सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

देवासुरमनुष्याणां रूपमेतद्विभाजकम् ।
त्रिविधं नरकस्यैतद्वारं नाशनमात्मनः ॥
कामः क्रोधस्तथा लोभः तस्मादेतत्तत्रयं त्यजेत् ।
इत्येवं गीतया सैषा श्रुतिस्स्यादुपबृंहिता ॥
बृहदारण्यकान्तस्स्था प्राजापत्यास्त्रया इति ।
असुरांश्च मनुष्यांश्च देवांश्चापि प्रजापतिः ॥
उपादिशद्धि ददद्-दयध्वं दत्त दाम्यत ।
श्रुतिस्मृत्योरयं भावः तस्मिन् सर्वं प्रतिष्ठितम् ॥
(108) मोक्षोपोद्घातः.
1 अथ मोक्षपदार्थस्य तत्त्वं संगृह्यतेऽधुना ।
यदर्थं सकलं शास्त्रं जगत्यां संप्रवर्तते ॥
दुःखाभावस्सुखमिति व्यवहारस्य गोचरः ।
किंचित्सुखं नाम वस्तु नास्तीत्येव हि सौगताः॥
न सुखादिप्रमेयं वा मनो वाऽस्तीन्द्रियान्तरम् ।
अनिषेधादुपात्तं चेत् अन्येन्द्रियमतं वृथा ॥
दुःखाभावस्सुखमिति जरत्तार्किकसम्मतः ।
इत्यानन्दगिरिः प्राह स्पष्टं संबन्धवार्तिके ॥
2 सुखाभावो दुःखमिति व्यवहारस्य गोचरः ।
दुःखं वस्त्वन्तरं नास्तीत्याहुर्लोकायताः पुनः ॥

मोक्षोपोद्घातः 529
यावज्जीवं सुखं जीवेत् सुखभाजः प्रजास्स्मृताः ।
आत्मा सुखे नियोक्तव्य इत्यादिबचसां चयात् ॥
3 सुषुप्त्याद्युपलम्भेन सर्वे दार्शनिकाः परे ।
तृतीयामसुखादुःखावस्थामभ्युपयन्ति ते ॥
रागद्वेषविहीना या दशोपेक्षात्मिका यथा ।
यथाऽनुष्णाशीतता वा यथाऽनिर्वचनीयता ॥
प्रत्यक्षाच्च परोक्षाच्चापरोक्षोऽन्यो यथेष्यते ।
कृतिज्ञप्त्योरन्तराळे व्यक्तिरन्या यथोच्यते ॥
तादात्म्यं च यथा भेदाभेदयोर्मध्यलक्षणम् ।
पतितात्पतितव्याच्च वर्तमानाध्वता यथा ॥
संचितागामिनोर्मध्ये प्रारब्धं वा यथेष्यते ।
तथाऽन्तरालावस्थानं प्राय इच्छन्ति सूरयः ॥
मिथस्संश्रयधीबाधमध्यावस्थोपलम्भनैः ।
न स्यात्परस्पराभावमात्रता सुखदुःखयोः ॥
4 अभ्यास एव सर्वत्र सुखादीनां नियामकः ।
कालदेशदशाभिन्नस्वभावात्स व्यवस्थितः ॥
नहि वस्तु स्वभावेन पुरुषार्थत्वमश्नुते ।
तथात्वे सर्वदा सर्वं सर्वेषां स्याद्व्यवस्थया ॥
सुखाय वा स्याद्दुःखाय नचैवं त्वव्यवस्थया ।
सुखदुःखव्यवस्थेयं दुर्निरूपा हि धीमताम् ॥
M.R. 67.

