मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 618, कुल 672 में से
संदर्भ में पढ़ें576 मानमेयरहस्यश्लोकवार्तिक
तदतीतस्तदन्तस्थः स सदाशिव उच्यते ।
इति वादो निराकारि श्रीभाष्यादिषु सूरिभिः ॥
अतएव निमित्तत्वमुपादानत्वमित्यपि ।
नारायणस्यैवैकस्य श्रुत्याद्येषूपपादितम् ॥
वेदान्तवेद्यो भेदो वाऽभेदो वा द्वयात्मकताऽपिवा ।
कोऽर्थस्समर्थित इति चेत्सर्वं च समर्थितम् ॥
सर्वप्रकारं ब्रह्मैवावस्थितं देहिभावतः ।
अभेदोऽतो रक्षितस्स्यात् एवं ब्रह्मैकवस्त्वपि ॥
नानात्मचिदचिद्वस्तुप्रकारत्वादनेकधा ।
अवस्थितमतो भेदाभेदश्चापि समर्थितः ॥
चिदचिद्वस्त्वीश्वराणां वैलक्षण्यादसंकरात् ।
स्वरूपेण स्वभावेन भेदश्चापि समर्थितः ॥
वेदार्थसंग्रहे त्वस्य विस्तरः प्रतिपादितः ।
स व्योमातीतवादोऽपि तत्रैव सुनिरूपितः ॥
(115) प्रपत्तिः.
1 श्रुतिस्मृतीतिहासेषु प्रपत्तिर्नाम विश्रुता ।
तेषां तु तपसां न्यासमतिरिक्तं ततः श्रुतम् ॥
ब्रह्मणे त्वा महस ओमित्यात्मानं नियोजयेत् ।
अहं मुमुक्षुश्शरणं प्रपद्य इति च श्रुतम् ॥