मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 583, कुल 672 में से
संदर्भ में पढ़ेंस्यातामत्यन्तनाशेऽस्य कृतनाशाकृतागमौ ।
न त्ववस्थान्तरप्राप्तौ लोके बाल्युवादिवत् ॥
विक्रियात्मस्वभावोऽपि व्यावृत्त्यनुगमात्मकः ।
पुरुषोऽभ्युपगन्तव्यः कुण्डलादिषु सर्पवत् ॥
सर्वावाप्तिसमर्थश्च प्रकृत्याऽऽत्मा सदेष्यते ।
कश्चित्तु प्रतिबन्धोऽस्य कर्मभिस्सोऽपनीयते ॥
7 विशुद्धाद्वैतिनोऽविद्यावशात्सर्वस्य संगतेः ।
विद्यया तन्निवृत्तेश्च कौटस्थ्यं प्रतिपेदिरे ॥
ज्ञातृज्ञानज्ञेयभेददर्शनं दोषबन्धनम् ।
दोषहानौ सदद्वैतं आनन्दमजरामरम् ॥
8 विशिष्टाद्वैतिनो धर्मभूतज्ञानगतं विदुः ।
विकारजातमात्मानं निर्विकारं प्रचक्षते ॥
तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।
तत्तत्पदार्थसंसर्गात्तत्तद्वित्त्वमश्नुते ॥
स विकारः कर्ममूलः तस्मादौपाधिकस्तु सः ।
स्वाभाविको मोक्षदशाविकासः न स दुष्यति ॥
ज्ञानात्मको ज्ञानधर्मा शेषतैकरसः पुमान् ।
निरञ्जनस्तु परमं साधर्म्यमुपगच्छति ॥
9 विशुद्धाद्वैतिनः कर्तृभोक्तृत्वप्रमुखान् गुणान् ।
रूपगन्धरसस्पर्शप्रभृतींश्चात्मनो विदुः ॥