्यविभ्रमः ।
रवीन्दुमण्डलादौ च ख्यातः प्रादेशिकभ्रमः ॥
प्रात्यक्षिकभ्रमा एते एवं मानान्तरेष्वपि ।
परीक्षकाणां विदिताः तत्रैवं निर्णयक्रमः ॥
इन्द्रियेण यथा ज्ञानं तथा लिङ्गादिना सदा ।
ज्ञानमुत्पद्यते पुंसां न विशेषोऽत्र कश्चन ॥
निमित्तशिल्पमन्त्रायुर्ज्योतिस्स्वप्रहृदादिषु ।
अन्वयव्यतिरेकादेरगम्ये विषये बुधाः ॥
M.R. 76

602 मानमेयरहस्यश्लोकवार्तिके
संवाददर्शनात्प्रायः विषये पारलौकिके ।
अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः ॥
असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः ।
यदि न स्यात्तदा किं स्यादस्तिचेन्नास्तिको हतः ।
यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् ।
प्रत्यक्षेऽपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥
तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते ।
सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते ॥
प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः ।
उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते ॥
तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्रुते ।
तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम् ॥
अनन्यथासिद्धमेतत्, अवकाशस्त्वसौ मतः ।
विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत् ॥
अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु ।
एवं प्रायेण विश्वस्य सत्यतावादिनो विदुः ॥

  • अथ प्रपञ्चमिथ्यात्ववाद्यविद्याविदां मते ।
    प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः ॥
    दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात् ।
    भेदावलम्बाध्यक्षं शास्त्रबाध्यमितीर्यते ॥

प्रत्यक्षप्राबल्यवादः 60
तत्र दोषोऽनादिभेदवासनेति विनिर्णयः ।
निषेद्धृशास्त्रप्रामाण्यमन्यथानोपपद्यते ॥
अनादिनिधनाच्छिन्नसंप्रदायसमागतम् ।
संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते ॥
ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत् ।
बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात् ॥
मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत् ।
बाध्यते निर्गुणपरशास्त्रेणापि परेण तत् ॥
5 अथ प्रकारान्तरेण विरोधविनिवारणा ।
असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत् ॥
तच्छास्त्रमित्यौपवर्षं लक्षणं शबरोदितम् ।
असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥
ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपिवा ।
इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके ॥
तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा ।
प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते ॥
न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम् ।
भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे ॥
घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः ।
अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्

604 मानमेयरहस्यश्लोकवार्तिके
अस्तित्वमेव सामान्यं घटादिर्भेदलक्षणः ।
भिन्नकालज्ञानफलौ व्यवहारौ तयोर्मतौ ॥
शास्त्रं निषेधरूपेण तन्मात्रे पर्यवस्यति ।
नातः प्राप्तार्थत्वमूलमानर्थक्यं प्रसज्यते ॥
इत्यस्य विस्तरः प्रायश्श्रीभाष्यादावनूदितः ।
स निर्विकल्पैकमानवादसिद्धान्तवर्त्मगः ॥
6 विशेषमात्रविषयनिर्विकल्पकपद्धतौ ।
सामान्यमात्रविषयविदामाक्षेपसंग्रहः ॥
विचित्रवासनासिद्धयै विशेषोपगमो वृथा ।
विशेषाणां वासनासु हेतुताया असंKeyभवात् ॥
तथात्वे शुक्तिरजतवासनादेरसंभवः ।
तत्तद्विषयविज्ञप्तिप्रवाहो हेतुरिष्यते ॥
आपणे सत्यरजतं यद्यप्यस्ति तथापि हि ।
मिथ्यार्थज्ञानहेतुत्वं वासनासूरीकृतम् ॥
पूर्वपूर्वभ्रमोपात्तैस्संस्कारैर्विविधैरिह ।
विकल्पवैचित्र्यसिद्धौ किं दृष्टैः कल्पितैश्च किम्
अतो विकल्पविषयाः विचित्रा न स्वलक्षणाः ।
कल्पने वा लाघवाय विचित्राद्वैतमिष्यताम् ॥
नचानेकस्वभावत्वमेकस्यात्र विरोधकृत् ।
रूपगन्धरसस्पर्शस्वभावाद्यणुवादिनाम् ॥