30 मानमेयरहस्यश्लोकवार्तिके
तथाचोक्तं पुराणेऽपि पराशरमहर्षिणा ।
मनःप्रीतिकरः स्वर्गः नरकस्तद्विपर्ययः ॥
वस्त्वेकमेव दुःखाय सुखायेर्ष्यागमाय च ।
कोपाय च ततस्तस्माद्वस्तु वस्त्वात्मकं कुतः ॥
तदेव प्रीतये भूत्वा पुनर्दुःखाय जायते ।
तदेव कोपाय ततः प्रसादाय च जायते ॥
तस्माद्दुःखात्मकं नास्ति न च किंचित्सुखात्मकम् ।
संस्कारात्मा वासनैव सुखदुःखव्यवस्थितिः ॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
तद्भाविताः प्रपद्यन्ते तत्तस्मात्तस्य रोचते ॥
पशुहिंसादिसंबन्धे यज्ञे तुष्यन्ति हि द्विजाः ।
तेभ्य एव हि यज्ञेभ्यः शाक्याः क्रुध्यन्ति पीडिताः॥
अग्नेश्शीतेन तोयस्य तृषा भक्तस्य च क्षुधा ।
क्रियते सुखकर्तृत्वं तद्विलोमस्य चेतरैः ॥
क्षुत्तृष्णोपशमं तद्वत् शीताद्युपशमं सुखम् ।
मन्यते बालबुद्धित्वात् दुःखमेव हि तत्पुनः ॥
अत्यन्तस्तिमिताङ्गानां व्यायामेन सुखैषिणाम् ।
भ्रान्तिज्ञानावृताक्षाणां प्रहारोऽपि सुखायते ॥
तथा सौगतगाथाऽपि गीयते सार्वलौकिकी ।
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ॥

मोक्षोपोद्घातः 53
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ।
अथौपनिषदानां च श्रुता माण्डूक्यकारिका ॥
यं भावं दर्शयेद्यस्य तं भावं स तु पश्यति ।
तं चावति स भूत्वाऽसौ तद्ग्रहस्समुपैति तम् ॥
5 एवं सर्वमिदं दुःखं इति भावयतोऽनिशम् ।
सर्वोपपत्तिस्थानेषु निर्वेदोऽस्य प्रवर्तते ॥
निर्विण्णस्य च वैराग्यं विरक्तस्य च देहिनः ।
क्लेशकर्मप्रहाणाद्द्वारो निःश्रेयसोदयः ॥
त्यागेन वाऽथ भोगेन वैराग्यमिति संशये ।
न कर्मणा न प्रजया त्यागेनैकेत्यनुश्रवात् ॥
त्यागेनैवेति सिद्धान्तः निगमान्तविदां मतः ।
न जातु कामः कामानामुपभोगेन शाम्यति ॥
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।
इति मन्वादयोऽप्येतं पन्थानं समुपाश्रिताः ॥
भोगेनैवेति सिद्धान्तः सांख्यानामवगम्यते ।
भोगं कृत्वैव पुरुषस्यापवर्गं करोत्यपि ॥
प्रधानमिति सिद्धान्तः सांख्यशास्त्रेऽवगम्यते ।
जहात्येनां भुक्तभोगामित्यपि श्रूयते श्रुतिः ।
ऋणापाकरणश्रुत्याऽप्येष पन्थाः प्ररोच्यते ।
एकाश्रम्यविधानं च जैमिनेरिह युज्यते ॥

532 मानमेयरहस्यश्लोकवार्तिके
कथं चिदपि वैराग्यमन्तरङ्गं विमुक्तये ।
इति बोधयितुं शिष्यान् प्राचां तत्र न विस्तरः ।
6 अल्पत्वास्थैर्यचिन्तायां सर्वं दुःखमयं जगत् ।
पूर्णत्वस्थैर्यबुद्धौ तु सर्वं सुखमयं जगत् ॥
अतोऽभिमानानुगुणा सुखदुःखव्यवस्थितिः ।
सोऽभिमानः कर्ममूल इति लोकायतेतरे ॥
कर्मापिचेश्वरायत्तमिति सेश्वरपद्धतिः ।
कर्मानपेक्षेशवादे शैवीच्छा तन्नियामिका ॥
7 सुखदुःखवस्थानुगुणा शास्त्रसमुत्थितिः ।
दुःखं मा भूत्सुखं भूयादिति सर्वस्समीहते ॥
यदा लोको भिन्नरुचिर्भिन्नसंस्कारसंस्कृतः ।
विचित्रो लौकिकेऽप्यर्थे किमुवाच्यमलौकिके ॥
तस्मान्मोक्षविकल्पोऽयं तत्साधनविकल्पना ।
तत्तच्छास्त्रविकल्पो वा नाश्चर्यमिह धीमताम् ॥
(109) मोक्षविकल्पः.
1 पापसत्त्वे दुःखसत्त्वं तत्सत्त्वे मुक्तिसत्यता ।
तत्सत्त्वे हेतुचिन्ता स्यात् सर्वं श्रद्धानिबन्धनम् ।
तथाऽप्यात्यन्तिको दुःखध्वंसश्चेन्मोक्ष इष्यते ।
देहविच्छेदमात्रेण विमोक्षश्चारुवाङ्गतः ॥

