मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 577, कुल 672 में से
संदर्भ में पढ़ेंमोक्षविकल्पः
एवमेवानुजानन्ति पातञ्जलमतानुगाः ।
प्रकाशात्मविदो न स्वप्रकाशात्मविदस्तु ते ॥
सर्ववैशेषिकगुणोच्छेदः काणभुजो मतः ।
एवमेवानुजानन्ति केचिद्गौतमदर्शनाः ॥
तथा नित्यसुखव्यक्तिं विदुर्भूषणयायिनः ।
अथौपनिषदैः प्रायः ब्राह्माविर्भाव उच्यते ॥
स्वाभाविकं तु ये भेदाभेदमिच्छन्ति वैदिकाः ।
भर्तृप्रपञ्चाद्यस्तैस्सन्मात्रब्रह्मता मता ॥
औपाधिकं तु ये भेदमभेदं निरुपाधिकम् ।
इच्छन्ति भास्करास्तेषां सत्योपाधिविनाशतः ।
सर्वातिशयितानन्दस्वात्मसंवेदिनः प्रभोः ।
सर्ववेत्तुस्सर्वशक्तेः ब्रह्मणो भाव इष्यते ॥
आविद्यकं तु ये भेदमभेदं पारमार्थिकम् ।
अहुर्मायाविदस्तेषां पन्थाश्शांकरसंमतः ॥
निर्विशेषब्रह्मभावापत्तिर्मोक्षस्तु तन्मते ।
ब्रह्माद्वैतवदेवेदं शब्दाद्वैतविदां मतम् ॥
ते विशुद्धाद्वैतिनस्स्युः विशिष्टाद्वैतिभिः पुनः ।
परिपूर्णपरब्रह्मानुभवो मोक्ष इष्यते ॥
तद्भोगे परमं साम्यमाहू रामानुजादयः ।
स्वतन्त्रयोरस्वतन्त्ररूपानन्दाभिव्यक्तिलक्षणा ॥