मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 575, कुल 672 में से
संदर्भ में पढ़ेंमोक्षविकल्पः 5
महानन्दो यदा मोक्षः शरीरान्याविनिर्णयात् ।
सहस्रकामिनीलाभं कामशास्त्रविदो विदुः ॥
तत्रापिच सहस्रेति सहस्रवणमुच्यते ।
सहस्रुतिर्मोक्ष इति रतिरत्नदीपिका ॥
शून्याद्वैतं माध्यमिकमतस्थैः मोक्ष इष्यते ।
स चोपलम्भोपशमः प्रपञ्चोपशमश्शिवः ॥
दुःखं स्वलक्षणं शून्यं क्षणिकं सकलं ततः ।
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते ॥
शून्यादीनां भावनया वासनानां परिक्षयात् ।
धीसंततिः निर्वृणोति निर्वातस्थप्रदीपवत् ॥
वासनात्यन्तविच्छेदं योगाचाराः प्रचक्षते ।
ततो विशुद्धविज्ञानसत्सन्तानमहोदयः ॥
समस्तालीकविषयज्ञानसंतानसंहतिः ।
प्रज्ञाकरोदिता सौत्रान्तिकसिद्धान्तसम्मता ॥
यतोऽसत्ख्यातिसिद्धान्तः सौत्रान्तिकपरिष्कृतः
केचिद्विषयसंसर्गवैधुर्यमनुजानते ॥
वैभाषिकमते मोक्षस्स स्यादिति विनिर्णयः ।
मतेष्वेषु त्रिषु मता केवला बुद्धिसंततिः ॥
एकतापत्तिमिश्च्छन्ति सन्ततीनां धियां परे ।
शुद्धज्ञानोदयः कैश्चित् चरमज्ञानमिष्यते ॥