मोक्षविकल्पः 5
महानन्दो यदा मोक्षः शरीरान्याविनिर्णयात् ।
सहस्रकामिनीलाभं कामशास्त्रविदो विदुः ॥
तत्रापिच सहस्रेति सहस्रवणमुच्यते ।
सहस्रुतिर्मोक्ष इति रतिरत्नदीपिका ॥
शून्याद्वैतं माध्यमिकमतस्थैः मोक्ष इष्यते ।
स चोपलम्भोपशमः प्रपञ्चोपशमश्शिवः ॥
दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं ततः ।
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ॥
शून्यादीनां भावनया वासनानां परिक्षयात् ।
धीसंततिः निर्वृणोति निर्वातस्थप्रदीपवत् ॥
वासनात्यन्तविच्छेदं योगाचाराः प्रचक्षते ।
ततो विशुद्धविज्ञानसत्सन्तानमहोदयः ॥
समस्तालीकविषयज्ञानसंतानसंहतिः ।
प्रज्ञाकरोदिता सौत्रान्तिकसिद्धान्तसम्मता ॥
यतोऽसत्ख्यातिसिद्धान्तः सौत्रान्तिकपरिष्कृतः
केचिद्विषयसंसर्गवैधुर्यमनुजानते ॥
वैभाषिकमते मोक्षस्स स्यादिति विनिर्णयः ।
मतेष्वेषु त्रिषु मता केवला बुद्धिसंततिः ॥
एकतापत्तिमिश्च्छन्ति सन्ततीनां धियां परे ।
शुद्धज्ञानोदयः कैश्चित् चरमज्ञानमिष्यते ॥

534 मानमेयरहस्यश्लोकवार्तिके
नित्योर्ध्वगमनं मुक्तिरिति ह्यार्हतपद्धतिः ।
अर्हद्देहानुप्रवेशः तदीयैः कैश्चिदिष्यते ॥
साधारणशरीरोऽसौ सर्वलोकोपरिस्थितः ।
निरावरणता कैश्चिदलोकाकाश इष्यते ॥
सर्वलोकाकाशमूर्ध्नि सोऽलोकाकाश इष्यते ।
वियातानुभवः कैश्चिद्धैयात्यं च प्रगल्भता ॥
स्वातन्त्र्यं शिवसारूप्यं शिवसाम्यमथापिवा ।
चिच्छक्तिपरिशेषश्च भेदाः पाशुपता इमे ॥
2 ज्योतिष्टोमाग्निहोत्रादिसाध्यो यस्स्वर्गलक्षणः ।
मोक्षस्स एवेति मतं जरन्मीमांसकाहृतम् ॥
चित्तेन स्वात्मसौख्यानुभूतिं भाट्टैकदेशिनः ।
केचित्स्वात्मन्यवस्थानमभावापत्तिलक्षणम् ॥
परमात्मप्राप्त्यवस्था पुनरावृत्तिवर्जिता ।
मुक्तिर्निःश्रेयसमिति निर्णीतं तन्त्रवार्तिके ॥
प्रभाकरगुरूणां तु दृषत्तुल्य इतीरितम् ।
बोद्धा विषयसंवित्तौ ग्राहकत्वेन भासते ॥
मोक्षे प्रकाशरूपोऽसावात्मेत्येके प्रचक्षते ।
नेप्स्येत पुरुषैस्स्वापादविशिष्टोऽन्यथा तदा ॥
केवलात्मानन्दभोगः कापिलैः कैश्चिदिष्यते ।
कैश्चित्स्वसंवित्तिशून्या कैवल्यावास्थितिर्मता ॥