शास्त्रप्राबल्यम् 60
तस्माच्छुद्धं विचित्रं वाऽद्वैतं स्यात्तत्र गोचरः ।
विस्तरश्शतदूषण्यां वाद एकादशे कृतः ॥
(121) शास्त्रप्राबल्यम्.
1 अथेदानीमुक्तियुक्त्योः बलाबलविचिन्तना ।
केचिदुक्त्येकशरणाः केचिद्युक्त्येकसंश्रयाः ॥
ये पूर्वोत्तरमीमांसानिष्णाताः श्रुतिसंश्रयाः ।
शास्त्रानुकूलां युक्तिं ते मानमिच्छन्ति नान्यथा ।
येतु वैशेषिकास्सांख्याः नैयायिकमुखाः परे ।
सर्वे ते युक्तिशरणाः युक्त्यधीनागमान्विताः ॥
उभयेषामपि मतं तत्तदुक्त्या प्रकाश्यते ।
तत्त्वं ततश्चोक्तियुक्त्योः स्पष्टमत्र भविष्यति ॥
चतुर्विधास्ते सुगताः दिक्षु तादृक्षु निष्ठिताः ।
ऊर्ध्वायां दिशि चार्वाकः सर्वेऽप्यन्तरवस्थिताः॥
तत्र प्रत्यवतिष्ठन्ते ये त्वेकदिशि संस्थितान् ।
समाक्रान्ता भविष्यन्ति ते ह्यन्यदिगवस्थितैः ॥
नहि शक्यं लङ्घयितुं पञ्जरान्तरवस्थितिः ।
केवलं युक्तिचातुर्यैरित्येके श्रुतिमाश्रिताः ॥
2 एतदेव वचः प्रोचुः पूर्वे पूर्वेभ्य इत्यपि ।
ब्राह्मणे श्रूयते चैवं तथैवो पनिषत्स्वपि ॥

606 मानमेयरहस्यश्लोकवार्तिके
अवरेण नरेणैष प्रोक्तो ज्ञातुं न शक्यते ।
अनन्यप्रोक्त एतस्मिन्गतिर्नास्त्यन्यतो यतः ॥
नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।
अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥
अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः ।
अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥
एषा तर्केण न मतिरापनेयेति चाब्रवीत् ।
मृत्युः कठोपनिषदि शिष्याय नचिकेतसे ॥
इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ।
इत्थं तलवकारीयैः श्रूयते चापि वाजिभिः ॥
चोदनालक्षणं धर्मं जैमिनिस्तदसूत्रयत् ।
ब्रह्मापि शास्त्रयोनीति ह्यब्रवीद्बादरायणः ॥
३ ततस्तर्काप्रतिष्ठानादित्यप्याह स्वयं स्फुटम् ।
युक्तिस्त्वनिर्णीतबलाबलेति न्यायवित्तमाः ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥
बहुकृत्वोऽपि वस्त्वात्मा युक्त्यैव परिनिश्चितः ।
देशकालादिभेदेन ज्ञायते पुनरन्यथा ॥
वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलात्रावतिष्ठते ॥

वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥
शब्दानामेव सा शक्तिः तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायोऽनागमो ह्यनिबन्धनः ॥
इति भर्तृहरिः प्राह वाक्यपद्यां विचक्षणः ।
श्रुत्यर्थस्यानुकूलो यः स न्यायस्तदभीप्सितः ॥
तस्माच्छब्दः तर्कनिष्ठ इति नैवावधारयेत् ।
तात्पर्यनिर्णयार्थो यस्तर्कोऽसौ शब्दलक्षणः ॥
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥
वाच्यार्था निहितास्सर्वे वाङ्मूला वाग्विनिस्सृता।
तां तु यस्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥
तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् ।
यतो भूयस्ततो विद्वान् कुर्याद्धर्मविनिर्णयम् ॥
मनुव्यासप्रभृतयः क्रमादेवं वचोऽब्रुवन् ।
दुस्तर्को दूरतस्त्याज्यः विपरीतार्थबुद्धिकृत् ॥
तस्माद्विरुद्धसंस्कारशिक्षितानां परस्परम् ।
विवादो नहि विश्राम्येद्युगानामयुतैरपि ॥
अतो विरुद्धसंस्कारोपरोधायैव भावना ।
संप्रदायानुरोधेनाभ्यसनीयेति देशना ॥