मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 626, कुल 672 में से
संदर्भ में पढ़ें584 मानमेयरहस्यश्लोकवार्तिके
5 एकविंशतिधा दुःखं शरीरं प्रथमं मतम् ।
षडिन्द्रियाणि विषयाः षट् तथैव च बुद्धयः ॥
सुखं दुःखं चेति, तत्र श्रोत्रं नित्यं मनस्तथा ।
तथापि यादृग्रूपस्य दुःखता ध्वंसते हि तत् ।
दुःखासमानकालीनदुःखध्वंसोऽमृतं मतम् ।
विशेषणांशे तु तत्त्वसाक्षात्कारः प्रयोजकः ॥
तत्र नव्याः दुःखपदं दुःखसाधनतत्परम् ।
तत्साधनं च दुरितं तद्ध्वंसो ज्ञानसाधनः ॥
इत्याहुः दुःखविध्वंसस्तत्कारणनिबन्धनः ।
न तत्त्वज्ञानहेतुस्स्यादित्यन्येऽन्यत्र विस्तरः ॥
(117) भाट्टसिद्धान्तः.
1 भट्टपादीयसिद्धान्तः यः पुनस्तन्त्रवार्तिके ।
निरूपितो व्याकरणाधिक्रियायां निशम्यताम् ॥
सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते ।
पराङ्गं चात्मविज्ञानादन्यत्रेत्यवधारणा ॥
आत्मज्ञानं पुमर्थं च स्यात्संयोगपृथक्त्वतः ।
विना तेनामुष्मिकेषु प्रवृत्त्यादेरसंभवः ॥
2 आत्माऽपहतपाप्मेति तथा मन्तव्य इत्यपि ।
तथाऽऽत्मानमुपासीतेत्यात्मज्ञानं विधीयते ॥