मोक्षविकल्पः
एवमेवानुजानन्ति पातञ्जलमतानुगाः ।
प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते ॥
सर्ववैशेषिकगुणोच्छेदः काणभुजो मतः ।
एवमेवानुजानन्ति केचिद्गौतमदर्शनाः ॥
तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः ।
अथौपनिषदैः प्रायः ब्राह्माविर्भाव उच्यते ॥
स्वाभाविकं तु ये भेदाभेदमिच्छन्ति वैदिकाः ।
भर्तृप्रपञ्चाद्यस्तैस्सन्मात्रब्रह्मता मता ॥
औपाधिकं तु ये भेदमभेदं निरुपाधिकम् ।
इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः ।
सर्वातिशयितानन्दस्वात्मसंवेदिनः प्रभोः ।
सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते ॥
आविद्यकं तु ये भेदमभेदं पारमार्थिकम् ।
अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः ॥
निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते ।
ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम् ॥
ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः ।
परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते ॥
तद्भोगे परमं साम्यमाहू रामानुजादयः ।
स्वतन्त्रयोरस्वतन्त्ररूपानन्दाभिव्यक्तिलक्षणा ॥

536 मानमेयरहस्यश्लोकवार्तिके

मुक्तिरित्युच्यते पूर्णप्रज्ञैः विष्णोः प्रसादतः ।
'प्रायेणैतेषु पक्षेषु संकीर्णा इतरेऽखिलाः ॥
३ जीवस्वरूपप्रध्वंसवादिनो ये विचक्षणाः ।
मुक्तिमात्यन्तिकीं सर्वक्लेशोभ्यस्ते विदुस्ततः ॥
तत्रादिमास्तु क्षणिकविज्ञानात्मविदो बुधाः ।
देहान्तात्मविदो ये तु बार्हस्पत्या हि ते मताः ॥
पौराणिकैकदेशीयाः ये कल्पान्तात्मवादिनः ।
येऽप्यौपनिषदाः केचित् मोक्षान्तात्माभिधायिनः।
तत्रच ब्रह्मदत्तीयाः जीवोत्पत्त्यादिवादिनः ।
ब्रह्मैवोपादानमेषां जीवानामिति तन्मतम् ॥
भर्तृप्रपञ्चादयोऽन्ये ब्रह्मावस्थात्मवादिनः ।
तत्र केचिदभिव्यक्तिवादिनः शक्तिवेदिनः ॥
विकारा ब्रह्मणः जीवा इति कैश्चिदुपेयते ।
उत्पत्तिरप्यभिव्यक्तिः विकृतिर्वाऽप्यवस्थितिः ॥
परिणामस्ततस्सर्वे ख्याता वैनाशिका इति ।
सर्वेऽप्याश्रयनाशेन क्लेशप्रध्वंसवादिनः ॥
वैकासिकाः परे सर्वे प्रायो वैयासिका इमे ।
परिच्छेदकनाशेन ह्यपरिच्छेदवादिनः ॥
४ एवं मोक्षविकल्पेन द्विविधा ज्ञायते गतिः ।
स्वरूपोच्छित्तिरूपैकोपाध्युच्छित्तिरनन्तरा ॥

मोक्षविकल्पः ५३
उपाध्युच्छित्तिपक्षेऽपि विभागो मुख्यतस्त्वसौ ।
स्वसंवेदनराहित्यसाहित्याभ्यां द्विधा मतः ॥
स्वस्वरूपोच्छित्तिपक्षसंविद्रहितपक्षयोः ।
विशेषः फलतो नैव वक्तुं शक्यमितीतरे ॥
सुखसंवित्त्यभिव्यक्तिं कैवल्येऽप्यनुजानते ।
श्रुतिन्यायानुरोधेन तात्पर्ये पर्यवस्यति ॥
अतस्स्वतन्त्रः श्रौतोऽन्यः पक्षो नास्तीति यौक्तिका
तस्मान्मध्यस्थचिन्तायां सम्प्रदायः परा गतिः ॥
संस्कारः सुदृढस्सोऽयं पारंपर्यव्यवस्थितः ।
संप्रदायः यतः श्रद्धाविद्याकर्ममयः पुमान् ॥
5 येयं सुषुप्त्यवस्थैषा सर्वचेतनसाक्षिता ।
तामुदाहरणं मुक्तेस्सर्वे दार्शनिका विदुः ॥
बृहदारण्यके याज्ञवल्क्यो जनकभूपतेः ।
मोक्षोपलक्षणामेतामाह षष्ठप्रपाठके ॥
भाष्येऽपि पाक्षिले सैषा दशैवानूदिता तथा ।
यथा सुप्तस्य च स्वप्नादर्शने क्लेशसंक्षयः ॥
तथाऽपवर्गे रागानुबन्धो विच्छिद्यते तराम् ।
तस्यामपिं दशायां ये विकल्पास्तान्निबोधत ॥
आत्मप्रध्वंसवादा ये तेषां निर्वाणलक्षणा ।
मुक्तिरात्यन्तिकी सैषा या महासुप्तिरुच्यते ॥
M.R. 68

538 मानमेयरहस्यश्लोकवार्तिके
आत्मनित्यत्ववादा ये तेषां कैवल्यलक्षणा ।
मुक्तिरेतादृगेवेष्टा सुखदुःखविवर्जिता ॥
एतां च केचिदत्यन्तसुखरूपां विजानते ।
केचिदल्पसुखां केचिदभावालम्बनां विदुः ॥
केचिन्मोहमयीं प्राहुरात्मनोऽस्फुरणात्मिकाम् ।
दृष्टान्तेऽपि विवादश्चेत्कथं दार्ष्टान्तिकस्थितिः ॥
6 यैषाऽऽनन्दस्य मीमांसा मानुषानन्दपूर्विका ।
विकासरूपा सा सर्वलोककामाप्तिलक्षणा ॥
एते वैकासिकाः ख्याताः प्रायो वैनाशिकाः परे
ते निवृत्तिपराकाष्ठानिष्ठा इति विनिर्णयः ॥
ये प्रवृत्तिपराकाष्ठानिष्ठास्ते उभये समाः ।
भावाभावस्वभावस्य फलयोरविशेषतः ॥
या संकोचनिवृत्तिस्स विकास इति गीयते ।
यैवावृत्तिनिवृत्तिस्स प्रकाश इति कथ्यते ॥
सर्वदा गमनं यच्च सर्वदा स्थितिरेव सा ।
सर्वत्र गमनं यच्च सर्वत्र व्याप्तिरेव सा ॥
पराप्रकाशयता यैव सैव स्यात्स्वप्रकाशता ।
अस्तमेतैव सविता चोदेता कस्यचिद्भवेत् ॥
तथा सर्वपरित्यागस्सर्वसंग्रहणात्मकः ।
सर्वत्र रागस्सर्वत्र वैराग्यं चोभयं समम् ॥

मुक्तात्मविकल्पः ५३९
सर्वज्ञता सर्वशक्तिः जडता तुच्छताऽपिवा ।
तथैव सर्वतोमुक्तिस्सर्वप्राप्तिरितीर्यते ॥
अपोहदृष्टयः केचित्केचिदन्वयदृष्टयः ।
श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धस्स एव सः ॥
नैरात्म्यमेव सार्वात्म्यं इति तत्त्वविदो विदुः ।
एष कश्चित्सर्वसमरसभावविनिर्णयः ॥
(110) मुक्तात्मविकल्पः
1 आत्मनः खलु वै मोक्षोऽथात्मचिन्ता प्रवर्तते ।
आत्मतत्त्वानुसारेण मोक्षतत्त्वं विभिद्यते ॥
तथाच लोकायतिकाः परलोकापवादिनः ।
चैतन्यखचितात्कायान्नात्माऽन्योऽस्तीति मन्वते
2 अथो तथागताः प्राहुः किं पुंसा कल्पितेन वा ।
ज्ञानमात्रेण सर्वोऽपि व्यवहारोऽवकल्पते ॥
ज्ञानस्यैव प्रभेदोऽयमिच्छाद्वेषसुखादिकः ।
न वस्त्वन्तरमित्येवं न ततोऽन्यप्रकल्पनम् ॥
गुणत्वमपि नास्त्यस्य यतोऽधिष्ठानकल्पना ।
न गुणव्यतिरिक्तश्च गुणी नामास्ति कश्चन ॥
तद्विज्ञानस्कन्ध एषः क्षणिकश्च ध्रुवान्तकः ।
कर्तृभोक्तृप्रत्यभिज्ञाव्यवस्था वासनानुगा ॥

40 मानमेयरहस्यश्लोकवार्तिके
ज्ञानसंततिरुच्छिन्ना शून्यताऽद्वयलक्षणा ।
मुक्तात्मेति विदुः केचित् परे तां शुद्धलक्षणाम् ॥
3 केवलं चापि कूटस्थं पुरुषं कापिला विदुः ।
चैतन्यं चेतनश्चासावभेदो धर्मधर्मिणोः ॥
न कर्तृताभोक्तृताद्याश्चितस्स्वाभाविका गुणाः ।
असंसर्गाग्रहाद्बुद्धिवृत्तयोऽध्यासगोचराः ॥
परेतु सांख्याः पुरुषे भोक्तृतामनुजानते ।
चिद्रूपेण विकारोऽसौ स्यात्सजातीयलक्षणः ॥
यस्मिन् विक्रियमाणेऽपि तदेवेदमिति प्रमा ।
न विहन्येत तन्नित्यं निर्विकारं च मन्वते ॥
4 चैतन्यदृक्क्रियारूपं तदस्त्यात्मनि सर्वदा ।
तत्सर्वतोमुखं मुक्ताविति पाशुपता विदुः ॥
5 वैशेषिकादयः ज्ञातृकर्तृभोक्तृत्वलक्षणान् ।
गुणानागन्तुकानात्मन्युपयन्तोऽपि नित्यताम् ॥
विभुत्वं निर्विकारत्वमिच्छन्त्युच्छित्त्यसंभवात् ।
न प्रकाशात्मतां नापि स्वप्रकाशात्मतां विदुः ॥
6 कौमारिलादिसिद्धान्ते कर्ता भोक्ता मतः पुमान्
ज्ञानशक्तिस्वभावश्च नित्यः सर्वगतः स्वतः ॥
नानित्यशब्दवाच्यत्वमात्मनो विनिवार्यते ।
विक्रियामात्रवाचित्वे न ह्युच्छेदोऽस्य तावता ॥

स्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥
विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः ।
पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥
सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥
7 विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः ।
विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे ॥
ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम् ।
दोषहानौ सदद्वैतं आनन्दमजरामरम् ॥
8 विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः ।
विकारजातमात्मानं निर्विकारं प्रचक्षते ॥
तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।
तत्तत्पदार्थसंसर्गात्तत्तद्वित्त्वमश्नुते ॥
स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः ।
स्वाभाविको मोक्षदशाविकासः न स दुष्यति ॥
ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान् ।
निरञ्जनस्तु परमं साधर्म्यमुपगच्छति ॥
9 विशुद्धाद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान् ।
रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः ॥

सर्वे स्वरूपभूतास्स्युः ते यावद्द्रव्यभाविनः ।
अन्तःकरणधर्मंश्च ज्ञानादीन् सांख्यरीतितः ॥
विदुस्स्वरूपातिरिक्तान् सुखादीन् साक्षिगोचरान् ।
सर्वेऽप्यौपाधिकाः कर्मनाशे नश्यन्ति केवलम् ॥
सांशोऽपि सविकारोऽपि साकारोऽपि परस्परम् ।
विलक्षणोऽपि जीवात्मा नित्य एवेति निर्णयः ॥
10 द्रव्यात्मा निर्विकारस्स्यात् पर्यायात्मा विकार्यपि ।
नातो विरोध इत्याहुर्भेदाभेदविशारदाः ॥
सत्योपाध्युपधानेन कर्तृभोक्त्रादिलक्षणः ।
पुरुषो भास्करमते निर्विकारः स्वतः पुमान् ॥
11 स्याद्वादिनो विकारित्वं सांशत्वं द्रव्यतां तथा ।
पर्यायत्वं च मूर्तत्वं परिच्छिन्नत्वमेवच ॥
अनादित्वमनन्तत्वं आत्मरूपं प्रचक्षते ।
आनन्दरूपं सार्वज्ञ्यं स्वातन्त्र्यं सदनुग्रहम् ॥
12 अविद्योपाधिना वा शक्त्या धर्मेण वा पुनः ।
स्याद्वादाद्वा वासनया विरोधाभावसंग्रहः ॥
13 चतुर्विधाः पुरा प्रोक्ताः ह्यात्मानित्यत्ववादिनः ।
चतुर्ष्वपि मतेष्वेतान् क्रमाद्दोषान् विदुः परे ॥
आद्ये मते त्वैहिकार्थप्रवृत्तिर्दुर्घटा भवेत् ।
देहान्तत्वे विश्ववृत्तिर्धर्म्ये पथि न सिद्ध्यति ॥

मुक्तात्मविकल्पः 543

आकल्पस्थायिपक्षे तु मोक्षशास्त्रं हि निष्फलम् ।
आमोक्षस्थायितायां तु मोक्षस्य न पुमर्थता ॥
तस्माच्चतुर्विधैरेष पुरुषार्थैर्यथायथम् ।
समन्वयं प्राप्तुमर्हः स्वीकर्तव्य इति स्थितम् ॥
मद्धिनाशात्फलं न स्यात् मत्तोऽन्यस्याथवा भवेत् ।
इति नैव प्रवृत्तिस्स्यात् आत्मानश्चेद्विनाशिनः ॥
निरस्ताखिलदुःखोऽहमनन्तानन्दभाक्स्वराट् ।
भवेयमिति मोक्षार्थी श्रवणादौ प्रवर्तते ॥
अहमर्थविनाशश्चेन्मोक्ष इत्यध्यवस्यति ।
अपसर्पेदसौ मोक्षकथाप्रस्तावगन्धतः ॥
मयि नष्टेऽपि मत्तोऽन्यस्तम्भः कुम्भश्च तिष्ठति ।
इति स्वस्य शिरश्छेदः पुरुषार्थो न कस्यचित् ॥
ननुचात्महनो लोके पुरुषास्सन्ति चेन्न ते ।
विवेकिनः किन्तु मूढाः क्रोधान्धहृदया इति ॥
आत्मानो यद्यनित्यास्स्युः कृतहानाकृतागमौ ।
स्यातामिति मतं तेषामात्मनित्यत्ववादिनाम् ॥
स्योदन्यथा पापपुण्यविप्लवश्शास्त्रविप्लवः ।
प्रपञ्चविप्लवस्तस्मात्सर्वेषामात्मनित्यता ॥
सर्वथा साधनीयेति सर्वशास्त्रार्थसंग्रहः ।
इदमेव ह्यास्तिकत्वं नास्तिकत्वं विपर्ययः ॥

(111) कर्मनिवृत्तिवादः.
1 मुक्तिर्हि कर्मणो मोक्षः कर्मतत्त्वं विबुद्ध्यताम् ।
पुण्यं पापमिति द्वेधा लोके कर्म हि विश्रुतम् ॥
पुण्यं विहितजन्यं स्यात् पापं तु प्रतिषिद्धजम् ।
सुखस्य साधनं पुण्यं पापं दुःखस्य साधनम् ॥
इति सामान्यतस्सिद्धं तद्विकल्पोऽवधार्यताम् ।
शाबरा ब्रुवते धर्मं कर्म यागादिलक्षणम् ॥
अपूर्वं कर्मनिर्वर्त्यं वृद्धमीमांसका विदुः ।
प्राभाकरास्तु वाक्यार्थं नियोगं तत्प्रचक्षते ॥
स भावनाविशेषस्स्यादात्मस्थ इति निर्णयः ।
कौमारिलास्तु संस्कारं धर्माधर्मौ पुमाश्रितम् ॥
बुद्धिवृत्तिविशेषो यः तं धर्मं कापिला विदुः ।
धर्मत्वेन व्यपदिशन्त्यार्हताः पुण्यपुद्गलान् ॥
आराध्यदेवताप्रीतिं बादरायणवर्त्मगाः ।
आचक्षते धर्मगिरा सौगताश्चित्तवासनाम् ॥
2 इत्थं तत्त्वे विनिर्ज्ञाते धर्माधर्मपदार्थयोः ।
तन्निवृत्तौ विवादोऽयं प्रवृत्तस्त्ववगम्यताम् ॥
नन्वात्मदर्शनं मोक्षहेतुस्स्यादित्यसाम्प्रतम् ।
अनादित्वादनन्तत्वात्कर्मणां संततात्मनाम् ॥
अथ दोषक्षयान्मा भूदुत्तरः कर्मसंग्रहः ।
कथं फलमदत्त्वैव प्राक्तनं कर्म शाम्यति ॥

कर्मनिवृत्तिवादः ५४
कर्मक्षयो हि विज्ञानादित्येतच्चाप्रमाणकम् ।
तथाऽल्पफलदानं च राजपुत्रापराधवत् ॥
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ।
इत्यादीनि वचांस्यत्र प्रमाणमुपलभ्यते ॥
३ तत्र ये त्वात्मनो नाशं स्वरूपेण विदुर्बुधाः ।
तेषामाश्रयनाशेनाशेषबन्धपरिक्षयः ॥
बन्धश्चित्तगतो येषामात्मा कूटस्थलक्षणः ।
तेषां तु कापिलादीनां चित्तनाशेन मोक्षणम् ॥
दृग्दृश्यभाव एव स्यात्संयोगः पुंप्रधानयोः ।
भोगापवर्गार्थतायां कृतायां तन्न दृश्यते ॥
आविद्यकं कर्म येषामविद्यावादिनां मतम् ।
स्वप्रप्रबोधन्यायेन विद्यायां तत्परिक्षयः ॥
तां विद्यां केचिदिच्छन्ति विबुधा भावनामयीम् ।
साक्षात्कारवतीं केचित् केचिच्चिन्तामयीं बुधाः ॥
केचित् श्रुतिमयीं केचिदाहुर्वाक्यार्थधीमयीम् ।
एवं बहुविधा वादाः मायामभ्युपगच्छताम् ॥
४ कणादमुनिसिद्धान्ते मार्गद्वयमिदं पुनः ।
प्रशस्तपाददेवेन सूचितं भाष्यसागरे ॥
केषांचियोगिनां शान्तिसंतोषस्सुखलक्षणः ।
दुःखात्मकं तपश्चैव पुण्यपापफलं त्विति ॥
M.R. 69

546 मानमेयरहस्यश्लोकवार्तिके
सौभर्यादिन्यायाद्वाऽपि नानादेहपरिग्रहात् ।
सर्वं कर्मानुभूयान्ते मुक्तास्स्युरिति केचन ॥
नित्यं नैमित्तिकं कर्म कर्तव्यं ज्ञानिनामपि ।
अनुष्ठानायासमाहुः फलं प्राक्कर्मणां परे ॥
5 नित्यं नैमित्तिकं कर्म प्राक्तनं कर्म नाशयेत् ।
प्रायश्चित्तनयाच्चेति बृहट्टीकाकृतां मतम् ॥
नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् ।
ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयेत् ॥
अभ्यासाच्च क्वचित् ज्ञानात्कैवल्यं लभते नरः ।
धर्मेणापनुदेत्पापं प्रायश्चित्तेन वा सुधीः ॥
इत्यादीनि वचांस्यत्र प्रमाणानि परश्शतम् ।
प्रतिपद्य विनिर्णीतः मुक्त्यै कर्मपरिक्षयः ॥
6 तत्र ज्ञातात्मतत्त्वानां भोगात्पूर्वक्रियाक्षये ।
उत्तरप्रचयाभावात् विदुर्मुक्तिं कुमारिलाः ॥
मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥
7 सर्वाणि पूर्वकर्माणि संभूयैकं शरीरिणाम् ।
शरीरमारभन्तेऽतः प्रारब्धान्नास्ति संचितम् ॥
स चैकभविकः पक्षः पातञ्जलमतादृतः ।
तं नाद्रियन्ते बहवः कर्मशेषवचश्शतैः ॥

8 ज्ञानाग्निना कर्मनाशः वासुदेवस्य सम्मतः ।
नानुयोगस्यावकाशः पुमर्थे शास्त्रलक्षणे ॥
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन ।
नहि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥
9 मिथ्याज्ञानं च दोषाश्च कर्मणस्सहकारिणः ।
तद्वैकल्येन सन्त्येव न फलन्तीति गौतमाः ॥
10 समाराध्योऽपराध्यो वा भगवान् सर्वकर्मणाम् ।
तस्मिन् प्रसन्ने किं साध्यं न भवेदिति सेश्वराः ॥
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥
11 एवमाद्यं सुप्रसिद्धमथ वैयासिके मते ।
माहात्म्यं ब्रह्मविद्यायाः फलाध्याये प्रदर्शितम् ॥
अश्लेषश्च विनाशश्च स्यातामुत्तरपूर्वयोः ।
तत्र पूर्वे अनारब्धकार्ये एवेति निर्णयः ॥
भोगेनैव क्षेपणीये प्रारब्धे कर्मणी इति ।
यत् श्रूयते शत्रुमित्रोपायनं कर्मणोरिदम् ॥
समानविषयं ज्ञेयं तदश्लेषविनाशयोः ।
कालभेदस्त्वेतदीयावस्थाभेदनिबन्धनः ॥
अनुग्रहो निग्रहो वा क्रमादेव हि लौकिकः ।
वर्धते क्षीयते तद्वदीश्वरीयोऽप्यलौकिकः ॥